1110 प्रधानवेदव्यपदेशं लभन्त इति । तस्माच्छयेने सर्वे पदार्थाश्चोदकप्राप्ता उद्गातृभिः कर्तव्या इति ॥ ५० ॥

1406क्तं, व1407क्ष्यते चैतद्यथा जघन्यकालत्वात्प्रयोगवचनश्चोदकाद्दुर्बल इति । प्रयोगवचनाश्रया च प्रधानसमाख्या, सा सत्यपि प्रत्यक्षत्वे दुर्बला । यावच्चातिदेशेन नाङ्गानि प्राप्यन्ते तावत्कस्य कर्तारं नियच्छति । यदा तु प्राप्तानि भवन्ति तदैषां कॢप्तकर्तृसंबन्धान्न कदाचिदपेक्षेति किं समाख्या करिष्यति । न चात्र प्राप्तबाधो भवति, श्रुतिकल्पनेन समाख्याया विप्रकृष्टत्वात् । उ1408क्तं ह्येतद्यथा कॢप्तमूलानां प्रमाणानां प्राप्तबाधो भवति न कल्प्यमूलानामिति । तस्मात्प्राप्तकृतग्रहणेन तदधिकारसामर्थ्याज्ज्योतिष्टोमवदेव नानाकर्तृकः स्यात् । यद्यपि च प्रकृतावपि समाख्ययैव नानाकर्तारस्तथाऽपि कॢप्तसंबन्धत्वादिह श्रुतितुल्यता । यत्त्वप्राकृतं किंचिदाम्नायते तस्य प्रधानसमाख्यातकर्ता भविष्यतीति दर्शयन्नाह—‘अव्यक्तः शेषे’ इति । अकॢप्तावस्थत्वादव्यक्तोऽयं कर्तृसंबन्धः कॢप्तादन्यत्र भवितुमर्हति । न त्वस्य विषयः सम्यग्दृश्यते । कण्टकवितोदनादीनि यद्वा प्रधानसमाख्याते वेदे पठ्यन्ते, वेदान्तरे वा । यदि तावत्तत्रैव ततः समा1409ख्ययैव तेषां

  1. उक्तमिति-गुणमुख्यव्यतिक्रमाधिकरणे स्वरचर्चायां स्वयमुक्तमित्यर्थः ।

  2. वक्ष्यत इति—( अ॰ ५ पा॰ १ अ॰ १० सू॰ १८ ) इत्यत्र भाष्यकारेणेत्यर्थः ।

  3. ( अ॰ ३ पा॰ ३ अ॰ ७ ) इत्यत्र ‘अथ यत्तत्र तत्रोच्यते, इदमनेन बाध्यते’ इत्यादिभाष्यग्रन्थव्याख्यानावसरं इत्यर्थः ।

  4. समाख्ययैवेति—औद्गात्रमिति समाख्यायाः सर्वनामार्थविहिततद्धितान्तत्वेन सर्वनाम्नश्च बुद्धिस्थप्रकारावच्छिन्नवाचित्वात्प्रत्येकवृत्तित्वावसायात्स्वसमाख्ययैव कर्तृप्राप्तिर्न प्रधानसमाख्ययेत्यर्थः ।