सर्वेषां वाक्यसंयोगाविशेषादित्युक्तमेव । यत्तु प्ररकणं विशेषेण विनियोजकमिति, तत्राऽऽह—अतत्प्रयुक्तत्वात् । न प्रकरणमिह विशेषकं भवतीत्यर्थः । कथं पुनः स्थितं प्रकरणस्य विनियोजकत्वं निवर्तते, कथं वा तादर्थ्यलक्षणव्यतिरिक्तं च बहुदोष1313मुपकारलक्षणं शेषत्वं प्रतिज्ञायते । उच्यते । नैव प्रकरणस्यैवंजातीयकेषु विनियोजकत्वं स्थितम् । ‘असंयु1314क्तं प्रकरणात्’ इति ह्युक्तम् । यत्तु विरोधो नास्तीति । कथं नास्ति, यदा बर्हिषां प्राधान्यात्प्रत्येकं धर्मसंबन्धे सति अङ्गार्थत्वमपि ज्ञायमानं प्रकरणानुरोधेन व्यावर्त्यते । परस्तु येन कारणेन वाक्यस्यातिप्रसरे बाधिते निर्विरोधं प्रकरणमवगतवानिदानीं तदुपन्यस्यति लौकिकेऽपि प्राप्नोति ततश्चाऽऽनर्थक्यमिति । तस्योत्तरमेतदेव वक्तव्यम् । स्वरसप्रवृत्तं वाक्यं यावत्येव विस्पष्टमानर्थक्यं तावन्मात्रादेव निवर्तताम् । न चाङ्गबर्हिषां लौकिकवदानर्थक्यम् । अतस्तत्र भविष्यति । न 1075 चातिप्रसज्यत इति । अनेनैव चाभिप्रायेण, उपकारलक्षणं हि तदिति तादर्थ्यमेव फलेन व्यपदिष्टम् । यदर्थं हि कल्प्यमानं प्रयोजनवद्विज्ञातुमाकाङ्क्षितोपकारनिष्पत्त्या शक्यते तदर्थं कल्पनीयम् । यत्तु भाष्यकारेणातिप्रसङ्गनिवृत्त्यर्थं प्रकरणादिंत्युक्तं तदुत्तर1315परिचोदनानवतारप्रसङ्गादतित्वरितोक्तमित्युपेक्षणीयं तावत् ॥ २ ॥

  1. बहुदोषमुपकारलक्षणं शेषत्वमिति । अयमाशयः । यद्युपकारकत्वं शेषत्वं तदा कृष्णदीनामपि परम्परया यागाद्युपकारकत्वाद्यागाङ्गतापत्तिः । यदि विहितत्वघटितं तद्विवक्ष्यते तदाऽपि ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इति वाक्येन पश्वङ्गतया विहितस्य गोदोहनस्य प्रणयनोपकारकत्वात्तदङ्गत्वापत्तिः । अथान्यानुपकारकत्वघटितं तदा गोदोहनस्य प्रणयनान्यपशूपकारकत्वान्नातिप्रसङ्ग इति चेत् । गोदोहनस्य पश्वङ्गत्वमेव न स्यादित्यादिबहुदोषग्रस्तत्वादवश्यं परोद्देशप्रवृत्तकृतिकारकत्वेन विहितत्वरूपमेव शेषत्वं निर्वाच्यमिति ।

  2. (अ॰ ३ पा॰ ३ अ॰ ४ सू॰ ११)
  3. उत्तरपरिचोदनेति—‘आरादपीति चेत्’ इत्यनेन क्रियमाणपरिचोदनेत्यर्थः । अत इदं भाष्यं ‘न तद्वाक्यं हि तदर्थत्वात्’ इत्यत्रोत्कृष्य व्याख्येयमित्याशयः ।