अध्यायः 029
अर्जुनेन उत्तरदिग्विजये किम्पुरुषादिखण्डजयः ॥ 1 ॥ अर्जुनस्य खाण्डवप्रस्थं प्रति प्रत्यागमनम् ॥ 2 ॥
वैशम्पायन इवाच ॥
स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान् ।
देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् ॥
महता सन्निपातेन क्षत्रियान्तकरेण ह ।
अजयत्पाण्डवश्रेष्ठः करे चैनं न्यवेशयत् ॥
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् ।
पाकशासनिरव्यग्रः सहसैन्यः समासदत् ॥
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् ।
ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः ॥
सरो मानसमासाद्य हाटकानभितः प्रभुः ।
गन्धर्वरक्षितं देशमजयत्पाण्डवस्ततः ॥
तत्र तित्तिरिकल्माषान्मण्डूकाख्यान्हयोत्तमान् ।
लेभे स करसमत्यन्तं गन्धर्वनगरात्तदा ॥
`हेमकूटमथासाद्य न्यवसत्फल्गुनस्तदा ।
तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः ॥
हरिवर्षं विवेशाथ सैन्येन महता वृतः ।
तत्र पार्थो ददर्शाथ बहूनिह मनोरमान् ॥
नगरान्सवनांश्चैव नदीश्च विमलोदकाः ।
पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥
तान्सर्वास्तत्र दृष्ट्वाऽथ मुदा युक्तो धनञ्जयटः ।
वशे चक्रे स रत्नानि लेभे च सुबहूनि च ॥
ततो निषधमासाद्य गिरिस्थानजयत्प्रभुः ।
अथ राजन्नतिक्रम्य निषधं शैलमायतम् ॥
विवेश मध्यमं वर्षं पार्थो दिव्यमिलावृतम् ।
तत्र दिव्योपमान्दिव्यान्पुरुषान्देवदर्शनान् ॥
अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः ।
सदनानि च शुभ्राणि नारीश्चाप्सरसंनिभाः ॥
दृष्ट्वा तानजयद्रम्यान्स तैश्च ददृशे तदा ।
जित्वा च तान्महाभागान्करे च विनिवेश्य च ॥
रत्नान्यादाय दिव्यानि भूषणान्यासनैः सह ।
उदीचीमथ राजेन्द्र ययौ पार्थो मुदाऽन्वितः ॥
स ददर्श ततो मेरुं शिखरीणां प्रभुं महत् ।
तं काञ्चनमयं दिव्यं चतुर्वणं दुरासदम् ॥
उन्नतं शतसाहस्रं योजनानां तु सुस्थितम् ।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ॥
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ।
काञ्चनाभरणं दिव्यदेवगन्धर्वसेवितम् ॥
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ।
व्यालैराचरितं धोरैर्दिव्यौषधिविदीपितम् ॥
स्वर्गमावृत्य तिष्ठन्तमुच्छ्रायेण महागिरिम् ।
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ॥
नानाविहगसङ्घैश्च नादितं सुमनोहरैः ।
तं दृष्टा फल्गुनो मेरुं प्रीतिमानभवत्तदा ॥
मेरोरिलावृतं दिव्यं सर्वतः परिमण़्डितम् ।
मेरोस्तु दक्षिणे पार्श्वे जम्बूर्नाम वनस्पतिः ॥
नित्यपुष्पफलोपेवः सिद्धचारणसेवितः ।
आस्वर्गमुच्छ्रिता राजंस्तस्य शाखा वनस्पतेः ॥
यस्य नाम्ना त्विदं द्वीपं जन्बूद्वीपमिति स्मृतम् ।
तां च जम्बूं ददर्शाथ सव्यसाची परन्तपः ॥
तौ दृष्ट्वाऽप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ ।
प्रतीमानभवद्राजन्सर्वतः स विलोकयन् ॥
तत्र लेभे ततो जिष्णुः सिद्धैर्दिव्यैश्च चारणैः ।
रत्नानि बहुसाहस्रं दत्तान्याभरणानि च ॥
वासांसि च महार्हाणि तत्र लब्ध्वाऽर्जुनस्तदा ।
आमन्त्रयित्वा तान्सर्वान्यज्ञमुद्दिश्य वै गुरोः ॥
अथादाय बहून्रत्नान्गमनाययोपचक्रमे ।
मेरुं प्रदक्षिणीकृत्य प्रवतप्रवरं प्रभुः ॥
ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन् ।
स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम् ॥
हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम् ।
हैमपङ्कां हैमजलां सौवर्णोज्ज्वलवालुकाम् ॥
क्वचित्मुपिष्पितैः पूर्णां सौवर्णकुसुमोत्पलैः ।
क्वचित्तीररुहैः कीर्णां हैमपुष्पैः सुपुष्पितैः ॥
तीर्थैश्च रुक्मसोपानैः सर्वतः समलङ्कुताम् ।
विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम् ॥
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम् ।
तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह ॥
अदृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च ।
दर्शनीयां नदीतीरे पुरुषान्सुमनोहरान् ॥
तान्नदीसलिलाहारान्सदारानमरोपमान् ।
नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान् ॥
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः ।
दिव्यजम्बूफलं हैमं भूषणानि च पेशलम् ॥
लब्ध्वा तान्दुर्लभान्पार्थः प्रतीचीं प्रययौ दिशम् ।
नागानां रक्षितं देशमजयश्च पुनस्ततः ॥
ततो गन्वा महाराज वारुणीं पाकशासनिः ।
गन्धमादनमासाद्य ततस्तानजयत्प्रभुः ॥
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः ।
केतुमालं ददर्शाथ वर्षं रत्नसमन्वितम् ॥
सेवितं देवकल्पैश्च नारीभिः प्रियदर्शनैः ।
तं जित्वा चार्जुनो राजन्करे च विनिवेश्य च ॥
आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः ।
पुनश्च परिवृत्याथ माध्यं देशमिलावृतम् ॥
गत्वा प्राचीं दिशं राजन्सव्यसाची धनञ्जयः ।
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ॥
ये ते कीचकवेणूनां छायां रम्यामुपासते ।
कषान्झषांश्च नद्यौ तान्प्रघसान्दीप्तवेणिपान् ॥
पशुपांश्च कुलिन्दांश्च तङ्कणान्परतङ्कणान् ।
एतान्समस्ताञ्जित्वा च करे च विनिवेश्य च ॥
रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो ययौ ।
तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः ॥
भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुचिम् ।
तत्र देवोपमान्दिव्यान्पुरुषाञ्शुभसंयुतान् ॥
जित्वा तान्स्ववशे कृत्वा करे च विनिवेश्य च ।
आहृत्य सर्वतो रत्नान्यसङ्ख्यानि ततस्ततः ॥
नीलं नाम गिरिं गत्वा तत्रस्थानजयत्प्रभुः ।
ततो जिष्णुरतिक्रम्य पर्वतं नीलमायतम् ॥
विवेश रम्यकं वर्षं सङ्कीर्णं मिथुनैः शुभैः ।
तं देशमथ जित्वा स करे च विनिवेश्य च ॥
अजयच्चापि बीभत्सुर्देशं गुह्यकरक्षितम् ।
तत्र लेभे च राजेन्द्र सौवर्णान्मृगपक्षिणः ॥
अगृह्णाद्यज्ञभूत्यर्थं रमणीयान्मनोहरान् ।
अन्यांश्च लब्ध्वा रत्नानि पाण्डवोऽथ महाबलः ॥
गन्धर्वरक्षितं देशमजयत्सगणं तदा ।
तत्र रत्नानि दिव्यानि लब्ध्वा राजन्नथार्जुनः ॥
वर्षं हिरण्वतं नाम विवेशाथ महीपते ।
स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे ॥
मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा ।
महापथेषु राजैन्द्र सर्वतो यान्तमर्जुनम् ॥
प्रासादवरशृङ्गस्थाः परया वीर्यशोभया ।
ददृशुस्तं स्रियः सर्वाः पार्थमात्मयशस्करम् ॥
तं कलापधरं शूरं सरथं सधनुः करम् ।
सवर्मं सकिरीटं वै संनद्धं सपरिच्छदम् ॥
सुकुमारं महासत्वं तेजोराशिमनुत्तमम् ।
शक्रोपमममित्रघ्नं परवारणवारणम् ॥
पश्यन्तः स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे ।
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः ॥
अस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ।
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा धनञ्जयम् ॥
तुष्टुवुः पुष्पवृष्टिं च ससृजुस्तस्य मूर्धनि ।
दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्वितः ॥
रत्नैर्विभूषणैश्चैव अभ्यवर्षंश्च पाण्डवम् ।
अथ जित्वा समस्तांस्तान्करे च विनिवेश्य च ॥
मणिहेमप्रबालानि शस्त्राण्याभरणानि च ।
एतानि लब्ध्वा पार्थोऽथ शृङ्गवन्तं गिरिं ययौ ॥
शृङ्गवन्तं च कौरव्यः समतिक्रम्य फल्गुनः ।
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः ॥
विद्याधरगणांश्चैव यक्षेन्द्रांश्च विनिर्जयन् ।
तत्र लेभे महात्मा वै वासो दिव्यमनुत्तमम् ॥
किन्नरद्रुमपत्रांश्च तत्र कृष्णाजिनान्बहून् ।
याज्ञीयांस्तांस्तदा दिव्यांस्तत्र लेभे धनञ्जय' ॥
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः ।
इयेष जेतुं तं देशं पाकशासनन्दनः ॥
तत एनं महावीर्यं महाकाया महाबलाः ।
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ॥
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्जन ।
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ॥
इदं पुरं यः प्रविशेद्घ्रुवं न स भवेन्नरः ।
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तवै ॥
न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते ।
उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते ॥
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन ।
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ॥
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि ।
तत्प्रब्रूहि करिष्यामो वचनात्तव भारत ॥
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव ।
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ॥
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः ।
युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम् ॥
`नो चेत्कृष्णेन सहितो योधयिष्यामि सायकैः' ।
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च ।
क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम् ॥
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम् ।
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ॥
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु ।
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ॥
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि ।
मयूरसदृशान्यान्सर्वाननिलरंहसः ॥
वृतः सुमहता राजन्बलेन चतुरङ्गिणा ।
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ॥
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम् ।
न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥