989 1161‘सर्वेभ्यो वा कारणाविशेषात्’ इत्यस्यातिप्र1162सक्तस्यापवादः क्रियते । तमेव तावत्पूर्वं पक्षं स्मारयति । तथा च ‘सर्वेभ्यो हविर्भ्यः’ इत्यनुवाद उपपद्यते । निःशेषहविर्विषयत्वात् ॥ १ ॥

पुराकल्पै च यत्कारणं स्विष्टकृदर्थेऽवदाने संकीर्त्तितं तदाज्येऽप्यविशिष्टम् । यद्देवेभ्यो हविरसौ वहति तस्य तेन भागः प्रार्थितः । आज्यमपि चोपांशुयाजदेवताभ्यस्तेनावश्यं वोढव्यम् । अतश्च ततोऽप्यस्य भागेन भवितव्यम् ॥ २ ॥

एकस्मिन्निति—कस्मिंश्चित्कर्मणीत्यर्थः । अथवा युष्मदभिप्रायेण, एकस्मिन्हविषि स्विष्टकृत्यवदीयमाने सति समवत्तशब्दोऽन्यसहितादवदीयमानवचनो नावकल्पेत । मत्पक्षे त्वाज्यमपि तत्रावदीयत इत्यवकल्पिष्यते । क्व पुनरिदं श्रूयते तदभिधीयते ‘आदित्यः प्रयाणीयः पयसि चरुः, इत्येको यागश्चोदितः । पुनस्तत्रैवोक्तम् ‘आज्यस्थैनं चरुमाभिपूर्याऽऽज्यभागाः पथ्यादयश्चतस्रो देवता यष्टव्याः’ इति । ते च द्रव्यसामान्यादु

  1. ( अ॰ ३ वा॰ ४ अ॰ १५ सू॰ ४४ )
  2. अतिप्रसक्तस्येतिक्वचिन्नाति ।