अध्यायः 025
व्यासेन युधिष्ठिरं प्रति सेनजिद्वचनानुवादपूर्वकं राजधर्मकथनम् ॥ 1 ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चविंशोऽध्यायः (*)॥ 25 ॥
12-25-1 कुपिते राज्यकारणात् ॥ 12-25-3 वीरविहीनानां पतिहीनानाम् ॥ 12-25-5 नलभ्यते वीरो हतवीराभिर्वीरपत्नीभिरित्यर्थः । नापि ताभ्यः कश्चित्पतिं दातुं समर्थोऽस्तीत्यर्थः ॥ 12-25-7 नाभूतिकालेष्विति झ.पाठः ॥ 12-25-8 पुष्प्यन्तीति ड. पाठः ॥ 12-25-14 पर्यायः कालगतिः ॥ 12-25-17 अपचितिं प्रतीकारम् ॥ 12-25-18 दुःखेषु शोकजेषु मनस्तापेषु । दुःखानि शिरस्ताडनादीनि । दुःखादेर्द्विगुणीकरणं मूढकार्यमित्यर्थः ॥ 12-25-21 यानि प्रियाणि तान्येव काले दुःखानि भवन्ति । यानि द्वेष्याणि तान्येव सुखानि ॥ 12-25-22 तृष्णया याऽऽर्तिरनवस्थितचित्तता तज्जं दुःखम् । दुःखस्यार्तिर्विनाशस्तज्जं सुखम् ॥ 12-25-25 दुःखमूर्छितः दुःखेन वर्धितः । एकाङ्गमपि सर्पदष्टाङ्गुष्ठवत् त्यजेत् ॥ 12-25-27 केन हेतुना कथं केन प्रकारेण कस्य संबन्धीति ज्ञास्यति ॥ 12-25-31 भवाभवौ ऐश्वर्यानैश्वर्ये ॥ 12-25-33 संत्यक्तात्मा निरहंकारः ॥
* एतदनन्तरं एकोऽध्यायः ध. पाठेऽधिको दृश्यते । 12-25a-1x [वैशंपायन उवाच । 12-25a-1a अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः । 12-25a-1b अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः ॥ 12-25a-2a यदेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति । 12-25a-2b न स्वर्गो न सुखं नार्थो निर्धनस्येति तन्मृषा ॥ 12-25a-3a स्वाध्याययज्ञसंसिद्धा दृश्यन्ते वहवो जनाः । 12-25a-3b तपोरताश्च मुनयो येषां लोकाः सनातनाः ॥ 12-25a-4a ऋषीणां समयं शश्वद्ये रक्षन्ति धनञ्जय । 12-25a-4b आश्रिताः सर्वधर्मज्ञा देवास्तान्ब्राह्मणान्विदुः ॥ 12-25a-5a स्वाध्यायनिष्ठान्हि ऋषीञ्ज्ञाननिष्ठांस्तथाऽपरान् । 12-25a-5b बुद्ध्येथाः संततं चापि धर्मनिष्ठान्धनञ्जय ॥ 12-25a-6a ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव । 12-25a-6b वैखानसानां वचनं यथा नो विदितं प्रभो ॥ 12-25a-7a अजाश्च पृश्नयश्चैव सिकताश्चैव भारत । 12-25a-7b अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः ॥ 12-25a-8a अवाप्यैतानि कर्माणि वेदोक्तानि धनञ्जय । 12-25a-8b दानमध्ययनं यज्ञो निग्रहश्चैव दुर्ग्रहः ॥ 12-25a-9a दक्षिणेन च पन्थानमर्यम्णो ये दिवं गताः । 12-25a-9b एतान्क्रियावतां लोकानुक्तवान्पूर्वमप्यहम् ॥ 12-25a-10a उत्तरेण तु पन्थानं नियमाद्यं प्रपश्यसि । 12-25a-10b एते यागवतां लोका भान्ति पार्थ सनातनाः ॥ 12-25a-11a तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः । 12-25a-11b संतोषो वै स्वर्गतमः संतोषः परमं सुखम् ॥ 12-25a-12a तुष्टेर्न किंचित्परमं सा सम्यक् प्रतितिष्ठति । 12-25a-12b विनीतक्रोधहर्षस्य, सततं सिद्धिरुत्तमा ॥ 12-25a-13a अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना । 12-25a-13b योऽभिप्रेत्याहरेत्कामान्कूर्मोऽङ्गानीव सर्वशः ॥ 12-25a-14a यदा चायं न बिभेति यदा चास्मान्न बिभ्यति । 12-25a-14b यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ 12-25a-15a यदा न भावं कुरुते सर्वभूतेषु पापकम् । 12-25a-15b कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ 12-25a-16a विनीतमानमोहश्च बहुसङ्गविवर्जितः । 12-25a-16b तदात्मज्योतिषः साधो निर्वाणमुपपद्यते ॥ 12-25a-17a इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः । 12-25a-17b धर्ममन्ये वृत्तमन्ये धनमीहन्ति चापरे ॥ 12-25a-18a धनहेतोर्य ईहेत तस्यानीहा गरीयसी । 12-25a-18b भूयान्दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः ॥ 12-25a-19a प्रत्यक्षमनुपश्यामि त्वमपि द्रष्टुमर्हसि । 12-25a-19b वर्जनं वर्जनीयानामीहामनेन दुष्करम् ॥ 12-25a-20a ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम् । 12-25a-20b द्रुह्यतः प्रैति तत्प्राहुः प्रतिकूलं यथातथम् ॥ 12-25a-21a यस्तु संभिन्नवृत्तः स्याद्वीतशोकभयो नरः । 12-25a-21b अल्पेन तृषितो द्रुह्यन् भ्रूणहत्यां न बुध्यते ॥ 12-25a-22a दुष्यन्त्याददतो भृत्या नित्यं दस्युभयादिव । 12-25a-22b दुर्लभं च धनं प्राप्य भृशं दत्वाऽनुतप्यते ॥ 12-25a-23a अधनः कस्य किं वाच्यो विमुक्तः सर्वशः सुखी । 12-25a-23b देवस्वमुपगृह्यैव धनेन न सुखी भवेत् ॥ 12-25a-24a तत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः । 12-25a-24b त्रयीमुपाश्रितां लोके यज्ञसंस्तरकारिकाम् ॥ 12-25a-25a यज्ञाय सृष्टानि धनानि धात्रा 12-25a-25b यज्ञाय सृष्टः पुरुषो रक्षिता च । 12-25a-25c तस्मात्सर्वं यज्ञ एवोपयोज्यं 12-25a-25d धनं न कामाय हितं प्रशस्तम् ॥ 12-25a-26a एतत्स्वार्थे च कौन्तेय धनं धनवतां वर । 12-25a-26b धाता ददाति मर्त्येभ्यो यज्ञार्थमिति विद्धि तत् ॥ 12-25a-27a तस्माद्वुद्ध्यन्ति पुरुषा न हि तत्कस्यचिद्भुवम् । 12-25a-27b श्रद्दधानस्ततो लोको दद्याच्चैव यजेत च ॥ 12-25a-28a लब्धस्य त्यागमित्याहुर्न भोगं न च संक्षयम् । 12-25a-28b तस्य किं संचयेनार्थः कार्ये ज्यायसि तिष्ठति ॥ 12-25a-29a ये स्वधर्मादपेतेभ्यः प्रयच्छन्त्यल्पबुद्धयः । 12-25a-29b शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः ॥ 12-25a-30a अनर्हते यद्ददाति न ददाति यदर्हते । 12-25a-30b अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥ 12-25a-31a लब्धानामपि वित्तानां बोद्धव्यौ द्वावतिक्रमौ । 12-25a-31b अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥]
12-25a-4 समयं अध्ययनसंप्रदायस्याविच्छेदं आश्रिता आश्रमिणः । ब्रह्मचारिण इत्यर्थः ॥ 12-25a-6 कार्याणि राजकार्याणि । प्रतिष्ठाप्यानि तद्वचसानुष्ठेयानीत्यर्थः । वैखानसानां वानप्रस्थानाम् ॥ 12-25a-7 अजादयो वालखिल्यवदृषीणां गणविशेषाः ॥ 12-25a-9 एतान् द्युरूपान् । क्रियावतां कर्मिणाम् ॥ 12-25a-10 उत्तरेण उत्तरतः स्थितम् ॥ 12-25a-12 सा तुष्टिः परमवैराग्याभिधा उत्तमा सिद्धिः । विनीतक्रोधहर्षस्य क्रोधादिजयिनः सम्यक् प्रतितिष्ठति इतरस्य तु नेत्यर्थः ॥ 12-25a-16 आत्मज्योतिषः आत्मज्ञस्य । निर्वाणं मोक्षः ॥ 12-25a-17 वृत्तं शीलम् । ईहन्ति ईहन्ते ॥ 12-25a-18 धनहेतोः धर्माय वित्तस्यार्जने इति शेषः । तदाश्रयो धर्मो यज्ञादिस्तस्मिन्नपि भूयान्दोषोऽस्ति ॥ 12-25a-19 ईहमानेन धनार्थिना ॥ 12-25a-20 सम्यक्त्वं साधुकर्म द्रुह्यतः । द्रोहयुक्तानेव तद्धनं प्रेति न त्वद्रोहानिति प्राहुः । हिंसां विना धनप्राप्तिर्नास्तीत्यर्थः । प्राप्तमपि यथायथं सर्वथा प्रतिकूलं नानाभयहेतुत्वात् ॥ 12-25a-21 अल्पार्थेऽपि ब्रह्महत्यामर्जयतीत्यर्थः ॥ 12-25a-22 दुर्लभं धनं प्राप्यानुकूलेभ्योऽपि भृत्येभ्यो दत्त्वा दस्युभयादिव भृशमनुतप्यत इति संबन्धः । वित्तव्यये महद्दुःखं भवतीत्यर्थः ॥ 12-25a-23 देवस्वं तथा त्रैवार्षिकाधिकान्नो यः सहि सोमं पिबेद्द्विजः । प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेदिति स्मृतेरल्पमपि संचितं धनं देवस्वमेव । तदप्युपसंगृह्य देवेभ्योऽदत्त्वैव न तेन तावतापि सुखी भवेत्किं तु लाभाल्लोभः प्रवर्तत इतिन्यायेन तृष्णाधिक्याद्दुःखमेवानुभवतीत्यर्थः ॥ 12-25a-24 गाथां वैदिकजने यज्ञप्रतिष्ठाकरीम् ॥ 12-25a-26 चाद्यज्ञार्थेऽपि ॥ 12-25a-28 इत्याहुः प्रशस्तमाहुरित्यर्थः । कार्ये त्यागरूपे ॥