भवेदेतद्यदीदं वाक्यं स्वतन्त्रं स्यात् । बर्हिर्वेदितद्धर्माणां तु यद्वाक्यं तद्दर्शपूर्ण1076 मासाभ्यां सहैकम् । तेन वाक्येन सहैकवाक्यतां गतमित्यर्थः । तेन यत्तदेकवाक्यान्तर्गतं बर्हिस्तस्यैवैतद्धर्मप्राप्तिर्न भिन्नवाक्यगतस्य । न त पिण्डपितृयज्ञबर्हिर्दर्शपूर्णमासवाक्यान्तर्गतम् । अतो न संभन्त्स्यत इति । ननु यदि दर्शपूर्णमासाभ्यां सहैकवाक्यत्वमिष्यते ततस्तत्प्रकरणं मुक्त्वा नान्येन लभ्यते । तच्च प्रकरणं प्रधानमात्रस्यैवेत्यङ्गानामसंबन्धः प्राप्नोति । नैष दोषः । सर्वथा लवनखननादयस्तावन्न साक्षादङेगन प्रधानेन ना संबन्धुं शक्नुवन्ति । यत्र वेदिबर्हिषी तत्र गमिष्यन्ति । वेदिबर्हिषोरपि हविरासादनेन संबन्धः । तच्च दर्शपूर्णमासप्रयोगवचनगृहीतमासादनं संबध्यते । एवमङ्गहविरासादनमपि तत्रान्तर्गतं, साङ्गस्य प्रधानस्यैकप्रयोगत्वात् । ननु च यथा प्रयाजादय एकप्रयोगवचनगृहीतत्वेऽपि ‘गुणानां1317 च परार्थत्वात्’ इत्येवं परस्पराङ्गत्वं न प्रतिपद्यन्ते तथाऽङ्गहविःसंबन्धं बर्हिर्न प्रतिपद्यते । नैतदेवम् । यथैव हि प्रधानहविरासादनमङ्गतया संबध्यते तथाऽङ्गहविरासादनमप्यङ्गाङ्गतया संभन्त्स्यते । यदि चि यद्दर्शपूर्णमासार्थं हविस्थद्बर्हिष्यासादयतीत्येवं कल्प्येत ततस्तन्मात्रस्यैव स्यान्न त्वेवम् । अस्याऽऽनर्थक्यभयात्तु स्वरूपेऽतिक्रम्यमाणे किमेवमतिक्रमोऽस्तु यद्दर्शपूर्णमासार्थमुत यद्दर्शपूर्णमासोपकारीति । यदि तादर्थ्यं गृह्यते वाक्यस्यातिदूरं संकोचः क्रियेत । तदुपकारित्वग्रहणे तु बहुतरविषयत्वं भवति । यथा च तद्भवति तदनुग्रहीतव्यम् । अङ्गाङ्गमपि विनाऽपि तादर्थ्येन तदुपकारीति विज्ञायते । तावन्मात्रमेव न तद्द्वारं युक्तं न तादर्थ्यम् । अनुपकारिणि हि स्थितं नोपकरोति नातदर्थे । तथा च ‘परा1318र्थे त्वर्थसामान्यम्’ इति वक्ष्य1319ति, विनाऽपि तादर्थ्येनाभ्यु1320दितेष्ट्यां दधिपयसोस्तुदुपकारमात्रदर्शनात्प्रणीताधर्मप्राप्तिर्भवतीति । तस्मादेवं प्रकरणादेकवाक्यत्वं कल्प्यते यस्मिन्नक्रियमाणे दर्शपूर्णमासापूर्वं न सिध्यति तत्र तत्र कर्तव्या इति । अङ्गहविर्भिरपि च विगुणैः प्रधानापूर्वं न निष्पद्यते । तस्मात्प्रधानापूर्वप्रयुक्तानामेवाङेगष्वपि क्रिया युक्तेति ॥ ४ ॥

  1. (अ॰ ३ पा॰ १ अ॰ १२ सू॰ २२)
  2. (अ॰ ९ पा॰ २ अ॰ १४ सू॰ ४४)
  3. इति वक्ष्यति—इति सूत्रेण पूर्वपक्षयित्वा ‘क्रियेरन् वाऽर्थनिवृत्तेः’ इति सिद्धान्तसूत्रेण वक्ष्यतीत्यर्थः ।

  4. अभ्युदितेष्ट्यामिति—‘यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदियात्, स त्रेधा तण्डुलान्विभजेत् । ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेत् । ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं, येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्’ इति वाक्येन दर्शपूर्णमासयोरकालोपक्रमनिमित्तदोषपरिहारार्थतया विहितायामभ्युदितेष्टाक्त्यिर्थः ।