अध्यायः 142
					 सात्यकिभूरिश्रवसोर्युद्धम् ॥ 1 ॥ सात्यकिशिरच्छेदायोन्नमितस्य
						स्वङ्गभृतो भूरिश्रवोभुजस्यार्जुनेन सञ्छेदः ॥ 2 ॥ 
					
					
						तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् ।
						क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥
					 
					
						तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम् ।
						अद्य प्राप्तोऽपि दिष्ट्या मे चक्षुर्विषयमित्युत ॥
					 
					
						चिराभिलषितं काममहं प्राप्स्यामि संयुगे ।
						न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥
					 
					
						अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् ।
						नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ॥
					 
					
						अद्य मद्बाणनिर्दग्धं पतितं धरणीतले ।
						द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ॥
					 
					
						अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया ।
						सव्रीडो भविता सद्यो येनासीह प्रवेशितः ॥
					 
					
						अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः ।
						त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ॥
					 
					
						चिराभिलषितो ह्येष त्वया सह समागमः ।
						पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥
					 
					
						अद्य युद्धं महाघोरं तव दास्यामि सात्वत ।
						ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ॥
					 
					
						अद्य संयमनीं याता मया त्वं निहतो रणे ।
						यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह ॥
					 
					
						अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव ।
						हते त्वयि निरुत्साहारणं त्यक्ष्यन्त्यसंशयम् ॥
					 
					
						अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः ।
						तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ॥
					 
					
						मच्चक्षुर्विषये प्राप्तो न त्वं माधव मोक्ष्यसे ।
						सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ॥
						सञ्जय उवाच । 
					 
					
						युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव ।
						कौरवेय न सन्त्रासो विद्यते मम संयुगे ॥
					 
					
						नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम् ।
						स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम् ॥
					 
					
						समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ।
						किं वृथोक्तेन बहुना कर्मणा तत्समाचर ॥
					 
					
						शारदस्येव मेघस्य गर्जितं निष्फलं हिते ।
						श्रुत्वा त्वद्गर्जितं वीर हास्यं हि मम जायते ॥
					 
					
						चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ।
							त्वरते मे मतिस्तात तव युद्धाभिकाङ्क्षिणी ।
						
						नाहत्वाऽहं निवर्तिष्ये त्वामद्य पुरुषाधम ॥
						
						सञ्जय उवाच । 
					 
					
						अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ ।
						जिघांसू परमक्रुद्धभिजघ्नतुराहवे ॥
					 
					
						समेतौ तौ महेष्वासौ शुष्मिणौ स्पर्धिनौ रणे ।
						द्विरदाविव सङ्क्रुद्धौ वासितार्थे मदोत्कटौ ॥
					 
					
						भूरिश्रवाः सात्यकिश्च ववर्षतुररिन्दमौ ।
						शरवर्षाणि घोराणि मेघाविव परस्परम् ॥
					 
					
						सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः ।
						जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ॥
					 
					
						दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् ।
						मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवं ॥
					 
					
						तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशाम्पते ।
						अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ॥
					 
					
						तौ पृथक्शस्त्रवर्षाभ्यामवर्षेतां परस्परम् ।
						उत्तमाभिजनौ वीरौ कुरुवृष्मियशस्करौ ॥
					 
					
						तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।
						रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ॥
					 
					
						निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् ।
						व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ॥
					 
					
						एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ ।
						परस्परमयुध्येतां वारणाविव यूथपौ ॥
					 
					
						तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ ।
						यियासन्तौ परं स्थानमन्योन्यं सञ्जगर्जतुः ॥
					 
					
						सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् ।
						हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ॥
					 
					
						सम्प्रैक्षन्त जनास्तौ तु युध्यमानौ युधाम्पती ।
						यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ ॥
					 
					
						`भूयोभूयः शरै राजंस्तक्षन्तौ क्रोधमूर्च्छितौ ।
						अयुध्येतां महारङ्गे वने केसरिणाविव ॥
					 
					
						मर्मज्ञाविव सङ्क्रुद्धौ जिघांसन्तौ जगर्जतुः ।
						विमर्दन्तावथान्योन्यं बलवज्रधराविव ॥
					 
					
						अथान्योन्यं पताकाश्च रथोपकरणानि च ।
						सञ्चिच्छिदतुरायान्तौ बाणैः सन्नतपर्वभिः ॥
					 
					
						पुनश्च शरवर्षाभ्यामन्योन्यमभिवर्षताम् ।
						उभौ तु जघ्नतुस्तूर्णमितरेतरसारथी' ॥
					 
					
						अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च ।
						विरथावसियुद्धाय समेयातां महारणे ॥
					 
					
						आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे ।
						विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ॥
					 
					
						चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः ।
							मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ ।
						
						सखङ्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ ॥
						
					 
					
						भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
						सम्पातं समुदीर्णं च दर्शयन्तौ यशस्विनौ ॥
					 
					
						असिभ्यां सम्प्रजहाते परस्परमरिन्दमौ ।
						उभौ छिद्रैषिणौ वीरावुभौ चित्रं ववल्गतुः ॥
					 
					
						दर्शयन्तावुभौ शिक्षां लाघवं सौष्ठवं तथा ।
						रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम् ॥
					 
					
						मुहूर्तमिव राजेन्द्र समाहत्य परस्परम् ।
						पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ॥
					 
					
						असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप ।
						निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥
					 
					
						व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
						बाहुभिः समसज्जेतामायसैः परिधैरिव ॥
					 
					
						तयो राजन्भुजाघातनिग्रहप्रग्रहास्तथा ।
						शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ॥
					 
					
						तयोर्नृवरयो राजन्समरे युध्यमानयोः ।
						भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ॥
					 
					
						द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ ।
						भुजयोक्रावबन्धैश्च शिरोभ्यां चावघातनैः ॥
					 
					
						पादावकर्षसन्धानैस्तोमराङ्कशलासनैः ।
						पादोदरविबन्धैश्च भूमावुद्धमणैस्तथा ॥
					 
					
						गतप्रत्यागताक्षेपैः पातनोत्थानसम्पुतैः ।
						युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ ॥
					 
					
						द्वात्रिंशत्कारणानि स्युर्यानि युद्धानि भारत ।
						तान्यदर्शयतां तत्र युध्यमानौ महाबलौ ॥
					 
					
						क्षीणायुधे सात्वते युध्यमाने
							ततोऽब्रवीदर्जुनं वासुदेवः ।
						
						पश्यस्वैनं विरथं युध्यमानं
							रणे वरं सर्वधनुर्धराणाम् ॥
						
					 
					
						`सिन्धुराजवधे सक्तं पार्थं कृष्णोऽब्रवीत्पुनः ।
						सीदन्तं सात्यकिं पश्य पार्थैनं परिरक्ष च' ॥
					 
					
						प्रविष्टो भारतीं भित्त्वा तव पाण्डव पृष्ठतः ।
						योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ॥
					 
					
						धार्तराष्ट्राश्च ये मुख्या ये च मुख्या महारथाः ।
						निहता वृष्णिवीरेण शतशोऽथ सहस्रशः ॥
					 
					
						परिश्रान्तं युधां श्रेष्ठं सम्प्राप्तो भूरिदक्षिणः ।
						युद्धाकाङ्क्षी समायान्तं नैतत्सममिवार्जुन ॥
					 
					
						ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः ।
						उद्यम्याभ्याहनद्राजन्मत्तो मत्तमिव द्विपम् ॥
					 
					
						ततो जलदनिर्घोषः समीपे नृपसत्तम ।
							हाहाकारो महानासीत्सैन्यानां भरतर्षभ ।
						
						यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥
						
					 
					
						रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः ।
						केशवार्युनयो राजन्समरे प्रेक्षमाणयोः ॥
					 
					
						अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत ।
						पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ॥
					 
					
						परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् ।
						तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम् ॥
					 
					
						न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन ।
						त्वत्कृते पुरुषव्याघ्र तदाऽऽशु क्रियतां विभो ॥
						सञ्जय उवाच । 
					 
					
						स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः ।
						व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥
					 
					
						अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः ।
							पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम् ।
						
						महाद्विपेनेव वने मत्तेन हरियूथपम् ॥
						
					 
					
						`मामेव च महाबाहो परियान्ति महारथाः ।
						यथाशक्ति यतन्तो मां योधयन्तो जनार्दन ॥
					 
					
						ध्रुवं च योधयाम्येताञ्छिद्रान्वेषणतत्परान् ।
						रक्षामि सात्यकिं चैव सौमदत्तिवशं गतम् ॥
					 
					
						अप्राप्तोऽयं मया कृष्म हन्तुं भूरिश्रवा रणे ।
						अन्येन तु समासक्तं मम नोत्सहते मनः ॥
					 
					
						अवश्यं च मया कृष्ण वृष्णिवीरस्य रक्षणम् ।
						मदर्थं युध्यमानस्य कार्यं प्राणैरपि प्रभो ॥
					 
					
						अधर्मो वाऽस्तु धर्मो वा मम माधव माधवः ।
						परेण निहतो मा स्म प्राणान्हासीन्महारथः ॥
						सञ्जय उवाच । 
					 
					
						एवमुक्त्वाऽर्जुनः कृष्णं परानाशु शितैः शरैः ।
						छादयामास सङ्क्रुद्धः परे चापि धनञ्जयम् ॥
					 
					
						एवं स्म युध्यते वीरः सात्यकिं च मुहुर्मुहुः ।
						प्रेक्षते स्म नरव्याघ्रो भूरिश्रवसमेव च' ॥
					 
					
						तथा तु कृष्यमाणं तं दृष्ट्वा सात्यकिमाहवे ।
						वासुदेवस्तदा वाक्यं भूयोऽप्यर्जुनमब्रवीत् ॥
					 
					
						पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवंशं गतम् ।
						तव शिष्यं महाबाहो धनुष्यनवमं त्वया ॥
					 
					
						अनित्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे ।
						विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥
					 
					
						`बहुभिर्महारथैरेष पराक्रान्तैर्युयुत्सुभिः ।
						युद्ध्वा भृशं परिश्रान्तः क्षीणायुधरपरिच्छदः' ॥
						सञ्जय उवाच । 
					 
					
						एवमुक्तो महाराज वासुदेवेन पाण्डवः ।
						मनसा पूजयामास भूरिश्रवसमाहवे ॥
					 
					
						विकर्षन्सात्वतां श्रेष्ठं क्रीडमान इवाहवे ।
						स हर्षयति मां भूयः कुरूणां नन्दिवर्धनः ॥
					 
					
						प्रवरं वृष्णिवीराणां यन्निहन्त्येष सात्यकिम् ।
						महाद्विपमिवारण्ये कर्षन्निव हरिर्भृशम् ॥
					 
					
						एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम् ।
						`अयुध्यतारिभिर्वीरस्तं च सम्प्रेक्षते मुहुः' ॥
					 
					
						अथ कोशाद्विनिष्कृष्य खङ्गं भूरिश्रवाः शितम् ।
							मूर्धजेषु च जग्राह पदा चोरस्याताडयत् ।
						
						`आक्रम्य चाप्यथोद्यम्य सहासिं सुभुजो भुजम् ॥
						
					 
					
						शुशुभे स भुजस्तस्य तपनीयविभूषणः ।
						मध्ये रथसमूहस्य इन्द्रध्वज इवोच्छ्रितः ॥
					 
					
						हाहाकृतमभूत्सर्वं पाण्डवानां महद्बलम् ।
						तावकाश्च मुदा युक्ताः सिंहनादं विचुक्रुशुः ॥
					 
					
						निमीलिताक्षास्त्वभवञ्जनाः सङ्ग्रामभीरवः ।
						तथा भूरिश्रवोग्रस्ते सात्वते नष्टविक्रमे ॥
					 
					
						वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ।
						सैन्धवे सक्तदृष्टित्वान्न तं पश्यामि माधवम् ॥
					 
					
						एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ।
							मम शिष्यो ममार्थाय युध्यते मम शत्रुभिः ।
						
						तं कृष्ण मोक्षयिष्यामि दावात्सिंहशिशुं यथा' ॥
						
						सञ्जय उवाच । 
					 
					
						इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः ।
						ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत् ॥
					 
					
						पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता ।
						सखङ्गं यज्ञशीलस्य बाहुं दक्षिणमच्छिनत् ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे
						द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥ 
					 5-142-2 उतात्यर्थम् ॥ 5-142-16 शाश्वतीः समाः सर्वकालम् ।
						तुरवधारणे । नित्यमेव असौ हन्यात् । जय एव तस्येत्यर्थः ॥ 5-142-29
						ब्रह्मलोकपुरस्कृतौ ब्राह्मणसमूह सत्कृतौ ॥ 5-142-45 भुजाघातो भुजस्फोटः ।
						निग्रहो हस्तधारणम् । प्रग्रहो गलहस्तकः ॥ 5-142-47
						भुजयोक्त्रावबन्धैर्बाहुपाशवेष्टनैः । अवघातनैस्ताडनैः ॥ 5-142-48 पादशब्दः
						प्रत्येकं सम्बध्यते । पादावकर्षैश्चरणावकर्षणैः । पादसन्धानैश्चरणच्छन्दितकैः ।
						तोमरैरतिस्फोटनैः । अङ्कुशैरवलुञ्चनैः । पादोदरविबन्धैः पादाभ्यामुदरक्रोडीकरणैः ।
						उद्भ्रमणैः परिवर्तनैः ॥ 5-142-49 गतैर्गमनैः प्रत्यागतैरावर्तनैः ।
						आक्षेपैरास्फालनैः । पातनैर्भूमिप्रापणैः उत्थानैः उत्पतनैः । सम्प्लुतैः
						विष्फारानुबन्धैः ॥ 5-142-55 समर नुरूपम् ॥ 5-142-56 अभ्याहनदास्फालितवान् ॥ 5-142-142 द्विचत्वारिशदधिकशततमोऽध्यायः ॥ 
					
					
					
					
					श्रीः