660
हन्त्यादावपि शेषत्वमेतस्मादेव लक्षणात् ।
दृष्टार्थत्वादपूर्वं तु ततो नेति पुरोदितम् ॥

सर्वविषयव्यापि शेषत्वमिह534 लभ्यमेव तत्र नीतमपूर्वभेदनिराकरणार्थम् । अथवा पूर्वोक्तं गुणप्रधानभावलक्षणमनमेक्ष्यापूर्ववत्संप्रति कारणान्तरनिरासेन परार्थत्वलक्षणे शेषत्वेऽभिहिते ‘यैस्तु द्रव्यं चिकिर्ष्यते’ इत्यनेनोपकारलक्षणाभ्युपगमाद्विरोधमाशङ्क्य परिहरति । तत्रापूर्वभेदकल्पनानिवृत्त्यर्थमुपकारदर्शनमुक्तं न शेषलक्षणत्वेन । अत्र पुनः सर्वशेषाणां पारमार्थिकं लक्षणमेवोच्यत इति भिन्नविषयत्वादविरोध इति ॥ २ ॥

इति शेषत्वनिर्वचनाधिकरणम् ॥ २ ॥

शेषत्वस्य लक्ष्यनिर्देशाधिकरणम्

इदानीं शेषत्वस्य विष535यं कथयति । तत्र बादरिमतेन तावत्त्रय एव शेषाः । द्रव्यं हि 536‘द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः’ इति स्वभावत एव शेषभूतं नियमान्निष्प्रयोजनत्वेन केवलं व्यावर्त्यते । गुणोऽप्यरुणादिः क्रियायाः स्वसाधनभूतद्रव्यपरिच्छेदसामर्थ्यादुत्पत्त्यैव शेषः । तथा संस्कारोऽप्यवहन्त्यादिर्यागसाधनपुरोडाशादिनिर्वृत्तये चोदितानां व्रीह्यादीनां स्वरूपेणायोग्यत्वादवहतानां योग्यत्वादवहतानां योग्यत्वमापादन्नुत्पत्त्यैवाङ्गं भवतीति । न तु यागादावौत्प537त्तिकं शेषत्वं दृश्यते । न च शब्देन चोद्यते । यागस्तावत्सर्वकारकैरनुष्ठीयते । न चान्यत्र व्याप्रियमाणो दृश्यते । फल इति चेत् ।

  1. इहत्यमेवेति पाठान्तरम् ।

  2. लक्ष्यमित्यर्थः ।

  3. ( अ॰ ६ पा॰ १ अ॰ १ सू॰ १ )
  4. औत्पत्तिकमिति—स्वाभाविकमित्यर्थः ।