दक्षिणादानस्य यजमानकर्तृकत्वाधिकरणम्
1112 समाख्यापवादत्वेनैतदपि विचार्यते । किं परिक्रय आध्वर्यवादिष्वाम्नानात्तत्समाख्यातैः पुरुषैः कर्तव्य उत स्वामिनेति । सिद्धे त्वेतस्मिन् ‘अन्यो वा स्या1411त्परिक्रयाम्नानात्’ इत्येतद्द्रष्टव्यम् । तथा स्वामिना लौकिक उपाय आस्थेयो यथाऽध्वर्य्वादयः स्वद्रव्येणेतरान्परिक्रीणते समाख्यानुग्रहार्थमिति प्राप्तेऽभिधीयते ।
परिक्रयेण हि सर्वत्र स्वयं कर्तृत्वं यजमानस्योपपादितं यदि परिक्रयमपि न कुर्यान्न क्वचित्कर्तृत्वं प्रतिपद्यते । लौकिकेनोपायेन प्रतिपत्स्यत इति चेत् । न वचनादृते स्वयं कर्तृत्वबाधासंभवात् । तस्मात्स्वामिकर्म ॥ १ ॥
उपदध्यादिति परस्मैपदादयाजमानत्वेऽवधारिते वरदानमृत्विक्कर्म । तत्सिद्धिश्च यदि तावच्छास्त्रीयेण परिक्रयेण लभ्यते ततोऽस्त्येव यजमानस्य कर्तृत्वम् । अथ न लभ्यते ततो लौकिक उपाय इति ॥ २ ॥
- ( अ॰ ३ पा॰ ७ अ॰ ८ सू॰ २० ) ।↩