राजन्यचमसे ब्राह्मणानां भक्षप्रतिपादनाधिकरणम्

1021 दशपेये ‘शतं ब्राह्मणाः सोमान् भक्षयन्ति । दश दशैकैकं चमसमनुप्रसर्पेयुः’ इति । तत्र राजन्यचमसोऽपि किं ब्राह्मणैरेव दशभिर्भक्षयितव्य उत राजन्यैरिति संदेहः । कः पुनः संदेहहेतुः । केचिदाहुः । वचनव्यक्तिभेद इति । यदि हि दश दशैकैकमिति विधिस्ततस्तुल्यजातीयेषु सर्वत्र विहितेषु ‘शतं ब्राह्मणाः’ इति यथाप्राप्तानुवादो ब्राह्मणग्रामवद्भूम्ना भवतीति राजन्या दश । अथ पुनः ‘शतं ब्राह्मणाः’ इति विधिः ‘दश दशैकैकम्’ इत्यनुवादस्ततो विधौ गौणत्वासंभवात्सर्वत्र ब्राह्मणैरेव भक्षयितव्यमिति ब्राह्मणा दश । किं तावत्प्राप्तम्, अनुप्रसर्पेयुरित्यस्य विधिसामर्थ्याद्भक्षयन्तीति चानुवादसामर्थ्याद्दशदशैकैकमिति विधौ सति के दशेत्यपेक्षायां तुल्यजातीयेषु संख्यावृत्तिस्वाभाव्याद्ब्राह्मणचमसेषु ब्राह्मणा राजन्यचमसे राजन्या दशेति गम्यते । सामान्यादिति च-दशसंख्यां चोदयित्वा निवृत्तव्यापारे शास्त्रे तत्पूरणार्थमश्रुतासु व्यक्तिषूपादीयमानासु यासां किंचित्प्रत्यायकमस्ति ता ग्रहीतव्यास्तुल्यजातीयानां च सामान्यं गमकं विद्यते न जात्यन्तरानुगतानाम् । अथवा सामान्यादिति—विषयसामान्यात्, ‘अर्थैकत्वे द्रव्य1208गुणयोः’ इति हि फलचमसं प्रत्युपादीयमानयोः क्षत्रियत्वदशत्वयोः परस्परनियमे सति यावति विषये दशत्वं तावति राजन्यत्वमित्यवगम्यत इति बलाद्दश राजन्या विज्ञायन्ते । अथवा सामान्यादिति—तुल्यकार्यं तुल्यजातीयं च तुल्यस्य बाधकं भवति । तद्यदि राजसूयचोदनातो राजन्यत्वं प्राप्तं प्रकृतितश्चैकत्वं, तत्र दशत्वं विधीयमानं सामान्यादातिदेशिकत्वाच्चैकत्वं बाधते न जातिं, भिन्नकार्यत्वात् । ततश्चानिवृत्तजातिरेव यजमानचमसो दशत्वेन योजयितव्य इति दश राजन्या भवन्ति । ननु च दशत्वे विधीयमाने यदेकैकं चमसमनुप्रसर्पन्तीति 1022 विशिष्टानुवादाद्वाक्यं भिद्यते । नैष दोषः । चमसमिति द्वितीयान्तं केवलमनूद्यते । तावता तु संस्कार्यत्वं गम्यते । न च चमसानां भक्षणं मुक्त्वाऽन्यः संस्कारः । तेन स एवानुप्रसर्पणशब्देन लक्ष्यते । तन्न च प्रत्येकमेव भक्षणं प्राप्तमिति तदप्यनूद्यते । तस्मान्न वाक्यभेदः ॥ ५२ ॥

  1. ( अ॰ ३ पा॰ १ अ॰ ६ सू॰ १२ )