उपांशुयाजाद्यर्थहविर्भ्यः शेषकार्याननुष्ठानाधिकरणम्
989 1161‘सर्वेभ्यो वा कारणाविशेषात्’ इत्यस्यातिप्र1162सक्तस्यापवादः क्रियते । तमेव तावत्पूर्वं पक्षं स्मारयति । तथा च ‘सर्वेभ्यो हविर्भ्यः’ इत्यनुवाद उपपद्यते । निःशेषहविर्विषयत्वात् ॥ १ ॥
पुराकल्पै च यत्कारणं स्विष्टकृदर्थेऽवदाने संकीर्त्तितं तदाज्येऽप्यविशिष्टम् । यद्देवेभ्यो हविरसौ वहति तस्य तेन भागः प्रार्थितः । आज्यमपि चोपांशुयाजदेवताभ्यस्तेनावश्यं वोढव्यम् । अतश्च ततोऽप्यस्य भागेन भवितव्यम् ॥ २ ॥
एकस्मिन्निति—कस्मिंश्चित्कर्मणीत्यर्थः । अथवा युष्मदभिप्रायेण, एकस्मिन्हविषि स्विष्टकृत्यवदीयमाने सति समवत्तशब्दोऽन्यसहितादवदीयमानवचनो नावकल्पेत । मत्पक्षे त्वाज्यमपि तत्रावदीयत इत्यवकल्पिष्यते । क्व पुनरिदं श्रूयते तदभिधीयते ‘आदित्यः प्रयाणीयः पयसि चरुः, इत्येको यागश्चोदितः । पुनस्तत्रैवोक्तम् ‘आज्यस्थैनं चरुमाभिपूर्याऽऽज्यभागाः पथ्यादयश्चतस्रो देवता यष्टव्याः’ इति । ते च द्रव्यसामान्यादु990 पांशुयाजविकाराश्चत्वारोऽपि यागाः । आदित्यश्चरुराग्नेयविकारः । तत्र ‘अग्नये स्विष्टकृते समवद्यति’ इति श्रूयते । तद्यदि चरोरेकस्यातिदेशेन स्विष्टकृत्प्राप्तस्ततोऽवद्यती त्येव स्यात् । यदा तु प्रकृतावाज्यादप्युपांशुयाजद्रव्यांत्स्विष्टकृत्तदाऽत्रापि यष्टव्य इत्युभयोश्चर्वाज्ययोरवदाने समवत्तशब्दः समर्थितो भवति । तस्मादपि सन्त्याज्ये शेषकार्याणीति ॥ ३ ॥
‘अवदायावदाय ध्रुवां प्रत्यभिधारयति’ ‘स्विष्टकृतेऽवदाय न प्रत्यभिधारयति’ इति ध्रुवात एवावदायेति प्रतिशब्दाद्दृर्ष्टाथत्वाच्चावगम्यते । यदपि स्विष्टकृतेऽवदीयते तदपि ध्रुवात एव, येन तदर्थेऽवत्ते ध्रुवायाः प्रत्यभिधारणं प्रतिषिध्यते । ‘न हि ततः परामाहुतिम्’ इति हेतुवचनात्पूर्वाणि प्रत्यभिधारणानि स्विष्टकृदर्थानीति दर्शयति । ततश्च तत्सामान्यादितरेषु तथात्वमिति सर्वैः शेषक्रार्यैर्भवितव्यम् ॥ ४ ॥
सति प्रधानद्रव्यशेषे शेषकार्याणि क्रियन्ते । न चोपांशुयाजहविःशेषो विद्यते, सर्वादानात् । कथं सर्वादानमिति चेत् । तदुत्तरसूत्रेणाऽऽह ॥ ५ ॥
ध्रुवायां तावन्नोपांशुयाजस्य शेषो विद्यते । ध्रौवस्या1163संयुक्तोत्पत्तेः सर्वाज्यकार्यार्थ991 मादानात् ‘सर्वस्मै वा एतद्यज्ञाय गृह्यते’ इति वाक्यात् । तैत्तिरीयाणां तु कतिपयोपस्तरणाभिघारणादिकार्यानुक्रमणात्तन्मध्ये चोपांशुयाजस्यापि संकीर्तनात्तावतां साधारणम् ‘उपस्तृणन्नभिघारयन्नाज्यस्य यजन्’ इति वाक्याद्गम्यते । साधारणेषु च परिषद्वनोपहारगोष्ठीभोजनादिष्वियं स्थितिः । यदेकस्य भागेऽपयातिते तावन्मात्रमेव तस्य । अवशिष्टं तु तत्समानभाजामवधार्यमाणं न पूर्वशेष इत्येवमकृतार्थत्वेन प्रतिपत्तिमपेक्षते । यदा तु सर्वैः समानभाग्भिर्यथायोगमुद्धृता भागा भवन्ति तदा तस्य साधारण्यानुगुणैव प्रतिपत्त्यपेक्षा भवति । तदिहोपां1164शुयाजार्थे भागेऽपनीते न कश्चिदपि तदीयः शेषो विद्यते । शिष्टस्य परस्ताद्भाव्युपस्तरणाभिघारणादिगृहीतत्वेनाकृतार्थत्वात् । कृतार्थप्रतिपत्तयश्च शेषकार्याणि न स्वयमेवाकृतप्रयोजनमपि द्रव्यं प्रयुञ्जते । तस्मान्न ध्रुवायां शेषोऽस्ति । यस्तु समस्तकार्यनिर्वृत्त्युत्तरकालं साधारणः शेषो भविष्यति तस्य तस्य समिष्टयजुराख्यं प्रतिपत्त्यन्तरमाम्नातम् । यदा त्विदमप्युपस्तरणादिवदेवार्थकर्मावधार्यते तदा सुतरां शेषाभावः । शक्यं तु तैत्तिरीयवाक्यापेक्षयोत्पत्तावन्यसंयोगात्समिष्टयजुषश्च जुहोतिचोदितत्वेनायज्ञत्वात्प्रतिपत्तित्वमवधारयितुम् । निःशेषत्वेन चासाववस्थितेति शेषकार्यान्तराणि बाधते । तस्माद्ध्रुवायां तावन्नास्ति शेषः ॥ ६ ॥
तत्रैतत्स्यात्, यत्केवलोपांशुयाजार्थे जुह्वामवत्तं तस्यैव ग्रहमचमसेष्विव सोमन्य 992 शेषो भविष्यतीति । तदनुपपन्नम् । कुतः । तस्य समस्तस्य ‘चतुरवत्तं जुहोति’ इति होमसंयोयात् । उ1165क्तं ह्येतदुपधानार्थे चरौ नान्यत्र श्रुतमन्यत्र विनियोक्तव्यमिति तस्मान्न जुह्वां शेष उपपद्यते ॥ ७ ॥
अथ यदुक्तं चमसवत्सत्यपि होमसंयोगे शेषो भविष्यतीति । तत्परिहर्तव्यम् ॥ ८ ॥
नैतत्सोभेन तुल्यम् । तत्र हि ग्रहचमसेषु, हविःप्रकल्पनमात्रे कृते यथा न सर्वहोमस्तथा ‘सोमेऽवच1166नाद्भक्षो न विद्यते’ इत्यत्राधिकरणे वक्ष्यामः । तेन चोदनाविरोधं तत्र वक्ष्यमाणं परिहरतां न सर्वहोमो भविष्यति । शेषकार्यान्यार्थदर्शनं च ‘सोमस्याग्ने वीहीत्यनुवषट्करोति’ इत्यादि, ‘सर्वतः परिहारमाश्विनं भक्षयति’ इत्यादिचमससमाख्या च न विरोत्स्यते । अन्यथा तद्विरोधः स्यात् । अथवा न तत्रासमस्तहोमे सति काचिच्चोदना विरुध्यत इत्यविरोधादसर्वहोमः । इह तु विरोधः स्यात् । अयमेव चाविरोधो हेतुरिति सूत्रगमनिका । यथा तु भाष्यकारेण पूर्वं चमसमनुदाहृंत्य ‘चमसवदिति चेत्’ इति सूत्रमुपन्यस्तं तथा परिचोदनासूत्रमेव होमसंयोगानैकान्तिकत्वप्रदर्शनार्थं कल्पयित्वा परिहारो वक्तव्यः । तत्र वचनान्तरकृतत्वाच्छेषः स्यादत्र वचनान्तररहितत्वे सतीति विशिष्टस्य हेतोरव्यभिचारात् । अथवाऽवत्तत्वात्तु जुह्वामित्येतदेव तुशब्दस्थाने चशब्दं कृत्वा पूर्वपक्षवादिप्रत्यवस्थानं व्याचक्षाणैश्चमसो दृष्टान्तो दातव्यः । परं चाऽनुभाषण993 सूत्रं वक्तव्यम् । एतदुक्तं भवति । अवत्तत्वात्तु जुह्वां चमसवच्छेषोऽस्तु । तस्योत्तरं, तस्य च होमसंयोगादिति गतार्थम् ॥ ९ ॥
यस्तु सर्वेभ्य इति । प्राप्त्यपेक्षोऽनुवादः । तत्र यादृशं वयमिह सर्वत्वं पश्यामस्तादृशस्यैवानुवाद इति मन्यामहे । सर्वत्रैव च परमसर्वेण व्यवहाराभावादधिकृतापेक्षः सर्वशब्दो गृह्यत इति न विरोधः । तेन येषां शेषसद्भावेन प्रतिपत्तिकार्याधिकारोऽस्ति, ये वा विद्यमानत्वेन प्रकृतशेषाः, तेभ्यः सर्वेभ्य इति गम्यते ॥ १० ॥
पूर्ववदेव समवद्यतेरनुवादत्वाद्यथासंभ1167वमाज्येऽपीति चराववदीयमाने सौक्ष्म्यात्तदवय1168वस्याचिकीर्षितमप्यवदानं बलाद्भवति । तदेतत्संसृष्टद्रव्यजातिद्वयमपेक्ष्य संशब्दोऽनुवादः ॥ ११ ॥
अन्त्यं यत्तु कारणं स्विष्टकृदर्थोऽर्थवाद इत्युक्तं, तदस्मत्पक्षेऽप्युपपद्यत एव । अरेकार्थत्वात् । ‘स्विष्टकृतेऽवदाय’ इति तावद्यतस्तस्यावदानं भवति यादृशं वा संभवति तादृशमिति गम्यते । पुरोडाशादिभ्यश्च तस्यावदानं, ध्रुवातश्चोपस्तरणामिधा994 रणे । न चतुर्थ्यन्तेन ध्रौवमेवावदानं संबध्यते । सा हि देवतार्थद्रव्यान्तरावदानेऽप्युपस्तरणाभिघारणोपयोगित्वात्प्रत्याभिघारणमपेक्षत एव । तेन प्राक् स्विष्टकृतः परस्तादपि ध्रौवोपयोगोऽस्तीत्यवत्तेऽवत्ते प्रतिपूरयितव्या, ततः परं तु न किंचित्कार्यमिति नार्थः प्रतिपूरणेन । न ह्येतत्प्रतिपूरणं पूर्वस्यावदानस्य संस्कारकमदृष्टार्थत्वप्रसङ्गात् । अरेकस्तूत्तरकार्यार्थः प्रत्यक्षः । तस्मादन्तरेणापि स्विष्टकृदर्थत्वं तदवधिकारेकार्थत्वेनोपपन्नोऽर्थवादः ॥ १२ ॥
- ( अ॰ ३ वा॰ ४ अ॰ १५ सू॰ ४४ )↩
-
अतिप्रसक्तस्येतिक्वचिन्नाति ।
↩ -
असंयुक्तोत्पत्तेरिति—‘चतुर्ध्रुवायां गृह्णाति’ इति वाक्येनेति शेषः ।
↩ -
साधारणेषु चेत्यादिनोपपादितं सार्बत्रिकं न्यायं प्रकृतोदाहरणेऽतिदिशति—तदिहेत्यादिना ।
↩ -
( अ॰ २ पा॰ ३ अ॰ ७ ) । ‘इत्यत्र’ ततश्च किंचिदिज्यायां विनियुज्येत । तदन्यत्र श्रुतमन्यत्र कृतं भवेत्’ इत्यादिना भाष्यकारैरित्यर्थः
↩ - ( अ॰ ३ पा॰ ५ अ॰ ५ सू॰ १९ )↩
-
यथासंभवमर्थोऽपीति, पा॰ ।
↩ -
तदवयवस्यानुस्यूतस्याचिकीर्षीतमिति, पा॰ ।
↩