अध्यायः 074
कुरुविजयदिनात्परेद्युः प्रभाते युधिष्ठिरादिभी राजलक्षणधारणेन सिंहासनादिषूपवेशनम् ॥ 1 ॥ ततः सहोत्तरेण सभामागतवता विराटेन युधिष्ठिरंप्रति राजासनोपवेशनाक्षेपः ॥ 2 ॥ अर्जुनेन तंप्रति युधिष्ठिरस्य याथातथ्यकथनेन तदीयगुणानुवर्णनपूर्वकं तस्य राजासनारोहणार्हत्वप्रतिपादनम् ॥ 3 ॥
वैशंपायन उवाच ।
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः ।
						स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः ॥
					युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः ।
						अभिपन्ना महाभागा भ्राजमाना महारथाः ॥
					विराटस्य सभां प्राप्य भूमिपालासनेषु ते ।
						निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः ॥
					तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः ।
						तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च ॥
					गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि ।
						आजगाम सभां राजा उत्तरेण सह प्रभो ॥
					स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव ।
							राजवेषानुपादाय पार्थिवो विस्मितोऽभवत् ।
						
					किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः ।
						पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः ॥
					अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् ।
						मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥
					स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः ।
						अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः ॥
						वैशंपायन उवाच । 
					परिहासेच्छया राज्ञो विराटस्य निशम्य तत् ।
						स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ॥
					इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति ।
						ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः ॥
					एष विग्रहवान्धर्म एष वीर्यवतां वरः ।
						एष बुद्ध्याधिको लोके तपसां च परायणम् ॥
					एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे ।
						न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन ॥
					न देवा नासुराः केचिन्न मनुष्या न राक्षसाः ।
						गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥
					दीर्घदर्शी महातेजाः पारैजानपदप्रियः ।
						पाण्डवानामतिरथो यज्ञधर्मपरो वशी ॥
					महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः ।
						बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः ॥
					धनैश्च संचयैश्चैव शक्रवैश्रवणोपमः ।
							यथा मनुर्महातेजा लोकानां परिरक्षिता ।
						
						एवमेव महातेजाः प्रजानुग्रहकारकः ॥
						
					अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।
						यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥
					संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः ।
						उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः ॥
					एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् ।
						अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥
					त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम् ।
						सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुस्तदा ॥
					वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च ।
							इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः ।
						
						तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥
						
					इमं नित्यपुमातिष्ठन्कुरवः किंकरास्तदा ।
						सर्वे च नृप राजानं धनेश्वरमिवामराः ॥
					एष सर्वान्महीपालान्करमाहारयत्तदा ।
						वैश्यानिव महाराज विवशान्स्ववशानपि ॥
					अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् ।
						उपजीवन्ति राजानमेनं सुचरितव्रताः ॥
					एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् ।
						पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः ॥
					एष धर्मे दमे चैव दाने सत्ये रतः सदा ।
						महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥
					श्रीमत्संपत्प्रभावेन तप्यते यस्य कौरवः ।
						रगणः सह कर्णेन सौबलेन च वीर्यवान् ॥
					गुणा न शक्याः संख्यातुमेतस्यैव नरेश्वर ।
						एष धर्मपरो नित्यमनृशंसः सुशीलवान् ॥
					एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः ।
						कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥ ॥
					इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि चतुःसप्ततितमोऽध्यायः ॥