1026 रत्वाद्यपि प्राप्नोतीति नोपदेशमपेक्षते । तेन द्विरुक्तस्यासंभव इत्याह । तव द्विरुक्तत्वादद्विरुक्तत्वाद्वा ममेति सूत्रम् ॥ २ ॥

प्राप्तेरिति वा पाठः । सत्यं द्विरुक्तत्वमन्याय्यं, तत्र कुत एतदतिदेशप्राप्तत्वादुपदेशो विहन्यते, न पुनरुपदेशसिद्धमतिदेश एव प्रापयेदिति । युक्तं च पदार्थविप्रकर्षादतिदेशो न स्यात् । संनिकर्षात्तु पूर्वतरप्रवृत्तोपदेशाश्रयणम् । अथोच्येत, सामान्यविषयत्वादुपदेशो दुर्बल इति । तदतिदेशेऽपि सर्वाङ्गविषयत्वादविशिष्टम् । तस्मात्स र्वार्थोऽनारभ्यवाद इति ॥ ३ ॥

स्थितायां प्रतिज्ञायां चोदयति । यद्यतिदेशादुपदेशो बलवानेवं सति तेनैवोपदेशेनावरुद्धत्वादतिदेशो नैव स्यात् । कुतः । शक्नोति हि प्रकृतिविकृतिसाधारणं खादिरत्वं प्राकृतोपकारसाधने दृष्टशक्तित्वाद्विकृतिं निराकाङ्क्षीकर्तुम् । ततश्च प्रयाजादिदर्शनं विरुध्यते । तस्मादतिदेशविनिर्मुक्तायां प्रकृतावेव निवेशो युक्त इति ॥ ४ ॥

नैतावता शक्यं सर्वार्थत्वं व्यावर्तयितुम् । न ह्येकस्मिन्नंशेऽतिदेशो बाधितः सर्वत्रैव बाधितो भवति । तद्यथा शरैः कुशेषु निवर्तितेष्वपि न प्रयाजादयो निवर्त्यन्ते ।