पुराकल्पै च यत्कारणं स्विष्टकृदर्थेऽवदाने संकीर्त्तितं तदाज्येऽप्यविशिष्टम् । यद्देवेभ्यो हविरसौ वहति तस्य तेन भागः प्रार्थितः । आज्यमपि चोपांशुयाजदेवताभ्यस्तेनावश्यं वोढव्यम् । अतश्च ततोऽप्यस्य भागेन भवितव्यम् ॥ २ ॥