ऐन्द्र्यधिकरणम्

752 अपवाद आरभ्यते । निवेशनः संगमनो वसूनामित्यैन्द्र्या गार्हपत्यमुपतिष्ठत इति । यद्यपि मन्त्रार्थोऽग्नावप्युपपद्यते तथाऽपि तद्धितश्रुत्यैवेन्द्राभिधानसामर्थ्यमत्र मुख्यमिति विज्ञा699यते । केषांचित्तु ‘कदाचन स्तरीरसि’ इत्येषा ऋक् पठ्यते । तत्र पूर्ववदेव संदेहः, किं मुख्यत्वादिन्द्रोऽभिधातव्य उत वचनसामर्थ्याद्गौणो गार्हपत्य इति । सत्यपि च संयुक्तश्रवणेऽरुणावदशक्तेः संदेहो योजनीयः । तत्र द्रव्यपरिच्छेदद्वाराऽपि क्रयसंबन्धो लब्धः । इह तु शब्दार्थसंबन्धस्यौत्पत्तिकत्वेनाशास्त्रहेतुत्वादत्यन्ताशक्तत्वम् । न हि कथंचिदिन्द्रशब्दो गार्हपत्यं ब्रवीति । अभिधानं चेदं चोदितम् । उपतिष्ठत इत्यात्मनेपदनिर्देशात् । मन्त्रकरणव्यापाराभिधाने ह्येतत् । न चाभिधानं मुक्त्वाऽन्यत्र मन्त्रः करणं भवति । तेन ‘ऐन्द्र्योपतिष्ठते’ इत्येतावता तावदिन्द्रोपस्थानं विज्ञायते । गार्हपत्यमिति च द्वितीययाऽग्नेः प्रकाश्यत्वम् । तत्र किं समञ्जसं किमसमञ्जसमिति जायते संशयः । न हीन्द्रोपस्थान एव साधनान्तरं गार्हपत्यो ज्ञायते । किं प्राप्तम् । पूर्वाधिकरणेनेन्द्रोपस्थानमिति । कथं द्वितीयेति चेत् । सक्तुवत्साधनान्तरमधिकरणापादानादि लक्षयिष्यति । शक्नोति विरोधादीप्सिततमत्वमविवक्ष्यमाणं कारकमात्रं लक्षयितुम् । तत्र च ‘द्रव्या700णा कर्मसंयोगे’ इत्यनेन गार्हपत्यस्याङ्गत्वं 753 भविष्यति । यद्वोपस्थानविशेषणं संबन्धाद्गार्हपत्यशब्द इन्द्रलक्षणार्थ इति केचित् । एतदुक्तं भवति । विभक्तिर्वा लक्षणावृत्ता प्रातिपदिकं श्रुतिवृत्तम् । प्रातिपदिकं वा यज्ञसाधनसाधर्म्याल्लक्षणार्थं द्वितीया मुख्येति । अथवोपस्थानविशेषणमित्यत्र धात्वर्थमात्रमुक्तम् । एककर्मविषयत्वं हि गार्हपत्यमन्त्रयोर्विप्रतिषिद्धम् । य701स्य मन्त्रः करणं न तस्य गार्हपत्यः कर्म । य702स्यासौ कर्म न तस्य मन्त्रः करणम् । द्वौ चेह प्रकृतिप्रत्ययसमूहेन व्यापारावुपात्तौ । प्रकृत्या समीपस्थानं प्रत्ययेन प्रकाशनम् । तत्र प्रका703शने यादृशं गार्हपत्यस्य कारकत्वं तादृशं व्याख्यातम् । इदानीं मुख्यमेव कर्मत्वं प्रकृत्यर्थं प्रत्युच्यते । तेनैतदुक्तं भवति । गार्हपत्यं समासीदन्निन्द्रं प्रकाशयेदिति । यद्यपि च प्रत्ययार्थप्राधान्यात्तत्कर्मत्वं युक्तं तथाऽप्ययोग्यत्वात्ततो निवृत्तं संबन्धा- त्प्रकृत्यर्थमुपसंक्रामति । तस्मान्मुख्यमेव कार्यं मन्त्राणामित्येवं प्राप्ते ब्रूमः । वचनादयथार्थत्वं मन्त्राणामिति । कुतः ।

गौणत्वं यत्र नाम स्यात्क्वचिद्ब्राह्मणमन्त्रयोः ।
तत्रानुवादरूपत्वान्मन्त्राणां गौणतेष्यते ॥

गार्हपत्यस्तावद्द्वितीयया प्रधानस्य प्रत्ययार्थस्य कर्मेति श्रुत्या गम्यते । तेनैन्द्र्या स प्रकाशयितव्यः । तत्र यद्ययथार्थत्वं वचनानुरोधेन संजातं तथा नामेत्यध्यवसातव्यम् । अवश्यं भावि ह्यत्र ब्राह्मणस्य मन्त्रस्य वा गौणत्वं । तत्र ब्राह्मणस्यात्यन्ताप्राप्तविधित्वात्प्रथमप्रवृत्तेश्चानन्यप्रमाणकेऽर्थे गौणत्वमयुक्तम् ।

मन्त्रस्य तु ब्राह्मणचोदितार्थप्रकाशनात्तत्परतन्त्रवृत्तेः ।
विरोधिनं स्वार्थमतीत्य मुख्यं युक्तो हि गौणार्थनिमित्तभावः ॥
754
तेन कारकसामान्यं लक्ष्यते न द्वितीयया ।
येनात्र गार्हपत्योऽपि संबन्धात्स्याद्विशेषणम् ॥
न चा704वयवसंबन्धादिन्द्रो गृहपतेर्यतः ।
तेनात्र गार्हपत्यः स्याद्रूढ्याऽग्निप्रत्ययाद्दृढात् ॥ ३ ॥
  1. विज्ञायत इति—इति कृत्वा भाष्यकृदुदाहरणं युक्तमित्यध्याहारः ।

  2. ( अ॰ ६ पा॰ १ अ॰ १ सू॰ १ )
  3. यस्य—प्रकाशनस्येत्यर्थः ।

  4. यस्यासौ-समीपस्थितेर्गार्हपत्य इत्यर्थः ।

  5. प्रकाशने-समीपस्थितिविशिष्टप्रकाशन इत्यर्थः ।

  6. यदप्यत्र ब्राह्मणवाक्ये गार्हपत्यशब्दवाच्योऽवयवयोगादिन्द्रः स्यादित्युक्तं तदपि रूढ्या योगबाधान्न युक्तमिति कारिकार्थः ।