अध्यायः 222
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेणोमांप्रति स्त्रीणां पुंश्चलीत्वादिदोषहेतुभूतदुष्कर्मकथनम् ॥ 1 ॥ तथा प्राणिसाधारण्येन दास्यादिप्रयोजकदुष्कर्मकथनम् ॥ 2 ॥
उमोवाच ।
भगवन्देवदेवेश शूलपाणे वृषध्वज ।
पुंश्चल्य इव या स्त्रीषु नीचवृत्तिरताः स्मृताः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः ।
कामरागसमायुक्ताः पतीनतिचरन्ति वै ॥
प्रतिकूलपरा यास्तु पतीन्प्रति यथा तथा ।
शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारणाः ॥
एवंयुक्तसमाचारा यमलोके सुदण्डिताः ।
यदि वै मानुषं जन्म लभेरंस्तास्तथाविधाः ।
बहुसाधारणा एव पुंश्चल्यश्च भवन्ति ताः ॥
पौश्चल्यं यत्तु तद्वृत्तं स्त्रीणां कष्टतमं स्मृतम् ।
ततःप्रभृति ता देवि पतन्त्येव न संशयः ॥
शोचन्ति चेत्तु तद्वृत्तं मनसा हितमाप्नुयुः ॥
उमोवाच ।
भगवन्देवदेवेश प्रमदा विधवा भृशम् ।
दृश्यन्ते मानुषा लोके सर्वकल्याणवर्जिताः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
याः पुरा मनुजा देवि बुद्धिमोहसमन्विताः ।
कुटुम्बं तत्र वे पत्युर्नाशयन्ति वृथा तथा ॥
विषदाश्चाग्निदाश्चैव पतीन्प्रति सुनिर्दयाः ।
अन्यासां हि पतीन्यान्ति स्वपतिद्वेषकारणात् ॥
एवंयुक्तसमाचारा यमलोके सुदण्डिताः ।
निरयस्थाश्चिरं कालं कथंचित्प्राप्य मानुषम् ।
तत्र ता भोगरहिता विधवास्तु भवन्ति वै ॥
उमोवाच ।
भगवन्प्रमदा लोके पत्यौ ज्ञातिषु सत्सुच ।
लिङ्गिन्यः सम्प्रदृश्यन्ते पाषण्डं मतमाश्रिताः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
याः पुरा भावदोषेणि लोभमोहसमन्विताः ।
परद्रव्यपरा लोभात्परेषां द्रव्यहारकाः ॥
अभ्यसूयापरा यास्तु सपत्नीनां प्रदूषकाः ।
ईर्ष्यापराः कोपनाश्च बन्धूनां विफलाः सदा ॥
एवंयुक्तसमाचाराः पुनर्जन्मनि ताः स्त्रियः ।
अलक्षणसमायुक्ताः पाषण्डं धर्ममाश्रिताः ।
स्त्रियः प्रव्राजशीलाश्च भवन्त्येव न संशयः ॥
उमोवाच ।
भगवन्मानुषाः केचित्कारुवृत्तिसमाश्रिताः ।
प्रदृश्यन्ते मनुष्येषु नीचकर्मरतास्तथा ।
केन कर्मविपाकेन तन्मे शंसितुमर्हति ॥
महेश्वर उवाच ।
ये पुरा मनुजा देवि स्तब्धमानयुता भृशम् ।
दर्पाहङ्कारसंयुक्ताः केवलात्मपरायणाः ॥
तादृशा मानुषा देवि पुनर्जन्मनि शोभने ।
कात्वो नटगन्धर्वाः सम्भवन्ति यथा तथा ॥
नापिता बन्दिनश्चैव तथा वैतालिकाः प्रिये ।
एवंभूतास्त्वधोवृत्तिं जीवन्त्याश्रित्य मानवाः ॥
परप्रसाधनकरास्ते परैः कृतवेतनाः ।
परावमानस्य फलं भुञ्जते पौर्वदैहिकम् ॥
उमोवाच ।
भगवन्देवदेवेश मानुषेष्वेव केचन ।
दासभूताः प्रदृश्यन्ते सर्वकर्मपरा भृशम् ॥
आघातभर्त्सनसहाः पीड्यमानाश्च सर्वशः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥
ये पुरा मनुजा देवि परेषां वित्तहारकाः ।
ऋणवृद्धिकरं कृष्या न्यासदत्तं तथैव च ॥
निक्षेपकारणाद्दत्तपरद्रव्यापहारिणः ।
प्रमादाद्विस्मृतं नष्टं परेषां धनहारकाः ॥
वधबन्धपरिक्लेशैर्दासत्वं कुर्वते परान् ।
तादृशा मरणं प्राप्ता दण्डिता यमशासनैः ॥
कथञ्चित्प्राप्य मानुष्यं तत्र ते देवि सर्वथा ।
दासभूता भविष्यन्ति जन्मप्रभृति मानवाः ॥
तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः ।
आसमाप्तेः स्वपापस्य कुर्वन्तीति विनिश्चयः ॥
पशुभूतास्तथा चान्ये भवन्ति धनहारकाः ।
तत्तथा क्षीयते कर्म तेषां पूर्वापराधजम् ।
अतोऽन्यथा न तच्छक्यं कर्म भोक्तुं सुरासुरैः ॥
किन्तु मोक्षविधिस्तेषां सर्वता तत्प्रसादनम् ।
अयथावन्मोक्षकामः पुनर्जन्मनि चेष्यते ॥
मोक्षकामी यथान्यायं कुर्वन्कर्माणि सर्वशः ।
भर्तुः प्रसादमाकाङ्क्षेदायासान्सर्वथा सहन् ॥
प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तः स्वपापतः ।
तथाभूतान्कर्मकरान्सदा सन्तोषयेत्पतिः ॥
यथार्हं कारयेत्कर्म दण्डकारणतः क्षिपेत् ।
वृद्धान्बालांस्तथा क्षीणान्पालयन्धर्ममाप्नुयात् ॥
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥
श्रीः