744
तद्धितार्थोऽत्र लिङ्गं हि समर्थानां च तद्धितः ।
असमर्थात्समासस्थान्न चाग्नेरस्ति तद्धितः ॥

आग्नेय इति यो निरपेक्षाग्निदेवत्यः सोऽभिधीयते । न च द्विदेवत्ये निरपेक्षोऽग्निर्देवता । तेनायं तद्धितो नाग्नीषोमादिगताग्निशब्दादुत्पद्यत इति न तदर्थस्य देवतात्वमाह । यत्र त्वसौ निरपेक्षो देवता स शक्य आग्नेय इति वक्तुम् । यत्तु प्राशित्रवदिति । तत्रोच्यते । देशविशेषलक्षणार्थाऽस्मिन्नाग्नेयगुणश्रुतिः । सामान्यवाक्येन सर्वत्र प्राशित्रावदाने प्राप्ते मस्तकविरोगविशेषविधानार्थमेतद्वचनमिति वैषम्यम् ।

स्थितेऽधिकरणे त्वेवं प्रत्यवस्थीयते पुनः ।
अविशेषादुभौ वेति कातीयवचनश्रुतेः ॥
उक्तं कात्यायनेनेह दृष्ट्वा शातपथीं श्रुतिम् ॥

तं चतुर्धा कृत्वा पुरोडाशं बर्हिषदं करोति इति ।

अत्रोच्यते ।

सत्यमस्ति श्रुतिर्येयमविशेषेण दृश्यते ।
विशेषे स्थाप्यते सा तु नित्यं शाखान्तरीयया ॥

प्राशित्रेऽपि तथेति चेत् । न । गुणार्थत्वात् । मस्तकं विरुज्येति गुणपरत्वादशक्यः सामान्यविधिरुपसंहर्तुम् । इदं तु निर्गुणं पुनर्वचनं शक्नोति सामान्यं स्वविषये स्थापयितुम् । दूरस्थत्वादशक्योऽस्योपसंहार इति चेत् । न । यस्य691 येनार्थसंबन्ध इति न्यायात् । तेन—

  1. यस्य येनार्थसंबन्धो दूरस्थेनापि तस्य सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् । इति श्लोकपूरणम् ।