अध्यायः 094
					 अर्जुनाद्भीतेन दुर्योधनेन द्रोणमेत्य तदुपालम्भपूर्वकं
						जयद्रथम्प्रति शोचनम् ॥ 1 ॥ द्रोणेन दुर्योधनस्य मन्त्रोच्चारणपूर्वकं
						कवचमाबध्यार्जुनेन सह युद्धाय प्रेषणम् ॥ 2 ॥ 
					
					
						ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया ।
						द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥
					 
					
						काम्भोजस्य च दायादे हते राजन्सुदक्षिणे ।
						श्रुतायुषि च विक्रान्ते निहते सव्यसाचिना ॥
					 
					
						विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः ।
						प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥
					 
					
						त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् ।
						गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम् ॥
					 
					
						अथ बुद्ध्या समीक्षस्व किन्नु कार्यमनन्तरम् ।
						अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ॥
					 
					
						यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः ।
						तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥
					 
					
						असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः ।
						सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥
					 
					
						अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप ।
						जयद्रथस्य गोप्तारः संशयं परमं गताः ॥
					 
					
						स्थिरा बुद्धिर्नरेन्द्राणमासीद्ब्रह्मविदां वर ।
						नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः ॥
					 
					
						योऽसौ पाथो व्यतिक्रान्तो मिषतस्ते महाद्युते ।
						सर्वं ह्यद्यातुरं मन्ये नेदमस्ति बलं मम ॥
					 
					
						जानामि त्वां महाभाग पाण्डवानां हिते रतम् ।
						ततो मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ॥
					 
					
						यथाशक्ति च ते ब्रह्मन्वर्धयन्वृत्तिमुत्तमाम् ।
						प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥
					 
					
						अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम ।
						पाण्डवान्सततं प्रीणास्यास्माकं विप्रिये रतान् ॥
					 
					
						अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः ।
						न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥
					 
					
						`नह्यहं त्वां विजानामि सर्वं मण्डूकराविणम्' ।
							नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे ।
						
						नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥
						
					 
					
						मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना ।
						आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥
					 
					
						यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः ।
						नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ॥
					 
					
						स तथा कुरु शोणश्व यथा मुच्येत सैन्धवः ।
						मम चार्तप्रलापानां माक्रुधः पाहि सैन्धवम् ॥
						द्रोण उवाच । 
					 
					
						नाभ्यसूयामि ते वाक्यमश्वत्थाम्नाऽसि मे समः ।
						सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशाम्पते ॥
					 
					
						सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः ।
						अल्पं च विवरं कृत्वा पूर्णं याति धनञ्जयः ॥
					 
					
						किं न पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः ।
						पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ॥
					 
					
						न ताबं शीघ्रयानेऽद्य समर्थो वयसान्वितः ।
						सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ॥
					 
					
						युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् ।
						एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ॥
					 
					
						धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे नृप ।
						तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ॥
					 
					
						तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् ।
						गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥
					 
					
						राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः ।
						वीरः स्वयं प्रयाह्याशु यत्र पार्थो धनञ्जयः ॥
						दुर्योधन उवाच । 
					 
					
						कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरम् ।
						धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ॥
					 
					
						अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः ।
						नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ॥
					 
					
						येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः ।
						अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥
					 
					
						सुदक्षिणश्च निहतः स च राजा श्रुतायुधः ।
						श्रुतायुश्चाश्रुतायुश्च भ्लेच्छाश्चायुतशो हताः ॥
					 
					
						तं कथं पाण्डवं युद्धे दहन्तमिव पावकम् ।
							प्रतियोत्स्यामि दुर्धर्षं तन्ममाचक्ष्व सत्तम् ।
						
					 
					
						क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् ।
						परवानस्मि भवतः प्रेष्यवद्रक्ष मे यशः ॥
						द्रोण उवाच । 
					 
					
						सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः ।
						अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥
					 
					
						अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः ।
						विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ॥
					 
					
						एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् ।
						यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे ॥
					 
					
						यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः ।
						योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ॥
					 
					
						न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे ।
						शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ॥
					 
					
						स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् ।
						त्वरमाणः स्वयं याहि न त्वाऽसौ विषहिष्यति ॥
						सञ्जय उवाच । 
					 
					
						एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् ।
						आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥
					 
					
						रणे तस्मिन्सुमहति विजयस्य सुतस्य ते ।
						विसिष्मापयिषुर्लोकान्विद्यया ब्रह्मवित्तमः ॥
						द्रोण उवाच । 
					 
					
						करोतु स्वस्ति ते ब्रह्मा स्वस्ति कुर्वन्तु ब्राह्मणाः ।
						सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥
					 
					
						ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः ।
						तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु ते सदा ॥
					 
					
						स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च ।
						स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥
					 
					
						स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ।
						लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥
					 
					
						अमितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः ।
						वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥
					 
					
						धाता विधाता लोकेशो दिशश्च सदिगीश्वराः ।
						स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः ॥
					 
					
						`येन देवाः सकृद्भग्नाः सङ्ग्रमे तारकामये ।
						धृताः स च हतः शूरो ह्यवध्यो देवतागणैः ॥
					 
					
						विवस्वान्कुरुतां स्वस्ति तथा वैवस्वतो यमः ।
						पार्षिदा वशगा यस्य स्वस्ति तुभ्यं प्रयच्छतु' ॥
					 
					
						दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः ।
							`दिशश्च विदिशश्चैव सिद्धा लोकहिते रताः ।
						
						स्वस्ति कुर्वन्तु ते नित्यं मन्त्रेणानेन रस्तुताः' ॥
						
					 
					
						अधस्ताद्धरणीं योऽसौ सदा धारयते नृप ।
						शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥
					 
					
						गान्धारे युधि विक्रम्य निर्जिते पाकशासनेः ।
						पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥
					 
					
						हृततेजोबलाः स्रवे तदा सेन्द्रा दिवौकसः ।
						ब्रह्माणं शरणं जग्मुर्वृत्राद्भीतां महासुरात् ॥
						देवा ऊचुः । 
					 
					
						प्रमार्दितानां वृत्रेण देवानां देवसत्तम ।
						गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥
					 
					
						अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् ।
						प्राह पथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ॥
					 
					
						रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः ।
						त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥
					 
					
						त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा ।
						वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥
					 
					
						शंकरस्य प्रसादाद्वै हन्याद्देवरिपुर्बली ।
						नागत्वा शंकरस्थानं भगवान्दृश्यते हरः ॥
					 
					
						दृष्ट्वा जेष्यथ वृत्रं तं क्षिप्रं गच्छत मन्दरम् ।
						यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ॥
					 
					
						पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ।
						ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् ॥
					 
					
						अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ।
						सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् ॥
					 
					
						अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ।
						एवमुक्तास्तु ते सर्वे प्रत्युचूस्तं दिवौकसः ॥
					 
					
						हृतौजसां नो वृत्रेण गतिर्भव दिवौकसाम् ।
							मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः ।
							शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ॥
						
					 
					
						शर्वे उवाच ।
						विदितं वो यथा देवाः कृत्येयं सुमहाबला ।
						त्वष्टुस्तेजोभवा घोरा दुर्निवार्याऽकृतात्मभिः ॥
					 
					
					  
					  अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् ।
					  ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ॥
					 
					
						बधानानेन मन्त्रेण मानसेन सुरेश्वर ।
						वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः ॥
					 
					
						द्रोण उवाच । 
						इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च ।
						स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥
					 
					
						नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे ।
						न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥
					 
					
						स तेन वर्मणा गुप्तो वृत्रं देवरिपुं तदा ।
						जघान समरेऽभीतः शक्रो देवाग्रणीस्तदा ॥
					 
					
						तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ ।
							अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः ।
						
						बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥
						
					 
					
						अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते ।
						तवाह्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥
						सञ्जय उवाच । 
					 
					
						एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम् ।
						पुनरे वचः प्राह शनैराचार्यपुङ्गवः ॥
					 
					
						ब्रह्मसूत्रेण बध्नामि कथचं तव भारत ।
						हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ॥
					 
					
						यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये ।
						शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥
						सञ्जय उवाच । 
					 
					
						बद्धा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् ।
						प्रेषयामास राजानं युद्धाय महते द्विजः ॥
					 
					
						स सन्नद्धो महाबाहुराचार्येण महात्मना ।
						`प्रस्थितः सहसा राजन्यत्र यातो धनञ्जयः' ॥
					 
					
						रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ।
						तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् ॥
					 
					
						अश्वानां नियुतेनैव तथाऽन्यैश्च महारथैः ।
						वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति ॥
					 
					
						नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥
						
					 
					
						ततः शब्दो महानासीत्सैन्यानां तव भारत ।
						अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे
						चतुर्नवतितमोऽध्यायः ॥ 94 ॥ 
					 5-94-10 आतुरमनवस्पितम् ॥ 5-94-12 नावबुध्यसे न स्मरसि ॥ 5-94-13 नेच्छसि नानुरुध्यते ॥ 5-94-14 वचसा ललितं सदा । हृदयेन भृशं तीक्ष्णं
						इति क. पाठः ॥ 5-94-35 ते त्वाम् ॥ 5-94-49 चत्वार ऐरावतवामनाञ्जनसार्वभौमाः ॥ 5-94-56 अनुज्ञां वरम् ॥ 5-94-57 हन्याद्धन्तुमर्हति ॥ 5-94-65 मानसेन
						मनसोच्चारणीयेन ॥ 5-94-72 ब्रह्मसूत्रेण ब्रह्मणा सूचितेनो पदेशेन ॥ 5-94-94
						चतुर्नवतितमोऽध्यायः ॥ 
					
					
					
					
					श्रीः