एकस्मिन्निति—कस्मिंश्चित्कर्मणीत्यर्थः । अथवा युष्मदभिप्रायेण, एकस्मिन्हविषि स्विष्टकृत्यवदीयमाने सति समवत्तशब्दोऽन्यसहितादवदीयमानवचनो नावकल्पेत । मत्पक्षे त्वाज्यमपि तत्रावदीयत इत्यवकल्पिष्यते । क्व पुनरिदं श्रूयते तदभिधीयते ‘आदित्यः प्रयाणीयः पयसि चरुः, इत्येको यागश्चोदितः । पुनस्तत्रैवोक्तम् ‘आज्यस्थैनं चरुमाभिपूर्याऽऽज्यभागाः पथ्यादयश्चतस्रो देवता यष्टव्याः’ इति । ते च द्रव्यसामान्यादु990 पांशुयाजविकाराश्चत्वारोऽपि यागाः । आदित्यश्चरुराग्नेयविकारः । तत्र ‘अग्नये स्विष्टकृते समवद्यति’ इति श्रूयते । तद्यदि चरोरेकस्यातिदेशेन स्विष्टकृत्प्राप्तस्ततोऽवद्यती त्येव स्यात् । यदा तु प्रकृतावाज्यादप्युपांशुयाजद्रव्यांत्स्विष्टकृत्तदाऽत्रापि यष्टव्य इत्युभयोश्चर्वाज्ययोरवदाने समवत्तशब्दः समर्थितो भवति । तस्मादपि सन्त्याज्ये शेषकार्याणीति ॥ ३ ॥