988 आपद्यते । न चावश्यं भक्षणेनैव तेषामुपक्रियते । गृहानयनादिनाऽप्युपकारोपपत्तेः । सर्वत्र च द्रव्यसंस्कारार्थतां भक्षस्य व1160क्ष्यति । व्रतादिभिर्निवृत्त्यनभिधानात् । पुरुषसंस्कारा हि व्रतैर्निवर्तेरन् । तत एवं वक्तव्यम् । सत्यं भागानां प्रतिपत्तिः, तथाऽपि तु प्रकृतकर्तृनियमस्य प्रयोजनापेक्षावेलायां दृष्टे सति अदृष्टदौर्बल्याद्दृष्ट एव कर्तृणां सामर्थ्यरूपः संस्कारः कल्प्यते । कर्तृसंस्कारश्च सर्वान्तरङ्गो भक्षणं नाम । गृहमपि च नीत्वा यावद्भक्षणं न क्रियते तावत्तदनुपयोगादनुपकारः । तेनावश्यं सूदूरमपि गत्वा भक्षणे पर्यवसितव्यम् । तत्र प्रथमातिक्रमे कारणाभावाद्योग्यतावशेन च व्यादेशद्वारप्रक्रान्तभक्षसमापनस्यावश्यं कर्तव्यत्वाद्ब्रह्यादीनामेव भक्षणेनोपकर्तव्यमिति गम्यते । शेषस्यापि च क्षपणापेक्षस्य भक्षणकृतमेव क्षपणं योग्यतयाऽवधार्यते ॥ ५० ॥

दक्षिणेति—प्रासङ्गिकोपकारापेक्षया, ब्रह्मण इत्यादिनिर्देशसारूप्याद्वा भविष्यति । तस्माद्भक्षार्थोऽयमुपदेश इति सिद्धम् ॥ ५१ ॥

इति चतुर्धाकरणस्य मक्षार्थताधिकरणम् ॥ १७ ॥
इति श्रीभट्टकुमारिलविरचिते मीमांसाभाष्यव्याख्याने तन्त्रवार्तिके तृतीयस्याध्यायस्य चतुर्थश्चरणः ॥
निवीतपादः समाप्तः ।

उपांशुयाजाद्यर्थहविर्भ्यः शेषकार्याननुष्ठानाधिकरणम्

  1. ( अ॰ १२ पा॰ १ अ॰ १६ सु॰ ३॰ ) इत्यत्रेति शेषः