अध्यायः 048
					 कृष्णेन युधिष्ठिरंप्रति परशुरामचरितकथनम् ॥ 1 ॥ 
					
					
						शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः ।
						महर्षीणां कथयतां कारणं तस्य जन्म च ॥
					 
					
						यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः ।
						उद्भूता राजवंशेषु ये भूयो भारते हताः ॥
					 
					
						जह्नोरजस्तु तनयो बलाकाश्चस्तु तत्सुतः ।
						कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते ॥
					 
					
						अग्र्यं तपः समातिष्ठत्सहस्राक्षसमो भुवि ।
						पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ॥
					 
					
						तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ।
						समर्थं पुत्रजनने स्वयमेवैत्य भारत ॥
					 
					
						पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः ।
						गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥
					 
					
						तस्य कन्याऽभवद्राजन्नाम्ना सत्यवती प्रभो ।
						तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः ॥
					 
					
						ततस्तया हि कौन्तेय भार्गवः कुरुनदनः ।
						पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च ॥
					 
					
						आहूय चाह तां भार्यामृचीको भार्गवस्तदा ।
						उपयोज्यश्चरुरयं त्वया मात्राऽप्ययं तव ॥
					 
					
						तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ।
						अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥
					 
					
						तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम् ।
						तपोन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति ॥
					 
					
						इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः ।
						तपस्यभिरतः श्रीमाञ्जगामारण्यमेव हि ॥
					 
					
						एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः ।
						गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति ॥
					 
					
						चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा ।
						भर्त्रा दत्तं प्रसन्नेन मात्रे हृष्टा न्यवेदयत् ॥
					 
					
						माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ ।
						तस्याश्ररुमथाज्ञातमात्मसंस्थं चकार ह ॥
					 
					
						अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा ।
						धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥
					 
					
						तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन भारत ।
						अब्रवीद्भृगुशार्दूलः स्वां भार्यां देवरूपिणीम् ॥
					 
					
						मात्राऽसि व्यंसिता भद्रे चरुव्यत्यासहेतुना ।
							तस्माज्जनिष्यते पुत्रः क्रूरकर्माऽत्यमर्षणः ।
						
						`जनयिष्यति माता ते ब्रह्मभूतं तपोधनम् ॥' 
					 
					
						विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम् ।
						क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम् ॥
					 
					
						विपर्ययेण ते भद्रे नैतदेवं भविष्यति ।
						मातुस्ते ब्राह्मणो भूयात्तव च क्षत्रियः सुतः ॥
					 
					
						सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।
						पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् ॥
					 
					
						नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः ।
						ब्राह्मणापशदं पुत्रं प्राप्स्यसीति हि मां प्रभो ॥
						ऋचीक उवाच । 
					 
					
						नैष संकल्पितः कामो मया भद्रे तथा त्वयि ।
						उग्रकर्मा भवेत्पुत्रश्चरुव्यत्यासहेतुना ॥
						सत्यवत्युवाच । 
					 
					
						इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ।
						शमात्मकमृजुं पुत्रं दातुमर्हसि मे प्रभो ॥
						ऋचीक उवाच । 
					 
					
						नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः ।
						किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ॥
					 
					
						[दृष्टमेतत्पुरा भद्रे ज्ञातं च तपसा मया ।
							ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत् ॥]
						
						सत्यवत्युवाच । 
					 
					
						काममेवं भवेत्पौत्रो मामैवं तनयः प्रभो ।
						शमात्मकमृजुं पुत्रं लभेयं जपतां वर ॥
						ऋचीक उवाच । 
					 
					
						पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि ।
						यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति ॥
						वासुदेव उवाच । 
					 
					
						ततः सत्यवती पुत्रं जनयामास भार्गवम् ।
						तपस्यभिरतं शान्तं जमदग्निं यतव्रतम् ॥
					 
					
						विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः ।
						प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् ॥
					 
					
						ऋचीको जनयामास जमदग्निं तपोनिधिम् ।
						सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम् ॥
					 
					
						सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
						रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥
					 
					
						[तेषयित्वा महादेवं पर्वते गन्धमादने ।
						अस्त्राणि वरयामास परशुं चातितेजसम् ॥
					 
					
						स तेनाकुण्ठधारेण ज्वलितानलवर्चसा ।
							कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत् ॥]
						
					 
					
						एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली ।
						अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः ॥
					 
					
						दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान् ।
						चक्रवर्ती महातेजा विप्राणामाश्वमेधिके ॥
					 
					
						ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम् ।
						सबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित् ॥
					 
					
						तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना ।
						सहस्त्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये ॥
					 
					
						ग्रामान्पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान् ।
						जज्वाल तस्य वाणेद्धचित्रभानुर्दिधक्षया ॥
					 
					
						स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः ।
						ददाह कार्तवीर्यस्य शैलानपि धरामपि ॥
					 
					
						स शून्यमाश्रमारण्यमापवस्य महात्मनः ।
						ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ॥
					 
					
						आपवस्तं ततो रोषाच्छशापार्जुनमच्युत ।
						दग्धे श्रमे महाबाहो कार्तवीर्येण वीर्यवान् ॥
					 
					
						त्वया न वर्जितं यस्मान्ममेदं हि महद्वनम् ।
						दग्धं तस्माद्रणे रामो बाहूंस्ते च्छेत्स्यतेऽर्जुन ॥
					 
					
						अर्जुनस्तु महातेजा बली नित्यं शमात्मकः ।
							ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत ।
						
						नाचिन्तयत्तदा शापं तेन दत्तं महात्मना ॥
						
					 
					
						तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे ।
						निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा ॥
					 
					
						जमदग्नेस्तु धेन्वास्ते वत्समानिन्युरच्युत ।
						अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः ॥
					 
					
						तन्निमित्तमभूद्युद्धं जामदग्नेर्महात्मनः ।
						ततोऽर्जुनस्य बाहून्स चिच्छेद रुषितोऽनघ ॥
					 
					
						तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ।
						प्रत्यानयत राजेन्द्र तेषामन्तः पुरात्प्रभुः ॥
					 
					
						अर्जुनस्य सुतास्ते तु संभूयाबुद्धयस्तदा ।
							गत्वाऽऽश्रममसंबुद्धा जमदग्नेर्महात्मनः ।
						
						अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप ॥
						
					 
					
						समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः ।
						`प्रत्यक्षं राममातुश्च तथैवाश्रमवासिनाम् ॥
					 
					
						श्रुत्वा रामस्तमर्थं च क्रुद्धः कालानलोपमः ।
						धनुर्वेदेऽद्वितीयो हि दिव्यास्त्रैः समलंकृतः ॥
					 
					
						चन्द्रबिम्बार्धसंकाशं परशुं गृह्य भार्गवः ।'
							ततः पितृवधामर्षाद्रामः परममन्युमान् ।
						
						निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत ॥
						
					 
					
						ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् ।
						विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः ॥
					 
					
						स हैहयसहस्राणि हत्वा परममन्युमान् ।
						महीं सागरपर्यन्तां चकार रुधिरोक्षिताम् ॥
					 
					
						स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् ।
						कृपया परयाऽऽविष्टो वनमेव जगाम ह ॥
					 
					
						ततो वर्षसहस्रेषु समतीतेषु केषुचित् ।
						कोपं संप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः ॥
					 
					
						विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः ।
						परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि ॥
					 
					
						ये ते ययातिपतने यज्ञे सन्तः समागताः ।
						प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते ॥
					 
					
						मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि ।
						भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः ॥
					 
					
						सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता ।
						परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः ॥
					 
					
						ततो ये क्षत्रिया राजञ्शतशस्तेन वर्जिताः ।
						ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् ॥
					 
					
						स पुनस्ताञ्जघानाशु बालानपि नराधिप ।
						गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा ॥
					 
					
						जातंजातं स गर्भं तु पुनरेव जघान ह ।
						अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः ॥
					 
					
						त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।
						दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः ॥
					 
					
						स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः ।
						स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत् ॥
					 
					
						गच्छ पारं समुद्रस्य दक्षिणस्य महामुने ।
						न ते मद्विषये राम वस्तव्यमिह कर्हिचित् ॥
					 
					
						`पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया ।
							पुनरस्याः पृथिव्या हि दत्त्वा दातुमनीश्वरः ॥'
						
					 
					
						ततः शूर्पाकरं देशं सागरस्तस्य निर्ममे ।
						संत्रासाज्जामदग्न्यस्य सोऽपरान्तमहीतलम् ॥
					 
					
						कश्यपस्तां महाराज प्रतिगृह्य वसुंधराम् ।
						कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद्वनम् ॥
					 
					
						ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः ।
						अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ॥
					 
					
						अराजके जीवलोके दुर्बला बलवत्तरैः ।
						वध्यन्ते न हि वित्तेषु प्रभुत्वं कस्यचित्तदा ॥
					 
					
						`ब्राह्मणाः क्षत्रिया वैश्याः शृद्राश्चोत्पथगामिनः ।
						परस्परं समाश्रित्य घातयन्त्यपथस्थिताः ॥
					 
					
						स्वधर्मं ब्राह्मणास्त्यक्त्वा पाषण़्डत्वं समाश्रिताः ।
						चौरिकानृतमायाश्च सर्वे चैव प्रकुर्वते ॥
					 
					
						स्वधर्मस्थान्द्विजान्हत्वा तथाऽऽश्रमनिवासिनः ।
						वैश्याः सत्पथसंस्थाश्च शूद्रा ये चैव धार्मिकाः ॥
					 
					
						तान्सर्वान्घातयन्ति स्म दुराचाराः सुनिर्भयाः ।
						यज्ञाध्ययनशीलांश्च आश्रमस्थांस्तपस्विनिः ॥
					 
					
						गोबालवृद्धनारीणां नाशं कुर्वन्ति चापरे ।
						आन्वीक्षकी त्रयी वार्ता न च नीतिः प्रवर्तते ॥
					 
					
						व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः ।
							अधरोत्तरापचारेण म्लेच्छभूताश्च सर्वशः ॥ '
						
					 
					
						ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः ।
							विपर्ययेण तेनाशु प्रविवेश पसातलम् ।
						
						अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः ॥
						
					 
					
						तां दृष्ट्वा द्रवतीं तत्र संत्रासात्स महामनाः ।
							ऊरुणा धारयामास कश्यपः पृथिवीं ततः ।
						
						निमज्जन्तीं ततो राजंस्तेनोर्वीति मही स्मृता ॥
						
					 
					
						रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा ।
						प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः ॥
						पृथिव्युवाच । 
					 
					
						सन्ति ब्रह्मन्मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः ।
						हैहयानां कुले जातास्ते संरक्षन्तु मां मुने ॥
					 
					
						अस्ति पौरवदायादो विदूरथसुतः प्रभो ।
						ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते ॥
					 
					
						तथाऽनुकम्पमानेन यज्वनाथामितौजसा ।
						पराशरेण दायादः सौदासस्याभिरक्षितः ॥
					 
					
						सर्वकर्माणि कुरुते शूद्रवत्तस्य स द्विजः ।
						सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ॥
					 
					
						शिबिपुत्रो महातेजा गोपतिर्नाम नामतः ।
						वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने ॥
					 
					
						प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः ।
						वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ॥
					 
					
						दधिवाहनपुत्रस्तु पौत्रो दिविरथस्य च ।
						अङ्गः स गौतमेनासीद्गङ्गाकूलेऽभिरक्षितः ॥
					 
					
						बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः ।
						गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः ॥
					 
					
						मरुत्तस्यान्ववाये च रक्षिताः क्षत्रियात्मजाः ।
						मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ॥
					 
					
						एते क्षत्रियदायादास्तत्रतत्र परिश्रुताः ।
						व्योकारहेमकारादिजातिं नित्यं समाश्रिताः ॥
					 
					
						यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला ।
						एतेषां पितरश्चैव तथैव च पितामहाः ॥
					 
					
						मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ।
						तेषामपचितिश्चैव मया कार्या महामुने ॥
					 
					
						न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम् ।
						वर्तमानेन वर्तेयं तत्क्षिप्रं संविधीयताम् ॥
						वासुदेव उवाच । 
					 
					
						ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः ।
						अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान् ॥
					 
					
						तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः ।
						एवमेतत्पुरावृत्तं यन्मां पृच्छसि पाण़्डव ॥
						वैशंपायन उवाच । 
					 
					
						एवं ब्रुवंस्तं च यदुप्रवीरो
							युधिष्ठिरं धर्मभृतां वरिष्ठम् ।
						
						रथेन तेनाशु ययौ यथाऽर्को
							विशन्प्रभाभिर्भगवांस्त्रिलोकीम् ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥ 
					 12-48-2 भारते भारतसंग्रामे ॥ 12-48-5 स्वयमेवान्वपद्यतेति झ.
						पाठः ॥ 12-48-8 गाधेः पुत्रार्थं तस्याश्च पुत्रार्थं चरुं चरुद्वयम् ॥ 12-48-9
						उपयोज्यः भोज्यः भोक्तव्यः ॥ 12-48-18 व्यंसिता वञ्चिता ॥ 12-48-38 चित्रभानुना
						अग्निना ॥ 12-48-41 आपवस्य वसिष्ठस्य ॥ 12-48-42 श्रमे आश्रमे ॥ 12-48-45
						पितुर्वधे वधनिमित्तमासन् ॥ 12-48-46 निमित्तादिति पाठे शापादेव हेतोः ॥ 12-48-60 स्तृता व्याप्ता । शास्त्रं जग्राह तत्कार्यं क्षत्रियाणामन्तं
						कृतवान् ॥ 12-48-61 वर्जिताः अहृताः ॥ 12-48-68 शूर्पारकमिति झ. पाठः ॥ ।
						12-48-79 धृता तेनोरुणा येन तेनोर्वीति झ. पाठः ॥ 12-48-84 द्विजः
						क्षत्रियोऽपि ॥ 12-48-92 अपचितिः आनृण्यार्थं पूजा ॥ 12-48-93
						नित्यमतिक्रान्तेन धर्मातिक्रमिणा ॥