शेषत्वनिर्वचनाधिकरणम्
किं च ।
शेषशब्दस्यानेकाधिकाद्यर्थवचनत्वादिहाङ्गगुणधर्मादिपर्यायवाचित्वपरिग्रहार्थं हेतुविशेषाभिधानं परार्थत्वादिति ।
द्वावपि चार्थौ श्रुत्यर्थापत्तिभ्यामुपात्ताविति चोदनालक्षणसूत्रवद्वाक्यभेददोषं परिहृत्य व्याख्येयम् । तथाहि ।
इह च ।
तद्भावभावित्वेन तावद्यो येन विना न भवति स तस्य शेषः । तद्यथाऽङ्कुरस्तोयादिभिर्विना न भवति । घटश्च मृत्पिण्डदण्डचक्रादिभिरिति तयोस्तानि शेषत्वेन ज्ञायन्ते । तत्रोच्यते ।
न च स्वामी दासेन रूपस्पर्शादिभिर्वा यथोदाहृतैरन्योन्यं प्रयुज्यते । येनातिप्रसङ्गः स्यात् । न त्वेतदपि शेषत्वलक्षणं घटते । कुतः ।
सर्वत्रैव फलवत्प्रधानविधेरङ्गविधयोऽङ्गानि प्रधानेभ्योऽतिरिच्यन्त इत्येतदेवातिरेकलक्षणं शेषत्वं युक्तमित्युक्तेऽभिधीयते ।
तस्माद्विध्यादिविहितप्रधानकथंभावाकाङ्क्षापूरणसमर्थविध्यन्तविहितत्वलक्षणमेव शेषत्वं सूत्रकाराभिप्रेतमित्युक्तेऽभिधीयते ।
यदि हि नियोगतो वाक्यप्रकरणान्तेष्वेव व्यवस्थिताः शेषविधयः समाम्नायेरंस्तत एतदव्यभिचाराल्लक्षणमाश्रीयेत । न त्वेवमाम्नायन्ते । त्रिष्वप्यादिमध्यावसानेषु समाम्नानात् ।
656 अङ्गविध्युपक्रमेषु तावद्वाक्यप्रकरणेषु तद्गतकिंभावाकाङ्क्षितप्रयोजनकल्पनावेलायां कथंभावाकाङ्क्षायुक्तप्रधानविधिदर्शनात्तदपेक्षितोपकारसिद्ध्यर्थत्वेन तेषामवधार्यमाणानां विध्यादिगतानामपि शेषत्वमस्तीति न विध्यन्तविधानमेवैकं शेषलक्षणत्वेनावकल्पते ।
न ह्यनुपकुर्वात्किंचिदप्यङ्गं कस्यचिद्भवेत् । तस्मादुपपन्नमिदं लक्षणमिति । तथा चोपरिष्टादपि तत्र तत्र प्रदेशे भाष्यकारो वक्ष्यति—‘यो यस्योपकरोति स तस्य शेषः । उपकारलक्षणं हि शेषत्वम्’ इत्येवमादि ।
न त्वेतदपि घटते । कुतः ।
यथैव ह्यङ्गानि प्रधानानामुपकुर्वन्ति तथैवानुष्ठापनेनोपकारप्रतिग्रहणाच्च प्रधानान्यप्यङ्गानामुपकुर्वन्त्येव । कुतः ।
एवमङ्गानामप्यन्योन्यापादानं दर्शयितव्यम् । ततश्चैकप्रधानविकारेष्वेकाङ्गमनेऽपि समस्तसाङ्गप्रधानगमनादनियमः प्राप्नोति ।
657 न हि तदनुग्रहरहितं किंचित्सिध्यति । ततश्चार्थिमात्रविषयकामश्रुतिपरिग्रहात् ‘वसन्ते ब्राह्मणम्’ इत्यादीनां निमित्तार्थत्वाच्छूद्राधिकारादिदोषप्रसङ्गः ।
अनवगतशेषत्वावस्थेषूपकारादर्शनात्तदधीनावधारणं शेषत्वं न स्यात् । कल्पित उपकारे भविष्यतीति चेत् । न । प्रागङ्गत्वादुपकारकल्पनाप्रमाणाभावात् । यो हि यस्य फलस्य फलवतो वा शेषत्वेनावधारितो भवति स कथं तस्योपकरिष्यतीत्यपेक्षिते सति दृष्टमुपकारमपश्यद्भिस्तस्माददृष्टः परिकल्प्यते । यावत्तु शेषत्वमेव नावगम्यते तावत्केन प्रमाणेनादृष्टकल्पना स्यात् । ततश्चेतरेतराश्रयः प्रसज्यते । तथाहि ।
दृष्टार्थानामपि चावहन्त्यादीनां नियमान्न कश्चिदुपकारो दृश्यत इति न नियोगतोऽङ्गत्वं स्यात् । न च प्रासङ्गिकत्वाच्छास्त्रेणोपकारः प्रतिपाद्यत इति । प्रत्यक्षादिभिरेवोपकारं गृहीत्वा शेषत्वं गम्येत । ततश्च श्रुत्यादिप्रमाणकं शेषलक्षणं नैवानेनाऽऽश्रीयेत । तथा प्रासङ्गिकान्यन्यप्रयोजनान्यङ्गान्यन्यार्थान्यप्यन्यस्योपकारीणीति तन्त्रिप्रयोजकवदितरस्यापि शेषत्वं गच्छेयुः । तत्र 527‘प्रासङ्गिकं च नोत्कर्षेत्’ 528‘प्रासङ्गिकेप्रायश्चित्तं न विद्यते’ 529‘न वाऽपात्रत्वादपात्रत्वं त्वेकदेशत्वात्’ 530‘अपि वा शेषभाजां स्यात्’ इत्यादिन्यायविरोधः । एवमेतस्मिन्नपि पक्षे सर्वं तन्त्रं विघटते । तस्मादुच्यते ‘शेषः परार्थत्वात्’ इति ।
आह—किं तादर्थ्योपकारयोर्भेदोऽप्यस्ति । बाढमस्ति । कुतः ।
उद्देशमात्रेण तावत्तादर्थ्यप्रसिद्धिः । सा चोपकारापकारयोस्तुल्या । तद्यथा—मश658 कार्थो धूम इत्यपकारिण्यपि प्रयुज्यते । तथोपकुर्वन्नपि प्रसङ्ग्यप्रयोजकयोंर्न तादर्थ्येन व्यपदिश्यते । न हि कश्चिदपि शालिकुल्यास्थमुदकं पिबन्मदर्थमेताः प्रणीता इत्यध्यवस्यति । तस्मादन्यत्तादर्थ्यमन्यश्चोपकार इति विज्ञायते । नन्वेवं सत्यपकारकोऽपि शेषः प्राप्नोति । लोके तावत्प्राप्नोतु नाम । वेदे पुनरनपेक्षितत्वान्न भविष्यतीति । यो हि तादर्थ्येनावधारितः स किमुपकरिष्यति, अथापकरिष्यतीति संदिग्धे शेषिभिरपकारो नापेक्षित इति तं परित्यज्यापेक्षासामर्थ्यादुपकारः कल्प्यते । ननु चोपकारनिरपेक्षं नैव तादर्थ्यं शक्यं कल्पयितुम् । कुतः ।
न हि प्रयाजादयः सामीप्यमात्रेणैवोपकारनिरपेक्षास्तादर्थ्यं प्रतिपद्यन्ते । तस्मादुपकारपूर्वकमेव तादर्थ्यमिति स एव शेषत्वकारणं प्राप्नोति । नैष दोषः ।
‘दशा531पवित्रेण ग्रहं संमार्ष्टि’ ‘व्रीहीन्प्रोक्षति’ इत्यादिषु तावच्छ्रुत्यैव तादर्थ्येऽभिहितेऽङ्गत्वमवधार्योपकारः कल्प्यते । यत्रापि तु प्रयाजादौ तादर्थ्याभिधानाभावादुपकारपूर्वकत्वं लक्ष्यते तत्राप्यपेक्षामात्रमेव तस्य, प्रथमं न निष्पत्तिः । न ह्यनवगताङ्गत्वेषु प्रयाजादिषूपकारदर्शनं कल्पनं चास्तीत्युक्तम् । अतो दर्शपूर्णमासयोरुपकारमपेक्षमाणयोः प्रयाजादिषु चोपकार्यमपेक्षमाणेष्वनिष्पन्नावस्थ एवोपकारे प्रकरणात्तादर्थ्यं तावत्प्रतीयते । तदन्यथानुपपत्तिमात्रेणोपकारकल्पना । तेनोपकारापेक्षामात्रमिह तादर्थ्यप्रमाणानुमाने व्याप्रियते । नोपकारादेव शेषत्वं तादर्थ्यं वेत्यनवद्यम् । एवं च सति श्रुत्यादीन्येव तादर्थ्यप्रतिपादनरूपेण शेषस्य विनियोजकानीति तद्विवेकार्थं लक्षणमारब्धव्यम् । सत्यपि चाङ्गप्रधानादीनामुपकारसंकरेऽतादर्थ्यादसंकरस्थितिसिद्धिः । तस्मात्परार्थत्वलक्षणमेव शेषत्वं निर्दोषम् । यः परस्योपकारे वर्तत इति—पारार्थ्यमेवोपकारेण फलेनाभिधीयत इत्यवगन्तव्यं न त्वत्रैव लक्षणोक्तिभ्रान्तिः कर्तव्या । तथा च स्फुटी करोति ये परार्थास्ते वक्तारो भवन्तीति । परः पुनरुपकारलक्षण659 भ्रान्त्या वदति—यथोपाध्यायः शिष्याणामिति । सत्यं वर्तत इति—तादर्थ्योपकार532व्यतिकरदर्शनादिहालक्षितं शेषत्वमित्युपेक्ष्यैतदुदाहरणमैकान्तिकपारार्थ्ययुक्तमुदाहरतितद्यथा गर्भदास इति । स ह्युत्पत्त्यैव स्वाम्यर्थेन प्रसिद्धः । अनङ्वांश्च वहनार्थतया । न तु स्वामी तादर्थ्येनावगम्यत इति विवेकः । परस्तु तत्राप्युपकारकत्वादस्त्येव कश्चित्तादर्थ्यलेश इति प्रत्यवतिष्ठते—ननु गर्भदासस्यापीति । सिद्धान्तवादी त्वाहआत्मन एवासौ संविदधान इति । उ533द्देशेन हि तादर्थ्यं विविच्यते । न च स्वामिनो गर्भदासाद्युद्देशेन तदुपकाराय प्रवृत्तिः । किं तर्हि, स्वार्थसिद्धिप्रयुक्ता, नान्तरीयकतत्संविधानादशेषत्वम् । यैस्तु द्रव्यं चिकीर्ष्यत इति—पुनरुक्तशङ्कयोपन्यासः । ननु च तदध्यायोक्तेनैव लक्षणेन गतार्थत्वान्नात्र वक्तव्यमत आह—तत्रापूर्वार्थता व्यावर्तितेति । तत्र केचिदेवं व्याचक्षते । तत्र दृष्टार्थानामवहन्त्यादीनां शेषत्वमुक्तम् । इह तु सर्वेषामेव दृष्टार्थानामदृष्टार्थानां च द्रव्यविषयाणां कर्मविषयाणां च शेषाणां लक्षणमुच्यत इति । एवं तु सति एतस्यापुनरुक्तता स्यात् । तत्पुनरेतेन गतार्थमित्यपहृतमेव । तस्मादेवं वर्णयितव्यम्—अथ तत्र किं वृत्तं यैस्तु द्रव्यं चिकीर्ष्यत इति । तदभिधीयते ।
सर्वविषयव्यापि शेषत्वमिह534 लभ्यमेव तत्र नीतमपूर्वभेदनिराकरणार्थम् । अथवा पूर्वोक्तं गुणप्रधानभावलक्षणमनमेक्ष्यापूर्ववत्संप्रति कारणान्तरनिरासेन परार्थत्वलक्षणे शेषत्वेऽभिहिते ‘यैस्तु द्रव्यं चिकिर्ष्यते’ इत्यनेनोपकारलक्षणाभ्युपगमाद्विरोधमाशङ्क्य परिहरति । तत्रापूर्वभेदकल्पनानिवृत्त्यर्थमुपकारदर्शनमुक्तं न शेषलक्षणत्वेन । अत्र पुनः सर्वशेषाणां पारमार्थिकं लक्षणमेवोच्यत इति भिन्नविषयत्वादविरोध इति ॥ २ ॥
-
पक्षहेत्वोः परिग्रह इति-अत्रायमनुमानप्रयोगः । प्रयाजादिः शेषपदवाच्यः । परार्थत्वात् । यन्नैवं तत्रैवं यथा घटादिः । यद्यप्यत्र शेषपदवाच्यतावच्छेदकं परार्थत्वमेव पक्षतावच्छेदकमिति हेतुव्यापकसाध्यसमानाधिकरणो हेतुरिति व्याप्तिग्रहकाल एव हेतौ साध्याधिकरणवृत्तित्वे भासमाने समानसंवित्संवेद्यतया हेत्वधिकरणवृत्तिस्वस्यापि साध्ये भानात्साध्यसिद्धिरनुमितिप्रतिबन्धिका संभाव्यते तथाऽपि साध्याभाववदवृत्तित्वरूपसाध्यसामानाधिकरण्याघटितव्याप्तिज्ञानस्यैव हेतुत्वाङ्गीकारात् । अथवा व्यतिरेक्यनुमानत्वादस्य साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानस्यैवानुमितिहेतुत्वाङ्गीकारात्पक्षतावच्छेदकहेत्वोरैक्येऽपि न काचित्क्षतिरिति दिक् ।
↩ -
सिद्धेरिति—पुरोडाशप्रयोज्यत्वादित्यर्थः ।
↩ - ( अ॰ ५ पा॰ १ अ॰ १५ सू २८ )↩
- ( अ॰ ९ पा॰ ४ अ॰ ७ सू॰ २८ )↩
- ( अ॰ ४ पा॰ १ अ॰ १४ सू॰ ३४ )↩
- ( अ॰ ६ पा॰ ४ अ॰ २ सू॰ ३ )↩
-
दशापबित्रेणेति—वस्त्रखण्डेनेत्यर्थः ।
↩ -
व्यतिरेकेति पाठान्तरम् ।
↩ -
उद्देशेन हीतिइदमत्राऽऽकूतम् । निरूपकतासंबन्धे यन्निष्ठोद्देश्यताविशिष्टकृतिकारकत्वेन विहितं यत्, तत्त्वं तदङ् गत्वमिति । ‘दर्शपूंर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यनेन दर्शपूर्णमासयोः स्वर्गनिष्ठोद्देश्यताविशिष्टकृतिकारकत्वेन विहितत्वाल्लक्षणसंगतिः । अत्र च लक्षणे कृतिकारकत्वं कृत्यन्वितकर्तृत्वाद्यन्यतमान्वितत्वम् । विहितत्वं च स्वनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकत्वसंबन्धेन विधिविशिष्टत्वम् । अतः करणत्वादीनामेव कृत्यन्वितत्वादू भावनाया एव च विधिविषयत्वान्नाव्याप्त्यादिशङ्कावकाश इति दिक् ।
↩ -
इहत्यमेवेति पाठान्तरम् ।
↩