अध्यायः 099
					 अर्जुनेन रणाङ्कणे हयाप्यायनाय शरैः सरोनिर्माणम् ॥ 1 ॥ तथा
						शरमयवेश्मनिर्माणम् ॥ 2 ॥ 
					
					
						`वर्तमाने तदा युद्धे द्रोणस्य सह पाण्डुभिः' ।
							परिवर्तमान आदित्ये तत्र सूर्ये च रश्मिभिः ।
						
						रजसा कीर्यमाणाश्च मन्दीभूताश्च कौरवाः ॥
						
					 
					
						तिष्ठतां युध्यमानानां पुनरावर्ततामपि ।
						भज्यतां जयतां चैव जगाम तदहः शनैः ॥
					 
					
						तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु ।
						अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥
					 
					
						रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः ।
						चकार यं च पन्थानं ययौ तेन जनार्दनः ॥
					 
					
						यत्रयत्र रथो याति पाण्डवस्य महात्मनः ।
						तत्रतत्रैव दीर्यन्ते सेनास्तव विशाम्पते ॥
					 
					
						रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् ।
						उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥
					 
					
						ते तु नामाङ्किता बाणाः कालज्वलनसन्निभाः ।
						स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥
					 
					
						वैणवाश्चायसाश्चोग्रा ग्रसन्तो विविधानरीन् ।
						रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥
					 
					
						रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान् ।
						रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥
					 
					
						तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः ।
						यथाऽगच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ॥
					 
					
						न तथा गच्छति रथस्तपनस्य विशाम्पते ।
						नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च ॥
					 
					
						नान्यस्य समरे राजन्गतपूर्वस्तथा रथः ।
						यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥
					 
					
						प्रविश्य तु रणे राजन्केशवः परवीरहा ।
						सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥
					 
					
						ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः ।
						कृच्छ्रेणरथमूहुस्तं क्षुत्पिपासासमन्विताः ॥
					 
					
						क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः ।
						मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥
					 
					
						हतानां वाजिनागानां रथानां च नरैः सह ।
						उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥
					 
					
						`श्रमेण महता युक्तास्ते हया वातरंहसः ।
						मन्दवेगगता राजन्संवृत्तास्तत्र संयुगे' ॥
					 
					
						एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप ।
						सहसेनौ समार्च्छेतां पाण्डवं क्लान्तवाहनम् ॥
					 
					
						तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् ।
						शराणां च शतैरश्वानविध्येतां मुदान्वितौ ॥
					 
					
						तावर्जुनो महाराज नवभिर्नतपर्वभिः ।
						आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥
					 
					
						ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् ।
						आच्छादयेतां संरब्धौ सिंहनादं च चक्रतुः ॥
					 
					
						तयोस्तु धनुषी मुष्टौ भल्लाभ्यां श्वेतवाहनः ।
							चिच्छेद समरे तूर्णं भूय एव धनञ्जयः ।
						
						अथान्यैर्विशिखैस्तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥
						
					 
					
						अथान्ये धनुषी राजन्प्रगृह्य समरे तदा ।
						पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ॥
					 
					
						तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः ।
						धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः ॥
					 
					
						तथान्यैर्विशिखैस्तूर्णं रुक्मपुङ्खैः शिलाशितैः ।
						जघानाश्वांस्तथा सूतौ पार्ष्णी च सपदानुगौ ॥
					 
					
						ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत ।
						स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥
					 
					
						विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान् ।
						हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥
					 
					
						अभ्यवर्तत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् ।
						गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः ॥
					 
					
						अनुविन्दस्तु गदया ललाटे मधुसूदनम् ।
						स्पष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ॥
					 
					
						तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः ।
						निचकर्त स सञ्छन्नः पपाताद्रिचयो यथा ॥
					 
					
						ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः ।
						अभ्यद्रुवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ॥
					 
					
						तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ ।
						व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥
					 
					
						तयोः सेनामतिक्रम्य कृच्छ्रादिव धनञ्जयः ।
						विबभौ जलदं हित्वा दिवाकर इवोदितः ॥
					 
					
						तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः ।
						अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ ॥
					 
					
						श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् ।
						सिंहनादेन महता सर्वतः पर्यवारयन् ॥
					 
					
						तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्भः ।
						शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥
					 
					
						शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः ।
						किमिहानन्तरं कार्यं साधिष्ठं तव रोचते ॥
					 
					
						ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा ।
						भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ॥
					 
					
						मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे ।
						हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ॥
						सञ्जय उवाच । 
					 
					
						एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् ।
						ममाप्येतन्मतं पार्थ यदितं ते प्रभाषितम् ॥
						अर्जुन उवाच । 
					 
					
						अहमावारयिष्यामि सर्वसैन्यानि केशव ।
						त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥
						सञ्जय उवाच । 
					 
					
						सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः ।
						गाण्डीवं धनुरादाय तस्थौ गिरिविवाचलः) ॥
					 
					
						तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः ।
						इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ॥
					 
					
						तमेकं रथवंशेन महता पर्यवारयन् ।
						विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥
					 
					
						शस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् ।
						छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥
					 
					
						अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् ।
						नरसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥
					 
					
						तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत ।
						यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥
					 
					
						अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः ।
						इषुभिर्बुभिस्तूर्णं सर्वानेव समावृणोत् ॥
					 
					
						तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते ।
						सङ्घर्षेण महार्चिष्मान्पावकः समजायत ॥
					 
					
						तत्रतत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः ।
						हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शन ॥
					 
					
						संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे ।
						एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥
					 
					
						शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् ।
						पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥
					 
					
						असङ्ख्येयमपारं च रजो नीरमतीव च ।
						उष्णीषकमठं छत्रपताकाफेनमालिनम् ॥
					 
					
						रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् ।
						वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥
						[धृतराष्ट्र उवाच । 
					 
					
						अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे ।
						एतदन्तरमासाद्य कथं पार्थो न घातितः ॥
						सञ्जय उवाच । 
					 
					
						सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः ।
						रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा ॥
					 
					
						स पार्थः पार्थिवान्सर्वान्भूमिस्थोपि रथस्थितान् ।
							एको निवारयामास लोभः सर्वगुणानिव ॥]
						
					 
					
						ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम् ।
						असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥
					 
					
						उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन ।
						परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥
					 
					
						इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् ।
						अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥
					 
					
						[हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
						सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम् ॥
					 
					
						कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम् ।
							आगच्छन्नारदमुनिर्दर्शनार्थं कृतं क्षणात् ॥]
						
					 
					
						शरवंशं शरस्थूणं शराच्छादनमद्भुतम् ।
						शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥
					 
					
						ततः प्रहस्य गोविन्दः साधुसाध्वित्यथाब्रवीत् ।
						शरवेश्मनि पार्थेन कृते तस्मिन्महात्मना ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे
						एकोनशततमोऽध्यायः ॥ 99 ॥ 
					 5-99-17 स्नायुनद्धाः सूक्ष्मचर्माग्रग्रथिताः ॥ 5-99-9
						क्रोशं कोशमुद्दिश्य ॥ 5-99-25 सूतौ सारथी । पाष्णीं पृष्ठरक्षौ ॥ 5-99-30
						अद्रिचयो निरिशृङ्गम् ॥ 5-99-49 प्रगाढानां व्यवगाढानाम् ॥ 5-99-54 वेलाभूतो
						मर्यादारूपः ॥ 5-99-55 कुण्डलितास्त्रयः श्लोकाः झ. पाठे एव वर्तन्ते ॥ 5-99-59
						अलं पर्याप्तम् ॥ 5-99-60 अभिहत्य खात्वा । दाजिपानं अश्वपानीयम् ॥ 5-99-61
						हंसकारण्डवाकीर्णमित्यादियोग्यतया वर्णनम् ॥ कुण्डलितौ द्वौ श्लोकौ
						घ.झ.पाठयोरेव ॥ 5-99-63 वंशः शालाधारकाष्ठम् । स्थूणा मध्यस्तम्भः ॥ 5-99-99
						एकोनशततमोऽध्यायः ॥ 
					
					
					
					
					श्रीः