चतुर्धाकरणस्य मक्षार्थताधिकरणम्

पुरोडाशस्य चतुर्धाकरणे ‘इदं ब्रह्मणः’ इत्यादिनिर्देशः श्रूयते । कथं च तत्तद्ब्रह्मादिव्यपदेश्यं भवति यदि तेभ्यो न दीयते । तेन दानं विहितम् । तत्तु किमृत्विजां यथेष्टविनियोगार्थं परिक्रयायाऽऽम्नायते, अथ भक्ष्यमाणशेषप्रतिपत्त्यर्थमिति । परिक्रयार्थमित्याह । न ह्यत्र ‘यजमानपञ्चमा इडां प्राश्नन्ति’ इतिवद्द्रव्यप्राधान्यं भक्षणं वा श्रूयते । तस्माद्द्रव्याणां कर्मशेषत्वात्कर्मयुक्तेभ्यश्च दानादन्तरेणापि परिक्रयश्रुतिं दक्षिणादानवत्परिक्रयार्थमिति ॥ ४८ ॥