अध्यायः 282
रावणेन सीतासमीपमेत्य बहुधाप्रलोभनेऽप्यविकृतमानसया तया प्रत्याख्याने स्वावासंप्रतिगमनम् ॥ 1 ॥
मार्कण्डेय उवाच । 
					ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् ।
						मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् ॥
					राक्षसीभिरुपास्यन्तीं समासीनां शिलातले ।
						रावणःकामबाणार्तो ददर्शोपससर्प च ॥
					देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि ।
						अजितोशोकवनिकां ययौ कन्दर्पपीडितः ॥
					दिव्याम्बरधरः श्रीमन्सुमृष्टमणिकुण्डलः ।
						विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ॥
					न कल्पवृक्षसदृशोयत्नादपि विभूषितः ।
						श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः ॥
					स तस्यास्तनुमध्यायाः समीपे रजनीचरः ।
						ददृशे रोहिणीमेत्य शनैश्चर इव ग्रैहः ॥
					स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः ।
						इदमित्यब्रवीद्वाक्यं त्रस्तां रौहीमिवाबलाम् ॥
					सीते पर्याप्तमेतावत्कृतोभर्तुरनुग्रहः ।
						प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ॥
					भजस्वमां वरारोहे महार्हाभरणाम्बरा ।
						भवमे सर्वनारीणामुत्तमा वरवर्णिनी ॥
					सन्ति मे देवक्न्याश्च गन्धर्वाणआं च योषितः ।
							सन्ति दानवन्याश् दैत्यानां चापि योषितः ।
						
						`तासामद्यविशालाक्षि सर्वासां मे भवोत्तमा ॥
						
					चतुर्दश पिशाचीनां कोट्यो मे वचने स्थिताः ।
						द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ॥
					ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः ।
						केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ॥
					गन्दर्वाप्सरसो भद्रे मामापानगतं सदा ।
						उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ॥
					पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः ।
						पञ्चमो लोकपालानामिति मे प्रथितं यशः ॥
					दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च ।
						यथैव त्रिदशेशस्यतथैव मम भामिनि ॥
					क्षीयतां दुष्कृतं कर्म वनवासकृतं तव ।
						भार्या मे भवसुश्रोणि यथा मण्डोदरीतथा ॥
					इत्युक्ता तेन वैदेही परिवृत्य सुभानना ।
						तृणमनतरतः कृत्वातमुवाच निशाचरम् ॥
					अशिवेनातिवामोरूरजस्रं नेत्रवारिणा ।
						स्तनावपतितौ बाला संहतावभिवर्षती ॥
					`व्यवस्थाप्यकथंचित्सा विषादादतिमोहिता' ।
						उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ॥
					असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर ।
							विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ।
						
						तद्भद्रमुख भद्रं ते मानसं विनिवर्त्यताम् ॥
						
					परदाराऽस्म्यलभ्या च सततं च पतिव्रता ।
						न चैवौपयिकी भार्य मानुषी तव राक्षस ॥
					विवशां धर्षयित्वच कां त्वं प्रीतिमवाप्स्यसि ।
						न च पालयसे धर्मं लोकपालसमः कथम् ॥
					भ्रातरं राजराजं तं महेश्वरसस्वं प्रभुम् ।
						धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ॥
					इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ ।
						शिरोधरां च तन्वङ्गी मुस्वं प्रच्छाद्यवाससा ॥
					तस्य रुदत्या भामित्या दीर्घा वेणी सुसयता ।
						ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ॥
					श्रुत्वा तद्रावणो वाक्यं सीतयोक्तं सुनिषुरम् ।
						प्रत्याख्यातोऽपिदुर्मेधाः पुनरेवाब्रवीद्वचः ॥
					काममङ्गनि मे सीते दुनोतु मकरध्वजः ।
						नत्वामकामां सुश्रोणीं समेप्ये चारुहासिनीं ॥
					किंनु शक्यं मया कर्तुं यत्त्वमद्यापिमानुषम् ।
						आहारभूतमस्माकं राममेवानुरुध्यसे ॥
					इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसमहेश्वरः ।
						तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ॥
					राक्षसीभिः परिवृतावैदेही शोककशिंता ।
							सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ॥
					इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि द्व्यशीत्यधिकद्विशततमोऽध्यायः ॥ 282 ॥
3-282-2 उपास्यन्तीमुपास्यमानाम् ॥ 3-282-7 रौहीं हरिणीम् ॥ 3-282-8 परिकर्म वस्त्राभरणादिना प्रसाधनम् ॥ 3-282-20 विनिवर्त्यतां मत्त इति शेषः ॥ 3-282-21 औपयिकी उपयोगाही ॥
