अध्यायः 133
					 शिबिपरी7णार्थं श्येनीभूतेनेन्द्रेणानुद्रुतस्य
						कपोतरूपधारिणोऽग्नेः शिविंप्रति शरणागतिः ॥ 1 ॥ कपोतरिरक्षिषया राज्ञा
						श्येनानुमत्या स्वशरीरोत्कृत्तमांसस्य कपोतेन सह तुलारोपणम् ॥ 2 ॥
						मांसापेक्षया कपोतस्य गौरवातिरेके राज्ञा स्वयमेव तुलारोहणम् ॥ 3 ॥
						ततस्तुष्टाभ्यामिन्द्राग्निभ्यां तत्प्रशंसनपूर्वकं स्वलोकगमनम् ॥ 4 ॥ 
					
					
						धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः ।
						स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥
					 
					
						विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा ।
						माहिंसीर्धर्मलोभेन धर्ममुत्सृज्य मा नशः ॥
						राजोवाच । 
					 
					
						संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज ।
						मत्सकाशमनुप्रप्तः प्राणगृध्नुरयं द्विजः ॥
					 
					
						एवमभ्यागतस्येह कपोतस्याभयार्थिनः ।
						अप्रदाने परो धर्मः किं त्वं श्येनेह पश्यसि ॥
					 
					
						प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते ।
						मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥
					 
					
						[यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम् ।
							शरणागतं च त्यजते तुल्यं तेषां हि पातकम्]
						
						श्येन उवाच । 
					 
					
						आहारत्सर्वभूतानि संभवन्ति महीपते ।
						आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥
					 
					
						शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् ।
						न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥
					 
					
						भक्ष्याद्विलोपितस्याद्य मम प्राणा विशांपते ।
						विसृज्यकायमेष्यन्ति पन्थानमपुनर्भवम् ॥
					 
					
						प्रमृते मयि धर्मात्मन्पुत्रदारादि नङ्क्ष्यति ।
						रक्षमाणः कपोतं त्वं बहून्प्राणान्न रक्षसि ॥
					 
					
						बहून्यो बाधते धर्मो न स धर्मः कुवर्त्म तत् ।
						अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ॥
					 
					
						विरोधिषु महीपाल निश्चित्य गुरुलाघवम् ।
						न बाधा विद्यते यत्र तं धर्मं समुपाचरेत् ॥
					 
					
						गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये ।
						यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ॥
						राजोवाच । 
					 
					
						बहुकल्याणसंयुक्तं भाषसे विहगोत्तम ।
						सुपर्णः पक्षिराट् किं त्वं धर्मं ज्ञात्वाऽभिभाषसे ॥
					 
					
						तथाहि धर्मसंयुक्तं बहुचित्रं च भाषसे ।
							न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम् ।
						
						शरणैषिपरित्यागं कथं साध्विति मन्यसे ॥
						
					 
					
						आहारार्थं समारम्भस्तव चायं विहंगम ।
						शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥
					 
					
						गोवृषो वा वराहो वा मृगो वा महिषोपि वा ।
						त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसि ॥
						श्येन उवाच । 
					 
					
						न वराहं न चोक्षाणं न मृगान्विविधांस्तथा ।
						भक्षयामि महाराज किं ममान्येन केचचित् ॥
					 
					
						यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव ।
						तमुत्सृज महीपाल कपोतमिममेव मे ॥
					 
					
						श्येनाः कपोतान्स्वादन्ति श्रुतिरेषा सनातनी ।
						मा राजन्सारमज्ञात्वा कदलीस्कन्धमासज ॥
						राजोवाच । 
					 
					
						राष्ट्रं शिवीनामृद्धं वै शाधि पक्षिभिरर्चितः ।
						कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम ॥
					 
					
						यं वा कामयसे कामं श्येन सर्वं ददानि ते ।
						विनेमं पक्षिणं श्यन शरणार्थिनमागतम् ॥
					 
					
						येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम ।
						तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥
						श्येन उवाच । 
					 
					
						उशीनर कपोते ते यदि स्नेहो नराधिप ।
						आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥
					 
					
						यदा समं कपोतेन तव मांसं नृपोत्तम ।
						त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥
						राजोवाच । 
					 
					
						अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे ।
						तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥
						लेमश उवाच । 
					 
					
						अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् ।
						तुलयामास कौन्तेय कपोतेन समं विभो ॥
					 
					
						ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते ।
						पुनश्चोत्कृत्यमांसानि राजा प्रादादुशीनरः ॥
					 
					
						न विद्यते यदा मांसं कपोतेन समं धृतम् ।
						तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥
						श्येन उवाच । 
					 
					
						इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् ।
						जिज्ञासमानौ धर्म त्वां यज्ञवाटमुपागतौ ॥
					 
					
						यत्ते मांसानि गात्रेभ्य उक्तृत्तानि विशांपते ।
						एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति ॥
					 
					
						यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव ।
						तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥
					 
					
						इत्युक्त्वा भूमिपतये तस्मै दत्त्वा यथेप्सितम् ।
						प्रशस्य जग्मतू राजन्निन्द्राग्री तुष्टमानसौ ॥
					 
					
						उशीनरोऽपिधर्मात्मा धर्मेणावृत्यरोदसी ।
						विभ्राजमानो वपुषाऽप्यारुरोह त्रिविष्टपम् ॥
					 
					
						तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः ।
						पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥
					 
					
						तत्र वै सततं देवा मुनयश्च सनातनाः ।
							दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि
						त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥ 
					 3-133-2 मा रक्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि इति झ. पाठः ॥ 3-133-20 कदलीस्कन्धमासजेति कदलीस्कन्धतुल्ये निःशारेऽस्मिन् धर्मे मा सज्जो
						भवेत्यर्थः ॥