990 पांशुयाजविकाराश्चत्वारोऽपि यागाः । आदित्यश्चरुराग्नेयविकारः । तत्र ‘अग्नये स्विष्टकृते समवद्यति’ इति श्रूयते । तद्यदि चरोरेकस्यातिदेशेन स्विष्टकृत्प्राप्तस्ततोऽवद्यती त्येव स्यात् । यदा तु प्रकृतावाज्यादप्युपांशुयाजद्रव्यांत्स्विष्टकृत्तदाऽत्रापि यष्टव्य इत्युभयोश्चर्वाज्ययोरवदाने समवत्तशब्दः समर्थितो भवति । तस्मादपि सन्त्याज्ये शेषकार्याणीति ॥ ३ ॥

‘अवदायावदाय ध्रुवां प्रत्यभिधारयति’ ‘स्विष्टकृतेऽवदाय न प्रत्यभिधारयति’ इति ध्रुवात एवावदायेति प्रतिशब्दाद्दृर्ष्टाथत्वाच्चावगम्यते । यदपि स्विष्टकृतेऽवदीयते तदपि ध्रुवात एव, येन तदर्थेऽवत्ते ध्रुवायाः प्रत्यभिधारणं प्रतिषिध्यते । ‘न हि ततः परामाहुतिम्’ इति हेतुवचनात्पूर्वाणि प्रत्यभिधारणानि स्विष्टकृदर्थानीति दर्शयति । ततश्च तत्सामान्यादितरेषु तथात्वमिति सर्वैः शेषक्रार्यैर्भवितव्यम् ॥ ४ ॥

सति प्रधानद्रव्यशेषे शेषकार्याणि क्रियन्ते । न चोपांशुयाजहविःशेषो विद्यते, सर्वादानात् । कथं सर्वादानमिति चेत् । तदुत्तरसूत्रेणाऽऽह ॥ ५ ॥

ध्रुवायां तावन्नोपांशुयाजस्य शेषो विद्यते । ध्रौवस्या1163संयुक्तोत्पत्तेः सर्वाज्यकार्यार्थ

  1. असंयुक्तोत्पत्तेरिति—‘चतुर्ध्रुवायां गृह्णाति’ इति वाक्येनेति शेषः ।