648
अधिकारोऽपि यज्ञेषु कर्तुः शेषस्य चिन्त्यते ।
भाव्यानां भावकः कर्ता द्रव्यं को नाम कर्मणाम् ॥
तथा चास्य विशेषेण सूत्रबद्धैव शेषता ।
पुरुषश्च पुनः शेषः कर्मार्थत्वेन चोदनात् ॥

वक्ष्यति हि ‘पुरु510षश्च कर्मार्थत्वात्’ इति जैमिनिः ।

तथाऽनाम्नातशेषाणां शेषिणां सप्तमादिभिः ।
शेषसद्भावतद्रूपपरिमाणादिनिर्णयः ॥

तत्र तु—

सप्तमेनातिदेशेन शेषाः सन्तीति साधिते ।
ततोऽष्टमे नये यस्य यतश्चेति निरूपणा ॥
नवमेऽर्थप्रधानत्वात्तदधीनाऽन्यरू511पता ।
इयत्ता दशमे शेषबाधाभ्युच्चयचिन्तया ॥
प्रयोगपरिमाणं च तत्तन्त्रावापलक्षणम् ।
एतदेव प्रसङ्गेन परार्थाङ्गोपजीवनात् ॥
अन्यार्थानुष्ठितैः शेषैरुपकारेऽल्पकल्पना ।
प्रसङ्गे तदभावे च स्याद्भूयिष्ठप्रकल्पना ॥
अथवाऽस्त्विदमेवैकं तृतीयं शेषलक्षणम् ।
तदेव सूचितं वक्तुमथातः शेषलक्षणम् ॥
अन्यानि पृथगारम्भैर्लक्षणानि करिष्यति ।
इदं सपरिवाराणां शेषाणामेव लक्षणम् ॥

तत्राथशब्द आनन्तर्यपूर्वप्रकृतापेक्षाधिकाराणामेकं सर्वान्वा विवक्षित्वा प्रयुज्यते । प्रागुक्तमेदलक्षणानन्तरोक्तत्वात्पूर्वप्रकृतमपेक्ष्य शेषलक्षणमारभ्यते । कुत इति हेत्वपेक्षायामत इति हेतुव्यपदेशः ।

यस्माद्भेदमविज्ञाय न शक्यं शेषलक्षणम् ।
विज्ञातुमत एतस्य त512दनन्तरमुच्यते ॥
भिन्नानां हि पदार्थानां शेषशेषित्वसंभवः ।
एकत्वे नापदिश्येत कः शेषः कस्य शेषिणः ॥
भेदानन्तरवक्तव्यं शेषलक्षणमेव च ।
  1. ( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ५ )
  2. ऊह इत्यर्थः ।

  3. तदानन्तर्यमुच्यत इति पाठान्तरम् ।