ननु च मन्त्रोऽप्यशक्य एव गार्हपत्ये विनियोक्तुम् । तथा हि ।

गौणेऽपि तावदेतस्य वृत्तिः क्लेशेन जायते ।
अत्यन्तासदृशत्वात्तु न गौणोऽप्यत्र दृश्यते ॥

न हि वचनशतेनेन्द्रशब्दः शक्यो गार्हपत्याभिधानसमर्थः कर्तुम् ।

न वाऽदेङ्गु705णवच्छास्त्रादिन्द्रोऽग्निः पारिभाषिकः ।
न हि शब्दार्थसंबन्धः प्रसिद्धः शास्त्रहेतुकः ॥

अत्रोच्यते ।

755
स्यादग्नेर्गोणमिन्द्रत्वं यज्ञसंबन्धकारितम् ।
इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वरः ॥

तस्मादन्यथानुपपत्तेर्गौणमभिधानमिति सिद्धम् ॥ ४ ॥

  1. पा॰ सू॰ ( १-१-२ ) । अत-एङ् च यथा परिभाषया गुणो नैवमग्निः परिभाषयेन्द्र इत्यर्थः ।