647
द्विलक्षण्याः परं शिष्टं यावत्किंचन लक्षणम् ।
तत्सर्वं वक्तुमारब्धमथातः शेषलक्षणम् ॥

तथा च प्रथमसूत्रोपात्तप्रतिज्ञापिण्डव्याख्याप्रदेशप्रद509र्शने धर्मप्रमाणस्वरूपविषयलक्षणद्वयार्थं चोदनालक्षणसूत्रेणैकेनैव सूत्रितं वर्णयित्वा कानि अस्य साधनानि—अङ्गानिकानि च साधनाभासानि—अनङ्गानीति फलार्थत्वातदर्थत्वाभ्यां क्व पुरुषः प्रधानं धर्मस्य क्व वा पुरुषो गुणभूत इत्यादि यावत्किंचन मीमांसितव्यं तत्सर्वं शेषलक्षणेनैव व्याख्यातम् । शेषैः समस्तैरेव लक्षणैरित्यर्थः । इह लक्षणानां बहुत्वेऽपि यदेकवचनं कृतं तल्लक्षणत्वसामान्यसंख्यामात्रविवक्षया ।

यत्तु शेषः परार्थत्वादित्यनन्तरलक्षणम् ।
तदङ्गत्वस्य वाच्यत्वादादौ तन्मात्रगोचरम् ॥

बहुष्वपि हि लक्षणार्थेषु विवक्षितेषु क्रमवशादेकस्तावदङ्गत्वरूपः शेष एतल्लक्षणगोचरः परार्थत्वहेतुकः प्रतिपाद्यते । समासश्च द्वेधा विगृह्य द्वयोर्वाक्यार्थयोः प्रदर्शनीयः । शेषं च तल्लक्षणं च, शेषस्य वाऽर्थस्य लक्षणमिति । षष्ठीसमासमात्राश्रयणेन वा यथाव्याख्यायमानार्थम् ।

अङ्गलक्षणमेवेदमिहोक्तं शेषलक्षणम् ।
तद्विशेषप्रपञ्चत्वात्तत्रान्यान्तर्गतिस्थितेः ॥

सर्वेषां हि लक्षणान्तरार्थानां प्रयोज्याप्रयोज्यप्रयोजकाप्रयोजकषड्विधक्रमनियमफलवत्कर्मविषयकर्त्रधिकाररूपाणां तावदङ्गात्मकशेषविशेषप्रकारत्वाल्लक्षणान्तरगोचराणामपि शेषलक्षणान्तर्गतत्वावधारणस्थितिः । तथा हि—

प्रयोजकाः प्रयोक्तारः शेषाणामेव शेषिणः ।
क्रमोऽपि शेष एवकैप्रयोगवचनाश्रयः ॥

एकफलसाधनानामर्थानां ह्येकफलवदुपकारोपनिबद्धानां वैकप्रयोगवचनचोदितानां यौगपद्यानुष्ठानाशक्तेः सामर्थ्येनाङ्गभूतः क्रम आपद्यमानः श्रुत्यर्थपठनस्थानमुख्यप्रावृत्तिकक्रमाख्यप्रमाणषट्कवशेन व्यवस्थाप्यते ।

  1. प्रद्दर्शनावसर इत्यर्थः ।