अध्यायः 098
पार्थाय धर्मानुवादकं कर्णंम्प्रति कृष्णेन तत्कृतदुष्कृतानुस्मारणपूर्वकं मर्मोद्धाटनम् ॥ 1 ॥ कर्णेन स्वबाणाहतिनिर्विण्णेऽर्जुने तदन्तरे रथादवरुह्य तच्चक्रोद्धरणोद्यमः ॥ 2 ॥ तदन्तरे कृष्णचोदनया पार्थेन कर्णशिरश्छेदः ॥ 3 ॥
सञ्जय उवाच ।
अथाब्रवीद्वासुदेवो महात्मा
राधेय दिष्ट्या स्मरसीह धर्मम् ।
`धर्मे हि बद्धा सततं हि पार्था--
स्तेभ्यस्ततो वृद्धिसौ ददाति ॥
धर्मादपेताः परिपन्थिनस्ते
तस्माद्गता वै कुरवो विनाशम्' ।
प्रायेण नीचा व्यसनेषु मग्ना
निन्दन्ति दैवं न तु दुष्कृतं स्वम् ॥
कृष्णां सभां कर्ण यदेकवस्त्रा--
मानीतवांस्त्वं च सुयोधनश्च ।
दुःशासनः शकुनिः सौबलश्च ।
धर्मस्तदा ते रुचितो न कस्मात् ॥
यदा सभायां राजानमनक्षज्ञं युधिष्ठिरम् ।
आनीय जितवन्तो वै क्व ते धर्मस्तदा गतः ॥
वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे ।
न प्रयच्छसि यद्राज्यं क्व ते धर्मस्तदा गतः ॥
यद्भीमसेनं सर्पैश्च विषयुक्तैश्च भोजनैः ।
आचरत्त्वन्मते राजा क्व ते धर्मस्तदा गतः ॥
यद्वारणावते पार्थान्सुप्ताञ्जतुगृहे तदा ।
हन्तुकामास्तदा यूयं क्व ते धर्मस्तदा गतः ॥
यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् ।
सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ॥
यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम् ।
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः ॥
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं वृणीष्वेति वदंस्त्वं गजगामिनीम् ।
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः ॥
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवान् ।
यदा शकुनिमाश्रित्य क्व ते धर्मस्तदा गतः ॥
यदाऽभिमन्युं बहवो युद्धे जघ्नुर्महारथाः ।
परिवार्य रणे बालं क्व ते धर्मस्तदा गतः ॥
[यद्येष धर्मस्तत्र न विद्यते हि
किं सर्वथा तालुविशोषणेन ।
अद्येह धर्म्याणि विधत्स्व सूत
तथापि जीवन्न विमोक्ष्यसे हि ॥
नलो ह्यक्षैर्निर्जितः पुष्करेण
पुनर्यशो राज्यमवाप वीर्यात् ।
प्राप्तास्तथा पाण्डवा बाहुवीर्या--
त्सर्वैः समेताः परिवृत्तलोभाः ॥
निहत्य शत्रून्समरे प्रवृद्धा--
न्ससोमका राज्यमवाप्नुयुस्ते ।
तथा गता धार्तराष्ट्रा विनाशं
धर्माभिगुप्तैः सततं नृसिंहैः] ॥
सञ्जय उवाच ।
एवमुक्तस्तदा कर्णो वासुदेवेन भारत ।
लज्जयावनतो भूत्वा नोत्तरं किञ्चिदुक्तवान् ॥
क्रोधात्प्रस्फुरमाणौष्ठो धनुरुद्यम्य भारत ।
योधयामास वै पार्थं महावेगपराक्रमः ॥
ततोऽब्रवीद्वासुदेवः फल्गुनं पुरुषर्षभम् ।
दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल ॥
एवमुक्तस्तु देवेन क्रोधमागात्तदाऽर्जुनः ।
मन्युमभ्याविशद्धोरं स्मृत्वा तत्तु धनञ्जयः ॥
तस्य क्रुद्धस्य सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः ।
प्रादुरासंस्तदा राजंस्तदद्भुतमिवाभवत् ॥
तत्समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम् ।
अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ॥
ब्रह्मास्त्रेणव तं पार्थो कवर्ष शरवृष्टिभिः ।
तदस्त्रमस्त्रेणावार्य प्रजहार च पाण्डवः ॥
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः ।
मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल तेजसा ॥
वारुणेन ततः कर्णः शमयामास पावक्रम् ।
जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ॥
पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान् ।
अपोवाह तदाऽभ्राणि राधेयस्य प्रपश्यतः ॥
[ततः शरं महाघोरं ज्वलन्तिमिव पावकम् ।
आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसया ॥
योज्यमाने ततस्तस्मिन्बाणे धनुषि पूजिते ।
चचाल पृथिवी राजन्सशैलवनकानना ॥
ववौ सशर्करो वायुर्दिशश्च रजसा वृताः ।
हाहाकारश्च संवज्ञे सुराणां दिवि भारत ॥
तमिगुं सन्धितं दृष्ट्वा सूतपुत्रेण मारिष ।
विषादं परमं जग्मुः पाण्डवा दीनचेतसः ॥
स सायकः कर्णभुजप्रमुक्तः
शक्राशनिग्रख्यरुचिः शिताग्रः ।
मुलान्तरं प्राप्य धनञ्जयस्य
विवेश वल्मीकमिवोरमोत्तमः ॥
स राढविद्धः समरे महात्मा
विधूर्णमानः श्लथहस्तगाण्डिवः ।
चचाल वीभत्सुरमित्रमर्दनः
क्षितेः प्रकम्पे च यथाऽचलोत्तमः ॥
तदन्तरं प्राप्य वृषो महारथो
रथाङ्गसुर्वीगतमुज्जिहीर्षुः ।
रथादवप्लुत्य निगृह्य दोर्भ्यां
शशाक दैवान्न महाबलोऽपि ॥
ततः किरीटि प्रतिलभ्य संज्ञां
जग्राह बाणं यमदण्डकल्पम् ।
ततोऽर्जुनः प्राञ्जलिकं महात्मा
ततोऽब्रवीद्वासुदेवोऽपि पार्थम् ॥
छिन्ध्यस्य मूर्धानमरेः शरेण
न यावदारोहति वै रथं वृषः ।
तथैव सम्पूज्य स तद्वचः प्रभो--
स्ततः शरं प्रज्वलितं प्रगृह्य ।
जघान कक्षाममलार्कवर्णां
महारथे रथचक्रे विमग्ने ॥
तं हस्तिकक्षाप्रवरं सुकेतुं
सुवर्णमुक्तामणिवज्रजुष्टम् ।
कलाप्रकृष्टोत्तमशिल्पियत्नैः
कृतं सुरूपं तपनीयचित्रम् ॥
जयास्पदं तव सैन्यस्य नित्य---
ममित्रवित्रासनमीड्यरूपम् ।
विख्यातमादित्यसुतस्य लोके
त्विषा समं पावकभानुचन्द्रैः ॥
ततः क्षुरप्रेण सुसंशितेन
सुवर्णपुङ्खेन हुताग्निवर्चसा ।
श्रिया ज्वलन्तं ध्वजमुन्ममाथ
महारथस्याधिरथेः किरीटी ॥
यशश्च दर्पश्च तथा प्रियाणि
सर्वाणि कार्याणि च तेन केतुना ।
साकं कुरूणां हृदयानि चापतन्
बभूव हाहेति च निःस्वनो महान् ॥
द्वष्ट्वा ध्वजं पातितमाशुकारिणा
कुरुप्रवीरेण निकृत्तमाहवे ।
नाशंसिरे सूतपुत्रस्य सर्वे
जयं तदा भारत ये त्वदीयाः ॥
अथ त्वरन्कर्णवधाय पार्थो
महेद्रवज्रानलदण्डसन्निभम् ।
आदत्त चाथाञ्जलिकं निषङ्गा--
त्सहस्ररश्मेरिव रश्मिमुत्तमम् ॥
मर्मच्छिदं शोणितमांसदिग्धं
वैश्वानरार्कप्रतिमं महार्हम् ।
नराश्वनागासुहरं त्र्यरत्निं
षड्वाजमञ्जोगतिमुग्रवेगम् ॥
सहस्रनेत्राशनितुल्यवीर्यं
कालानलं व्यात्तमिवातिघोरम् ।
पिनाकनारायणचक्रसन्निभं
भयङ्करं प्राणभृतां विनाशनम् ॥
जग्राह पार्थः स शरं प्रहृष्टो
यो देवसङ्घैरपि दुर्निवार्यः ।
सम्पूजितो यः सततं महात्मा
देवासुरान्यो विजयेन्महेषुः ॥
तं वै प्रमृष्टं प्रसमीक्ष्य युद्धे
चचाल सर्वं सचराचरं जगत् ।
कृत्स्नं जगत्स्वस्त्यृषयोऽभिचक्रु--
स्तमुद्यतं प्रेक्ष्य महाहवेषुम् ॥
ततस्तु तं वै शरमप्रमेयं
गाण्डीवधन्वा धनुषि व्ययोजयत् ।
युक्त्वा महास्त्रेण परेण चापं
विकृष्य गाण्डीवमुवाच सत्वरम् ॥
अयं हास्त्रप्रहितो महाशरः
शरीरहृच्चासुहरश्च दुर्हृदः ।
तपोऽस्ति तप्तं गुरवश्च तोषिता
मया यदीष्टं सुहुतं यदि श्रुतम् ॥
अनेन सत्येन निहन्त्वयं शरः
सुसंहितः कर्णमरिं ममोर्जितम् ।
इत्यूचिवांस्तं प्रमुमोच बाणं
धनञ्जयः कर्णवधाय घोरम् ॥
कृत्या ह्यथर्वाङ्गिरसी प्रचोदिता
यथा तथा त्वं जहि शात्रवं मम ।
ब्रुवन्किरीटी तमतिप्रहृष्टो--
ऽसृजद्देवानां जयहेतुं महेषुम् ॥
जिघांसुरर्केन्दुसमप्रभावः
कर्णं वशी पाण्डवः क्षिप्रकारी ।
ततो विमुक्तो बलिना महेषुः
प्रज्वालयामास नभो दिशश्च ॥
सैन्यान्यनेकानि च विप्रमोह्य
गाण्डीवमुक्तेन ततो महात्मा ।
तेनार्जुनस्तन्महनीयमस्य
शिरोऽहरत्सूतपुत्रस्य राजन् ॥
शरोत्तमेनाञ्जलिकेन राजं--
स्तदा महास्त्रप्रतिमन्त्रितेन ।
पार्थोऽपराह्णे शिर उच्चकर्त
वैकर्तनस्याथ महेन्द्रसूनुः ।
छिन्नं पपाताञ्जलिकेन तूर्णं
कायश्च पश्चाद्धरणीं जगाम ॥
तदुद्यतादित्यसमानतेजसं
शरन्नभोमध्यगभास्करोपमम् ।
वराङ्गमुर्व्यामपतच्चमुमूखे
दिवाकरोऽस्तादिव रक्तमण्डलः ॥
ततोऽस्य देहं सततं सुखैधितं
सुरूपमत्यर्थसुखं सुगन्धि च ।
परेण कृच्छ्रेण शिरः समत्यज--
द्गृहं महर्धीन्निवसन्निवेश्वरः ॥
शरैर्विभिन्नं व्यसु तत्सुवर्चसः
पपात कर्णस्य शरीमुच्छ्रितम् ।
स्रवद्व्रणं गैरिकतोयविस्रवं
गिरेर्यथा वज्रहतं महाशिरः ॥
देहाच्च कर्णस्य निपातितस्य
तेजः सूर्यं खं वितत्याविवेश ।
तदद्भुतं सर्वमनुष्ययोधाः
संदृष्टवन्तो निहते स्म कर्णे ॥
ततः शङ्खान्पाण्डवा दध्मुरुच्चै--
र्दृष्ट्वा कर्णं पातितं फल्गुनेन ।
तथैव कृष्णश्च धनञ्जयश्च
हष्टौ यमौ दध्मतुर्वारिजातौ ॥
तं सोमकाः प्रेक्ष्य हतं शयानं
सैन्यैः सार्धं सिंहनादान्प्रचक्रुः ।
तूर्याणि सञ्जघ्नुरतीव हृष्टा
वासांसि चैवादुधुवुर्भुजांश्च ॥
संवर्धयन्तश्च नरेन्द्र योधाः
पार्थं समाजग्मुरतीव हृष्टाः ।
बलान्विताश्चापरे ह्यप्यनृत्य--
न्नन्योन्यमाश्लिष्य नदन्त ऊचुः ॥
दृष्ट्वा तु कर्णं भुवि वा विपन्नं
कृत्तं रथात्सायकैरर्जुनस्य ।
महानिलेनाद्रिमिवापविद्वं
यज्ञावसानेऽग्निमिव प्रशान्तम् ॥
तदाननं सूर्यसुतस्य राज--
न्विभ्राजते पद्मिवावनालम् ।
रराज कर्णस्य शिरो निकृत्त--
मस्तंगतं भास्करस्येव बिम्बम् ॥
शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः ।
रराज देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ॥
प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः ।
बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ॥
अस्तं गच्छन्यथाऽदित्यः प्रभामादाय गच्छति ।
तथा जीवितमाहाय कर्णस्येषुर्जगाम सः ॥
अपराह्णेऽपराह्णस्य सूतपुत्रस्य मारिष ।
छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ॥
उपर्युपरि सैन्यानां विनिघ्नन्नितराञ्जनान् ।
शिरः कर्णस्य सोऽत्सेधमिषुः सोप्यहरद्द्रुतम् ॥
कर्णं तु शूरं पतितं पृथिव्यां
शराचितं शोणितदिग्धगात्रम् ।
दृष्ट्वा शयानं भुवि मद्रराज--
श्छिन्नध्वजेनाथ ययौ रथेन ॥
हते कर्णे कुरवः प्राद्रवन्त
भयार्दिता गाढविद्धाश्च सङ्ख्ये ।
अवेक्षमाणा मुहुरर्जुनस्य
ध्वजं महान्तं वपुषा ज्वलन्तम् ॥
तच्छिरो भरतश्रेष्ठ शोभयामास मेदिनीम् ।
यदृच्छयेव पतितं मण्डलं चाण्डदीधितेः ॥
तं दृष्ट्वा समरविमर्द (बद्ध) लब्धनिद्रं
दष्टोष्ठं रुधिरपीरतकातराक्षम् ।
राधेयं रथवरपृष्ठसन्निषण्णं
हीनांशुर्दिवसकरो मुहूर्तमासीत् ॥
निःशब्दतूर्यं हतयोधमुख्यं
प्रशान्तदर्पं धृतराष्ट्रसैन्यम् ।
न शोभते सूर्यसुतेन हीनं
वृन्दं ग्रहाणामिव चन्द्रहीनम् ॥
सहस्रनेत्रप्रतिमानकर्मणः
सहस्रपत्रप्रतिमाननं शुभम् ।
सहस्ररश्मिर्दिवसक्षये यथा
तथाऽपतत्कर्णशिरो वसुन्धराम् ॥
व्यूढोरस्कं कमलवदनं तप्तहेमावभासं
कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम् ।
पांसुग्रस्तं मलिनमसकृत्पुत्रमन्वीक्षमाणो
मन्दम्मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टनवतितमोऽध्यायः ॥ 98 ॥
8-98-64 अपराह्णे दिवसस्य पश्चिमे भागे । अपरं चरमम् अहः मरणदिनं यस्य ॥ 8-98-98 अष्टनवतितमोऽध्यायः ॥
श्रीः