शेषप्रतिज्ञाधिकरणम्
तथा च प्रथमसूत्रोपात्तप्रतिज्ञापिण्डव्याख्याप्रदेशप्रद509र्शने धर्मप्रमाणस्वरूपविषयलक्षणद्वयार्थं चोदनालक्षणसूत्रेणैकेनैव सूत्रितं वर्णयित्वा कानि अस्य साधनानि—अङ्गानिकानि च साधनाभासानि—अनङ्गानीति फलार्थत्वातदर्थत्वाभ्यां क्व पुरुषः प्रधानं धर्मस्य क्व वा पुरुषो गुणभूत इत्यादि यावत्किंचन मीमांसितव्यं तत्सर्वं शेषलक्षणेनैव व्याख्यातम् । शेषैः समस्तैरेव लक्षणैरित्यर्थः । इह लक्षणानां बहुत्वेऽपि यदेकवचनं कृतं तल्लक्षणत्वसामान्यसंख्यामात्रविवक्षया ।
बहुष्वपि हि लक्षणार्थेषु विवक्षितेषु क्रमवशादेकस्तावदङ्गत्वरूपः शेष एतल्लक्षणगोचरः परार्थत्वहेतुकः प्रतिपाद्यते । समासश्च द्वेधा विगृह्य द्वयोर्वाक्यार्थयोः प्रदर्शनीयः । शेषं च तल्लक्षणं च, शेषस्य वाऽर्थस्य लक्षणमिति । षष्ठीसमासमात्राश्रयणेन वा यथाव्याख्यायमानार्थम् ।
सर्वेषां हि लक्षणान्तरार्थानां प्रयोज्याप्रयोज्यप्रयोजकाप्रयोजकषड्विधक्रमनियमफलवत्कर्मविषयकर्त्रधिकाररूपाणां तावदङ्गात्मकशेषविशेषप्रकारत्वाल्लक्षणान्तरगोचराणामपि शेषलक्षणान्तर्गतत्वावधारणस्थितिः । तथा हि—
एकफलसाधनानामर्थानां ह्येकफलवदुपकारोपनिबद्धानां वैकप्रयोगवचनचोदितानां यौगपद्यानुष्ठानाशक्तेः सामर्थ्येनाङ्गभूतः क्रम आपद्यमानः श्रुत्यर्थपठनस्थानमुख्यप्रावृत्तिकक्रमाख्यप्रमाणषट्कवशेन व्यवस्थाप्यते ।
वक्ष्यति हि ‘पुरु510षश्च कर्मार्थत्वात्’ इति जैमिनिः ।
तत्र तु—
तत्राथशब्द आनन्तर्यपूर्वप्रकृतापेक्षाधिकाराणामेकं सर्वान्वा विवक्षित्वा प्रयुज्यते । प्रागुक्तमेदलक्षणानन्तरोक्तत्वात्पूर्वप्रकृतमपेक्ष्य शेषलक्षणमारभ्यते । कुत इति हेत्वपेक्षायामत इति हेतुव्यपदेशः ।
अर्थद्वारो ह्यध्यायादिसंबन्धो न ग्रन्थस्वरूपाश्रय इति संक्षेपोक्तिपिण्डीकृतवृत्तवर्तिष्यमाणाध्यायार्थप्रदर्शनपूर्वं भाष्यकारेणैव संबन्धः पूर्वाध्याययोरभिहितः । इह तु सूत्रकारेणैवाथातःशब्दाभ्यामुपनिबद्ध इति स एव व्याख्यातः—नानाकर्मलक्षणं वृत्तमिति च ।
प्रथमाध्यायप्रतिपादितो हि प्रमाणविवेकविध्यर्थवादमन्त्रस्मृतिगुणविधिनामधेयवाक्यशेषार्थकृतसंदिग्धविधिनिर्णयप्रविभागः प्रत्येकं भेदादिलक्षणेषु भेदेनोपयोक्ष्यत इति प्रपञ्चेनानुभाषितः । तथा चाभ्यासाधिकरणे513 स्थितवेदप्रमाणलक्षणबलेनोक्तम् ‘अविशेषा514दनर्थकं हि स्यात्’ इति । विधेयान्तररहितश्चानन्यपरो विधिः कर्मस्वरूपमेव विदधत्पूर्वविहितादवश्यमेव कर्मान्तरं करोतीति विधित्वनिर्णयफलोपजीवनम् ।
जामित्वाजामित्वोपक्रमोपसंहारमध्यपातिनो हि ‘विष्णुरुपांशु यष्टव्योऽजामित्वाय’ इत्येवमादयोऽन्तरालसंबन्धविध्येकवाक्यत्वेनार्थवादत्वात्पृथग्विधित्वमलभमाना न देवताविशिष्टकर्मत्रयविधानार्था विज्ञायन्ते ।
यच्छब्दामन्त्रणोत्तमपुरुषाद्युपहतविधिशक्तयो हि मन्त्रा धर्मसाधनत्वेनोच्यमा515ना ‘देवांश्च याभिर्यजते ददाति च’ इत्येवमादिभिराख्यातपदैः पुनः पुनः श्रुतैरपि न कर्मान्तरं कल्पयन्ति ।
तथा च ।
प्रथमाध्यायप्रथमसूत्रे हि धर्मज्ञानेच्छाया वक्ष्यमाणव्याख्येयत्वेनानुपन्यासादन्तरानुष्ठेयत्वमात्रमेवोपदेष्टव्यमित्यधिकारार्थत्वं नोक्तम् । यदपि तदुपसर्जनत्वेन धर्मज्ञानमुपात्तं तदप्यर्थव्याख्यानकरणात्स्वयमेव शिष्याणां भवतीति न सूत्रकारभाष्यकारव्याख्यातृवचनोपात्ताधिकारकर्मत्वेनावधारितम् ।
अतः परं शेषलक्षणमधिकृतं तदादरेण श्रोतव्यम् । यतोऽध्यायान्तरावकाशोऽद्यापि नास्तीति । अतः शेषलक्षणमधिकृतं वेदितव्यमिति शक्यं वक्तुम् ।
सप्तमादिषट्कस्तावदुपदेशपूर्वकातिदेशविषयत्वादुपदेशविचारार्थप्रथमषट्कसमाप्तिं प्रतीक्षते । तथाऽधिकारोऽपि यथोपदिष्टकर्मानुष्ठानसामर्थ्येन कर्तुरवधार्यत इति क्रमनियमपर्यन्तोपदेशज्ञानोत्तरकालमारप्स्यते । तथा हि ।
उच्यते—
तस्माच्छेषलक्षणमेव समस्ततद्गतप्रकारविशिष्टं वक्तुमिदं प्रतिज्ञातम् ‘अथातः शेषलक्षणम्’ इति । तत्र कः शेष इति—स्वरूपाभिधानप्रतिज्ञा । केन हेतुनेति—येनासौ शेष इत्युच्यते । तस्य च कारकहेतोस्तद्धर्मस्यैव लक्षणं वक्ष्यत इति प्रतिज्ञायते । तथा विनियोगप्रकारज्ञानं क्व शेषिणि कः शेषः कतमेन प्रमाणेन कतमत्प्रमाणान्तरं बाधित्वा 653 विना बाधेन वा विनियुज्यते । तथा विनियोजकश्रुत्यादिषट्कस्वरूपज्ञानं तेषां बलाबलज्ञानं च । तत्र प्रथमे पादे तावछ्रुतिविनियोगः किंचिच्च प्रासङ्गिकम् । द्वितीयपादादौ लिङ्गविनियोगः । तृतीयपादादौ तदेव प्रमाणद्वयमुपन्यस्योपक्रमोपसंहारद्वारेणैकवाक्यत्वेन सिद्धान्तस्थापनाद्विनाऽपि वाक्यग्रहणेन ‘प्रा521यदर्शनात्’ इति वाक्यविनियोगमुक्त्वा प्रकरणक्रमसमाख्याभिर्विनियोगः सूत्रोपनिबद्ध एव वक्ष्यते । ततो बलाबलाधिकरणम् । ततः परं च श्रुतिलिङ्गवाक्यानां प्रकरणेन सह विरोधाविरोधचिन्ता तावद्यावत् 522‘तुल्यः सर्वेषां पशुविधिः’ इति । ततश्च523तुर्णां क्रमेण सह पुनः सैव चिन्ता यावत् 524‘शास्त्रफलं प्रयोक्तरि’ इति । तत उपोद्धातपूर्वकं पञ्चभिः सह समाख्याया विरोधाविरोधविषयविचारेणाध्यायपरिसमाप्तिः । एतत्तात्पर्येणान्यदुपोद्घातप्रसक्तानुप्रसक्तेरिति वक्ष्यमाणमनुसंकीर्त्यते । प्रदर्शितमुच्यमानं सुखं ग्राहयिष्यते । सर्वं चैतच्छेषलक्षणप्रतिज्ञयैव पिण्डीकृतं प्रतिज्ञातमिति न भेदेन सूत्रितम् ॥ १ ॥
-
प्रद्दर्शनावसर इत्यर्थः ।
↩ - ( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ५ )↩
-
ऊह इत्यर्थः ।
↩ -
तदानन्तर्यमुच्यत इति पाठान्तरम् ।
↩ - ( अ॰ २ पा॰ २ अ॰ २ )↩
-
एकस्यैवं पुनःश्रुतिरिति सूत्रारम्भो ज्ञेयः ।
↩ -
आलोक्यमाना इति पाठान्तरम् ।
↩ - ( पा॰ सू॰ ४—३—१०१ )↩
-
तेषामर्थाधिकरण इति शेषः ।
↩ - ( अ॰ ३ पा॰ ३ अ॰ १ सू॰ १ । )↩
-
यद्विना यदनुपपन्नं तत्तस्य नान्तरीयकमित्युच्यते ।
↩ - ( अ॰ ३ पा॰ ३ अ॰ ७ ) इत्यत्रेति शेषः↩
- ( अ॰ ३ पा॰ ३ अ॰ १ सू॰ २ ) एतत्सूत्रावयवः↩
- ( अ॰ ३ पा॰ ६ अ॰ ७ सू ॰ १८ ) ।↩
-
( चतुर्णामिति—श्रुतिलिङ्गवाक्यप्रकरणानामित्यर्थः
↩ - ( अ॰ ३ पा॰ ७ अ॰ ८ सू॰ १८ )↩