अध्यायः 218
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण पार्वतींप्रति प्राणिनां शुभाशुभकर्मानुसारेण शुभाशुभफलप्राप्तिकथनम् ॥ 1 ॥
उमोवाच ।
भगवन्देवदेवेश त्र्यक्ष भो वृषभध्वज ।
मानुषास्त्रिविधा देव दृश्यन्ते सततं विभो ॥
आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः ।
अपरे यत्नपूर्वं तु लभन्ते भोगसङ्ग्रहम् ॥
अपरे यतमानाश्च न लभन्ते तु किञ्चन ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ॥
ये लोके मानुषा देवि दानधर्मपरायणाः ।
पात्राणि विधिवज्ज्ञात्वा दूरतोप्यनुमानतः ॥
अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च ।
दानादि चेङ्गितैरेव तैरविज्ञातमेव वा ॥
पुनर्जन्मनि ते देवि तादृशाः शोभना नराः ।
अयत्नतस्तु तान्येव फलानि प्राप्नुवन्त्युत ॥
आसीना एव भुञ्जन्ते भोगान्सुकृतभोगिनः ॥
अपरे ये च दानानि ददत्येव प्रयाचिताः ।
यदायदाऽर्थिने दत्त्वा पुनर्दानं च याचिताः ॥
तावत्कालं ततो देवि पुनर्जन्मनि ते नराः ।
यत्नतः श्रमसंयुक्ताः पुनस्तान्प्राप्नुवन्ति च ॥
याचिता अपि केचित्तु अदत्त्वैव कथञ्चन ।
अभ्यसूयापरा मर्त्या लोभोपहतचेतसः ॥
ते पुनर्जन्मनि शुभे यतन्तो बहुधा नराः ।
न प्राप्नुवन्ति मनुजा मार्गन्तस्तेऽपि किञ्चन ॥
नानुप्तं रोहते सस्यं तद्वद्दानफलं विदुः ।
यद्यद्ददाति पुरुषस्तत्तत्प्राप्नोति केवलम् ॥
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥
उमोवाच ।
भगवन्भगनेत्रघ्न केचिद्वार्धकसंयुताः ।
अभोगयोग्यकाले तु भोगांश्चैव धनानि च ॥
लभन्ते स्थविरा भूता भोगैश्वर्यं यतस्ततः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि शृणु तत्वं समाहिता ॥
धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः ।
प्राणान्तकाले सम्प्राप्ते व्याधिभिश्च निपीडिताः ॥
आरभन्ते पुनर्धर्मं दातुं दानानि वा नराः ।
ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः ॥
अतीतयौवने काले स्थविरत्वमुपागताः ।
लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे ॥
एतत्कर्मफलं देवि कालयोगाद्भवत्युत ॥
उमोवाच ।
भोगयुक्ता महादेव केचिद्व्याधिपरिप्लुताः ।
असमर्थाश्च तान्भोक्तं भवन्ति किमु कारणम् ॥
महेश्वर उवाच ।
व्याधियोगपरिक्लिष्टा ये निराशाः स्वजविते ।
आरभन्ते तदा कर्तुं दानानि शुभलक्षणम् ॥
ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्युत ।
असमर्थाश्च तान्भोक्तुं व्याधितास्ते भवन्त्युत ॥
उमोवाच ।
भगवन्देवदेवेश मानुषेष्वेव केचन ।
रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि शृणु तत्वं समाहिता ॥
ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः ।
शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः ॥
अमांसभोजिनश्चैव सदा प्राणिदयायुताः ।
प्रतिकर्मप्रदा वाऽपि वस्त्रदा धर्मकारणात् ।
भूमिशुद्धिकरा वाऽपि कारणादग्निपूजकाः ॥
एवं युक्तसमाचाराः पुनर्जन्मनि ते नराः ।
रूपेण स्पृहणीयास्तु भवन्त्येव न संशयः ॥
उमोवाच ।
विरूपाश्च प्रदृश्यन्ते मानुषेष्वेव केचन ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥
रूपयोगात्पुरा मर्त्या दर्पाहंकारसंयुताः ।
विरूपहासकास्चैव स्तुतिनिन्दादिभिर्भृशम् ॥
परोपतापनाश्चैव मांसादाश्च तथैव च ।
अभ्यसूयापराश्चैव अशुद्धाश्च तथा नराः ॥
एवं युक्तसमाचारा यमलोके सुदण्डिताः ।
कथंचित्प्राप्य मानुष्यं तत्र ते रूपवर्जिताः ।
विरूपाः सम्भवन्त्येव नास्ति तत्र विचारणा ॥
उमोवाच ।
भगवन्देवदेवेश केचित्सौभाग्यसंयुताः ।
रूपभोग्यविहीनाश्च दृश्यन्ते प्रमदाप्रियाः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः ।
स्वदारैरेव संतुष्टा दारेषु समवृत्तयः ॥
दाक्षिण्येनैव वर्तन्ते प्रमदास्वप्रियास्वपि ।
न तु प्रत्यादिशन्त्येव स्त्रीदोषान्गुणसंश्रितान् ।
अन्नपानीयदाः काले नृणां स्वादुप्रदाश्च ये ।
स्वदारवर्तिनश्चैव धृतिमन्तो निरत्ययाः ॥
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने ।
मानुषास्ते भवन्त्येव सततं सुभगा भृशम् ।
अर्थादृतेऽपि ते देवि भवन्ति प्रमदाप्रियाः ॥
उमोवाच ।
दुर्भगाः सम्प्रदृश्यन्ते आढ्या भोगयुता अपि ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ॥
ये पुरा मनुजा देवि स्वदारेष्वनपेक्षया ।
यथेष्टवृत्तयश्चैव निर्लज्जा वीतसम्भ्रमाः ॥
परेषां विप्रियकरा वाङ्मनःकायकर्मभिः ।
निराश्रया निरानन्दाः स्त्रीणां हृदयकोपनाः ॥
एवं युक्तसमाचाराः पनर्जन्मनि ते नराः ।
दुर्भगास्तु भवन्त्येव स्त्रीणां हृदयविप्रियाः ।
नास्ति तेषां रतिसुखं स्वदारेष्वपि किञ्चन ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥
श्रीः