यदि ह्यानर्थक्याल्लौकिकाद्बर्हिषो धर्मनिवृत्तिस्ततो यत्र तदानर्थक्यं नास्ति कर्मान्तरार्थे बर्हिषि, तत्र प्रवृत्तिः प्राप्नोति । यदि तु कश्चित्तन्निवृत्त्यर्थो हेतुः सोऽङेगष्वप्यविशिष्टः । तत्र सौर्यादिष्वितरथाऽप्यतिदेशेन सन्त्येव धर्मा इत्युपदेशातिदेशप्राप्तिरहितत्वात्पिण्डपितृयज्ञ उदाहरणम् । अपूर्वो ह्ययमनङ्गं चेति स्था1316स्यति । तेनात्यन्तानिष्टप्रसङ्ग इति ॥ ३ ॥

  1. (अ॰ ४ पा॰ ३ अ॰ ८ सू॰ २९) इत्यत्रेति शेषः