अध्यायः 049
					 भीमयुधिष्ठिरसंवादसमये बृहदश्वागमनम् ॥ 1 ॥ युधिष्ठिरंप्रति
						बृहदश्वेन नलोपाख्यानकथनारम्भः ॥ 2 ॥ 
					
					
						अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
						युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः ॥
						वैशंपायन उवाच । 
					 
					
						अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
						न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः ॥
					 
					
						ततः कदाचिदेकान्ते विविक्ते मृदुशाद्वले ।
						दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ॥
					 
					
						धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ।
						तद्वियोगार्दितान्सर्वाञ्शोकः समभिपुप्लुवे ॥
					 
					
						धनंजयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः ।
						अथ भीमो महाबाहुर्युधिष्ठिरमभाषत ॥
					 
					
						निदेशात्ते महाराज गतोऽसौ भरतर्षभः ।
						अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥
					 
					
						यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् ।
						सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयाः ॥
					 
					
						योसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन् ।
						भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥
					 
					
						यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।
						मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥
					 
					
						यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः ।
						`जितान्मन्यामहे सर्वान्धार्तराष्ट्रात्ससौबलान् ॥
					 
					
						यस्य प्रभावान्न मया सभामध्ये महाबलाः' ।
						नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥
					 
					
						तेवयं बाहुबलिनः क्रोधमुत्थितमात्मनः ।
						सहामहे भवन्मूलं वासुदेवेन पालिताः ॥
					 
					
						मया हि सह कृष्णेन हत्वा कर्णमुखान्परान् ।
						स्वबाहुविजितां कृत्स्नां प्रशाधीनां वसुंधराम् ॥
					 
					
						भतो द्यूतदोषेण सर्वेवयमुपप्लुताः ।
						अहीनपौरुषा राजन्बलिभिर्बलवत्तराः ॥
					 
					
						क्षात्रं धर्मं महाराज त्वमवेक्षितुमर्हसि ।
						ग हिधर्मो महाराज त्रियस्य वनाश्रयः ॥
					 
					
						राज्यमेव परंधर्मं क्षत्रियस्य विदुर्बुधाः ।
						स क्षत्रधर्मविद्राजन्माधर्म्यान्नीनशः पथः ॥
					 
					
						प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ।
						निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् ॥
					 
					
						व्यूढानीकान्महाराज जवेनैव महाहवे ।
						धार्तराष्ट्रानमुं लोकं गमयाम विशांपते ॥
					 
					
						सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् ।
						दुर्योधनं च कर्णं च यो वाऽन्यः प्रतियोत्स्यते ॥
					 
					
						मया प्रशमिते पश्चात्त्वमेष्यसि वनं पुनः ।
						एवं कृते न ते दोषो भविष्यति विशांपते ॥
					 
					
						यज्ञैश्च विविधैस्तात कृतंपापमरिंदम ।
						अवधूय महाराजगच्छेम स्वर्गमुत्तमम् ॥
					 
					
						एवमेतद्भवेद्राजन्यदि राजा न बालिशः ।
						अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥
					 
					
						निकृत्या निकृतिप्रत्रा हन्तव्या इति निश्चयः ।
							न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ।
						
						तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते ॥
						
					 
					
						अहोरात्रं महाराज तुल्यं संवत्सरेण ह ।
							तथैव वेदवचनं श्रूयते नित्यदा विभो ।
						
						संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥
						
					 
					
						यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत ।
						तयोदशादितः कालो ज्ञायतां परिनिष्ठितः ॥
					 
					
						कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम ।
						एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥
					 
					
						द्यूतप्रियेण राजेन्द्र तथा तद्भवता कृतम् ।
						प्रायेणाज्ञातच्रयायां वयं सर्वेनिपातिताः ॥
					 
					
						न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः ।
						न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः ॥
					 
					
						अधिगम्य च सर्वान्नो वनवासमिमं ततः ।
							प्रव्राजयिष्यतिपुनर्निकृत्याऽधमपूरुषः ।
						
						यद्यस्मानभिगच्छेत पापः स हि कथंचन ॥
						
					 
					
						अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत् ।
						द्यूतेन ते महाराज पुनर्युद्धं प्रवर्तते ॥
					 
					
						भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति ।
						स तथाऽक्षेषु कुशलो निश्चितो गतचेतनः ॥
					 
					
						चरिष्यसि महाराज वनेषु वसतीः पुनः ॥
						
					 
					
						यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि ।
							यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः ।
						
						निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः ॥
						
					 
					
						अनुज्ञातस्त्वया गत्वायावच्छक्ति सुयोधनम् ।
							यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः ।
						
						हनिष्यामि तथा मन्दमनुजानातु मे भवान् ॥
						
						वैशंपायन उवाच । 
					 
					
						एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः ।
						उवाच सान्त्वयन्राजा मूर्न्ध्युपाघ्राय पाण्डवम् ॥
					 
					
						असशयं महाबाहो हनिष्यसि सुयोधनम् ।
						वर्षात्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥
					 
					
						यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो ।
						अनृतं नत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥
					 
					
						अन्तरेणापि कौन्तेय निकृतिंपापनिश्चयम् ।
						हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥
					 
					
						एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे ।
						आजगाम महाभागो बृहदश्वो महानृषिः ॥
					 
					
						तमभिप्रेक्ष्यधर्मात्मा संप्राप्तं धर्मचारिणम् ।
						शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥
					 
					
						आश्वस्तं चैनमासीनमुपासनो युधिष्ठिरः ।
						अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥
					 
					
						अक्षद्यूते च भगवन्धनं राज्यं च मे हृतम् ।
						आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥
					 
					
						अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः ।
						भार्या च मे सभां नीता प्राणेभ्योपि गरीयसी ॥
					 
					
						पुनर्द्यूतेन मां जित्वा वनवासां सुदारुणम् ।
						प्राव्राजयन्मंहारण्यमजिनैः परिवारितम् ॥
					 
					
						अहं वने दुर्वसतीर्वसन्परमदुःखितः ।
						अक्षद्यूताभिषङ्गेण गिरः शृण्वन्सुदारुणाः ॥
					 
					
						आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम् ।
						अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन् ॥
					 
					
						यस्मिंश्च वयमायत्ताः सदा गाण्डीवधन्वनि ।
							`स चेन्द्रलोकं गतवानस्त्रहेतोर्महाबलः ॥'
						
					 
					
						विना महात्मना तेन गतसत्व इवास्महे ।
						कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम् ॥
					 
					
						`इति सर्वे महेष्वासं चिन्तयाना धनंजयम् ।
						अनेन तु विषण्णोऽहं कारणेन सहानुजः ॥
					 
					
						वनवासान्निवृत्तं मां पुनस्ते पापबुद्धयः ।
							जानन्तः प्रीयमाणा वै देवने भ्रातृभिः सह ।
						
						द्यूतेनैवाह्वयिष्यन्ति बलादक्षेषु तद्विदः ॥
						
					 
					
						आहूतश्च पुनर्द्यूते नास्मि शक्तो निवर्तितुम् ।
						पणे च मम नात्यर्थं वसु किंचन विद्यते ॥
					 
					
						एतत्सर्वमनुध्यायंश्चिन्तयानो दिवानिशम् ।
						न मत्तो दुःखिततरः पुमानस्तीह कश्चन' ॥
					 
					
						नास्ति राजा मया कश्चिदल्पभाग्यतरो भुवि ।
							भवता दृष्टपूर्वो वा श्रुतपूर्वोपि वा क्वचित् ।
						
						न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥
						
					 
					
						`एवं ब्रुवन्तं दुःखार्तमुवाच भगवानृषिः ।
						शोकं व्यपनुदन्राज्ञो धर्मराजस्य धीमतः ॥
						बृहदश्व उवाच । 
					 
					
						न विषादे मनः त्वया बुद्धिमतांवर ।
						आगमिष्यति बीभत्सुरमित्रांश्च विजेष्यते' ॥
					 
					
						यद्ब्रवीषि महाराज न मत्तो विद्ते क्वचित् ।
						अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥
					 
					
						अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ ।
						यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवीपते ॥
						वैशंपायन उवाच । 
					 
					
						अथैनमब्रवीद्राजा ब्रवीतु भगवानिति ।
						इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम् ॥
						बृहदश्व उवाच । 
					 
					
						शृणु राजन्नवहितः सह भ्रातृभिरच्युत ।
						यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवोपते ॥
					 
					
						निषधेषु महीपालो वीरसेन इति श्रुतः ।
						तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्तकोविदः ॥
					 
					
						स निकृत्याजतो राजा पुष्करेणेति नः श्रुतम् ।
						वनवासं सुदुःखार्तो भार्यया न्यवसत्सह ॥
					 
					
						न तस्य दासा न रथो न भ्राता न च भान्धवाः ।
						वने निवसतो राजन्नश्रूयन्त कदाचन ॥
					 
					
						भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः ।
						ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥
						युधिष्ठिर उवाच । 
					 
					
						विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः ।
							चरितं वदतांश्रेष्ठ तन्ममाख्यातुमर्हसि ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥ 
					 3-49-4 पुप्लुवे प्लावितवान् ॥ 3-49-6 निदेशात् आज्ञातः ॥ 3-49-11 अगं लकं परलोकम् ॥ 3-49-14 बलिभिः सामन्तदत्तैर्धर्नर्बलवत्तरा ॥ 3-49-22 बालिशः बालवद्वृथाहठी । दीर्घसूत्रः चिरकारी ॥ 3-49-26 पुरा अग्रे ॥ 3-49-30 द्यूतेन द्यूतार्थम् ॥ 3-49-31 अपनेष्यति दूरीकरिष्ति । थियमिति शेषः ॥ 3-49-34 कक्षं तृणम् ॥ 3-49-50 जयन्तः प्रीयमाणा वै इति क. पाठः ॥ 3-49-61
						पुष्करेण राज्ञा ॥