शेषत्वस्य लक्ष्यनिर्देशाधिकरणम्

इदानीं शेषत्वस्य विष535यं कथयति । तत्र बादरिमतेन तावत्त्रय एव शेषाः । द्रव्यं हि 536‘द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः’ इति स्वभावत एव शेषभूतं नियमान्निष्प्रयोजनत्वेन केवलं व्यावर्त्यते । गुणोऽप्यरुणादिः क्रियायाः स्वसाधनभूतद्रव्यपरिच्छेदसामर्थ्यादुत्पत्त्यैव शेषः । तथा संस्कारोऽप्यवहन्त्यादिर्यागसाधनपुरोडाशादिनिर्वृत्तये चोदितानां व्रीह्यादीनां स्वरूपेणायोग्यत्वादवहतानां योग्यत्वादवहतानां योग्यत्वमापादन्नुत्पत्त्यैवाङ्गं भवतीति । न तु यागादावौत्प537त्तिकं शेषत्वं दृश्यते । न च शब्देन चोद्यते । यागस्तावत्सर्वकारकैरनुष्ठीयते । न चान्यत्र व्याप्रियमाणो दृश्यते । फल इति चेत् । 661 न । चिरनिर्वृत्ते यागे फलोत्पत्तिप्रतीतेः । ननु च भावार्थाधिकरणे करणत्वं यागस्योक्तम् । सत्यमुक्तं न तु साधितम् । स्वर्गका538माधिकरणाधीनसिद्धिना तेन539 नामपदकरणत्वमात्रनिराकरणात् । अत इदानीमसिद्धावस्थेनैव करणत्वेन व्यवहरति । फलमपि यागं प्रति साध्यमानत्वात्प्रधानं, पुरुषं प्रति त्वस्य शेषभावो नैवोपात्तः । काम्यमानत्वेन सुतरां प्रधानत्वात् । पुरुष एव तु कामं द्रव्यत्वाद्यागे गुणत्वेन स्यात् । तस्माद्द्रव्यगुणसंस्कारेष्वेव शेषभाव इति ॥ ३ ॥

  1. लक्ष्यमित्यर्थः ।

  2. ( अ॰ ६ पा॰ १ अ॰ १ सू॰ १ )
  3. औत्पत्तिकमिति—स्वाभाविकमित्यर्थः ।

  4. षष्ठाध्यायाद्याधिकरणमित्यर्थः ।

  5. तेन—भावार्थाधिकरणेनेत्यर्थः ।