‘अवदायावदाय ध्रुवां प्रत्यभिधारयति’ ‘स्विष्टकृतेऽवदाय न प्रत्यभिधारयति’ इति ध्रुवात एवावदायेति प्रतिशब्दाद्दृर्ष्टाथत्वाच्चावगम्यते । यदपि स्विष्टकृतेऽवदीयते तदपि ध्रुवात एव, येन तदर्थेऽवत्ते ध्रुवायाः प्रत्यभिधारणं प्रतिषिध्यते । ‘न हि ततः परामाहुतिम्’ इति हेतुवचनात्पूर्वाणि प्रत्यभिधारणानि स्विष्टकृदर्थानीति दर्शयति । ततश्च तत्सामान्यादितरेषु तथात्वमिति सर्वैः शेषक्रार्यैर्भवितव्यम् ॥ ४ ॥