अध्यायः 244
					 भीष्मेण युधिष्ठिरंप्रति
						मतभेदयुगधर्मभेदादिप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥ 
					
					
						एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।
						ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिद्ध्यति ॥
					 
					
						तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये ।
						किंतु कर्मस्वभावोऽयं ज्ञानं कर्मेति वा पुनः ॥
					 
					
						तत्र वेदविवित्सायां ज्ञानं चेत्पुरुषं प्रति ।
						उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छॄणु ॥
					 
					
						पौरुषं कारणं केचिदाहुः कर्मसु मानवाः ।
						दैवमेके प्रशंसन्ति स्वभावमपरे जनाः ॥
					 
					
						पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।
						त्रयमेतत्पृथग्भूतमविवेकं तु केचन ॥
					 
					
						एतदेवं च नैवं न च चोभे नानुभे तथा ।
						कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः ॥
					 
					
						त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः ।
						तपस्विनः प्रशान्ताश्च सत्वस्थाश्च कृते युगे ॥
					 
					
						अपृथग्दर्शनाः सर्वे ऋक्सामसु यजुःषु च ।
						कामद्वषौ पृथग्दृष्ट्वा तपः कृत उपासते ॥
					 
					
						तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः ।
						तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥
					 
					
						तपसा तदवाप्नोति यद्भूतं सृजते जगत् ।
						तद्भूतश्च ततः सर्वभूतानां भवति प्रभुः ॥
					 
					
						तदुक्तं वेदवादेषु गहनं वेददर्शिभिः ।
						वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते ॥
					 
					
						आरम्भयज्ञाः क्षव्राश्च हविर्यज्ञा विशः स्मृताः ।
						परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः ॥
					 
					
						परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् ।
						कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥
					 
					
						त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा ।
						संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥
					 
					
						द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा ।
						दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल ॥
					 
					
						उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः ।
						गवां भूमेश्च ये चापामोषधीनां च ये रसाः ॥
					 
					
						अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः ।
						विक्रियन्ते स्वधर्माश्च स्थावराणि चराणि च ॥
					 
					
						यथा सर्वाणि भूतानि वृष्टथा तृप्यन्ति प्रावृषि ।
						सृजन्ते सर्वतोऽङ्गानि तथा वेदा युगेयुगे ॥
					 
					
						विहितं कालनानात्वमनादिनिधनं च यत् ।
						कीर्तितं यत्पुरस्तात्ते यतः संयान्ति च प्रजाः ॥
					 
					
						यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः ।
						स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः ॥
					 
					
						सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रियाफलम् ।
						एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
						चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥ 
					 12-244-5 इति क्रमेण मीमांसकस्य दैवज्ञस्य
						शून्यवादिलोकायतयोश्च मतान्युपन्यस्यैतेषांष । विकल्पसमुच्चयावाह पौरुषमिति ।
						पौरुषं दैवं न कर्म दृष्टादृष्टयत्नः । स्वभावमनुसृत्य कर्मकालौ फलदावित्यर्थः ।
						अविवेकं समुच्चयम् । पृथग्भूतमेकमेव प्रधानं नत्वितरावित्यर्थः ॥ 12-244-6
						आर्हतमत आह एतदिति । एवमेतन्न चाप्येवमुभे एवं नचाप्युभे इति ध. पाठः ॥ 12-244-10 सत्यं तपश्च भूतानां सर्वेषां भवति प्रभुरिति थ. पाठः । स, तद्रूपश्च
						सर्वेषां भूतानां भवति प्रभुरिति ध. पाठः ॥ 12-244-21 धर्मः काल इति ध. पाठः ॥