अध्यायः 223
अथ दानधर्मपर्व ॥ 1 ॥
परमेश्वरेण पार्वतीप्रति प्राणिनां चण्डालत्वदरिद्रत्वादिप्रापकदुष्कर्मप्रतिपादनम् ॥ 1 ॥
उमोवाच ।
भगवन्मानुषेष्वेव मानुषाः समदर्शनाः ।
						चण्डाला इव दृश्यन्ते स्पर्शमात्रविदूषिताइः ॥
					नीचकर्मरता देव सर्वेषां मलहारकाः ।
							दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः ।
						
						केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
						
						महेश्वर उवाच । 
					तदहं ते प्रवक्ष्यामि तदेकाग्रमनाः शृणु ॥
						
					ये पुरा मनुजा देवि अतिमानयुता भृशम् ।
						आत्मसम्भावनायुक्ताः स्तब्धा दर्पसमन्विताः ॥
					प्रणामं तु न कुर्वन्ति गुरूणामपि पामराः ।
						ये स्वधर्मार्पणं कार्यमतिमानान्न कुर्वते ॥
					परान्संनामयन्त्येव आज्ञयात्मनि ये बलात् ।
							ऋद्धियोगात्परान्नित्यमवमन्यन्ति मानवान् ।
						
						पानपाः सर्वभक्षाश्च परुषाः कटुका नराः ॥
						
					एवंयुक्तसमाचाराक दण्डिता यमशासनैः ।
						कथंचित्प्राप्य मानुष्यं चण्डालाः सम्भवन्ति ते ॥
					नीचकर्मरताश्चैव सर्वेषां मलहारकाः ।
						परेषां वन्दनपरास्ते भवन्त्येव मानिनः ॥
					विरूपाः पापयोनिस्थाः स्पर्शनादिविवर्जिताः ।
							कुवृत्तिमुपजीवन्ति भुत्वा ते रजकादयः ।
						
						पुराऽतिमानदोषात्तु भुञ्जते स्वकृतं फलम् ॥
						
					तानप्यवस्ताकृपणांश्चण्डालानपि बुद्धिमान् ।
							न च निन्देन्नापि कुप्येद्भुञ्जते स्वकृतं फलम् ।
						
						चण्डाला अपि तां जातिं शोचन्तः शुद्धिमाप्नुयुः ॥
						
						उमोवाच । 
					भगवन्मानुषाः केचिदाशापाशशतैर्वृताः ।
						परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने ॥
					द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः ।
						केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
						महेश्वर उवाच । 
					ये पुरा मानुषा देवि ऐश्वर्यस्थानसंयुताः ।
						संवादं तु न कुर्वन्ति परैरैश्वर्यमोहिताः ॥
					द्वाराणि न ददत्येव लोभमोहादिभिर्वृताः ।
						अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः ॥
					सर्वभोगयुता वाऽपि सर्वेषां निष्फला भृशम् ।
						अपि शक्ता न कुर्युस्ते परानुग्रहकारणात् ॥
					निर्दयाश्चैव निर्द्वारा भोगैश्वर्यगतिं प्रति ।
						एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने ॥
					यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः ।
						दुर्गता दुरवस्थाश्च कर्मव्याक्षेपसंयुताः ॥
					अभिधावन्ति ते सर्वे तमर्थमभिवेदिनः ।
						राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः ॥
					कर्म विज्ञापितुं द्रष्टुं न लभन्ते कथञ्चन ।
						प्रवेष्टुमपि ते द्वारं बहिस्तिष्ठन्ति काङ्क्षया ॥
						उमोवाच । 
					भगवन्मानुषाः केचिन्मनुष्येषु बहुष्वपि ।
						सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः ॥
					दृश्यन्ते मानुषाः केचिद्राजचोरोदकादिभिः ।
						केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
						महेश्वर उवाच । 
					ये पुरा मानुषा देवि आसुरं भावमाश्रिताः ।
						परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः ॥
					उत्कोचनपराश्चैव पिशुनाश्च तथाविधाः ।
						परद्रव्यहरा घोराश्चौर्याद्वाऽन्येन कर्मणा ॥
					निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः ।
						नास्तिकाऽनृतभूयिष्ठाः परद्रव्यापहारिणः ॥
					एवंयुक्तसमाचारा दण्डिता यमशासनैः ।
						निरयस्थाश्चिरं कालं तत्र दुःखसमन्विताः ॥
					यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः ।
						तत्रस्थाः प्राप्नुवन्त्येव सहसा द्रव्यवाशनम् ॥
					कष्टं तत्प्राप्नुवन्त्येव कारणाकारणादपि ।
						नाशं विनाशं द्रव्याणामुपघातं च सर्वशः ॥
						उमोवाच । 
					भगवन्मानुषाः केचिद्बान्धवैः सहसा पृथक् ।
						कारणादेव सहसा सर्वेषां प्राणनाशनम् ॥
					शस्त्रेण वाऽन्यथा वाऽपि प्राप्नुवन्ति वधं नराः ।
						केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
						महेश्वर उवाच । 
					ये पुरा मनुजा देवि घोरकर्मरतानृताः ।
						आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशं ॥
					निर्दयाः प्राणिहिंसायां तथा प्राणिविघातकाः ।
							विश्वस्तघातकाश्चैव तथा सुप्तविघातकाः ।
						
						प्रायशोऽनृतभूयिष्ठा नास्तिका मांसभोजनाः ॥
						
					एवंयुक्तसमाचाराः कालधर्मं गताः पुनः ।
						दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ॥
					तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात् ।
							यदि चेन्मानुपं जन्म लभेरंस्ते तथाविधाः ।
						
						तत्र ते प्राप्नुवन्त्येव वधबन्धान्यथा तथा ॥
						
					आढ्या वा दुर्गता वाऽपि भुञ्जते स्वकृतं फलम् ।
						सुप्ता मत्ताश्च विश्वस्तास्तथा ते प्राप्नुवन्त्युत ॥
					प्राणवाधकृतं दुःखं बान्धवैः सहसा पृथक् ।
						पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम् ॥
						उमोवाच । 
					भगवन्मानुषाः केचिद्राजनीतिविशार दैः ।
							दण्ड्यन्ते मानुषे लोके मानुषाः सर्वतोभयाः ।
						
						केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
						
						महेश्वर उवाच । 
					ये पुरा मनुजा देवि मानुषांश्चेतराणि वा ।
							क्लिष्टघातेन निघ्नन्ति प्राणान्प्राणिषु निर्दयाः ।
						
						आसुर घोरकर्माणः क्रूरदण्डवधप्रियाः ॥
						
					ये दण्डयन्त्यदण्ड्यांश्च राजानः कोपमोहिताः ।
						हिंसाहङ्कारपरुषा मांसादा नास्तिकाशुभाः ॥
					केचित्स्त्रीपुरुषघ्नाश्च गुरुघ्नाश्च तथा प्रिये ।
						एवंयुक्तसमाचारा प्राणिधर्मं गताः पुनः ॥
					दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये ।
						पूर्वजन्मकृतं कर्म भुञ्जते तदिह प्रजाः ॥
					इहैव यत्कर्म कृतं तत्परत्र फलत्युत ।
						एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते ॥
					न चर्षीणां न देवानाममृतत्वात्तपोबलात् ।
						तैरेकेन शरीरेण भुज्यते कर्मणः फलम् ॥
					न तथा मानुषाणां स्यादन्तर्धाय भवेद्धि तत् ॥
						
						उमोवाच । 
					किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः ।
						कृतापराधमुद्दिश्य हन्ता हर्ताऽयमित्युत ॥
					पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान् ।
						तैरेव हि शरीरेण भुञ्जन्ते कर्मणां फलम् ॥
					दृश्यन्ते मानुषे लोके तद्भवान्नानुमन्यते ।
						एतन्मे संशयस्थानं तन्मे त्वं छेत्तुमर्हसि ॥
						महेश्वर उवाच । 
					स्थाने संशयितं देवि तत्त्वं शृणु समाहिता ।
						कर्म कर्मफलं चेति युगपद्भुवि नेष्यते ॥
					ये त्वयाऽभिहिता देवि हन्ता हर्ताऽयमित्यपि ।
						तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः ॥
					देवि कर्म कृतं चैषां हेतुर्भवति शासने ।
						अपराधापरेशेन राजा दण्डयति प्रजाः ॥
					इह लोके व्यवस्थार्थं राजभिर्दण्डनं स्मृतम् ।
						उद्वेजनार्थं शेषाणामपराधं तमुद्दिशन् ॥
					पुराकृतफलं दण्डो दण्ड्यमानस्य तद्ध्रुवम् ।
						प्रागेव च मया प्रोक्तं तत्र निःसंशया भव ॥
						उमोवाच । 
					भगवन्भुवि मर्त्यानां दण्डितानां नरेश्वरैः ।
							दण्डेनैव तु तेनेह पापनाशो भवेन्न वा ।
						
					एतन्मया संशयितं तद्भवांश्छेत्तुमर्हति ॥
						
						महेश्वर उवाच ।
						स्थाने संशयितं देवि शृणु तत्वं समाहिता ॥
						
					ये नृपैर्दण्डिता भूमावपराधापदेशतः ।
						यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः ॥
					अदण्डिता वा ये मिथ्या मिथ्या वा दण्डिता भुवि ।
							तान्यमो दण्डयत्येव स हि वेद कृताकृतम् ।
						
						नातिक्रमेद्यमं कश्चित्कर्म कृत्वेह मानुषः ॥
						
					राजा यमश्च कुर्वाते दण्डमात्रं तु शोभने ।
							उभाभ्यां यमराजभ्यां दण्डितोऽदण्डितोपि वा ।
						
						पश्चात्कर्मफलं भुङ्क्ते नरके मानुषेषु वा ॥
						
					नास्ति कर्मफलच्छेत्ता कश्चिल्लोकत्रयेऽपि च ।
						इति ते कथितं सर्वं निर्विशङ्का भव प्रिये ॥
						उमोवाच । 
					किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः ।
						पुनस्तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते ॥
					सर्वपापहरं चेति हयमेधं वदन्ति च ।
							प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते ।
						
						तस्मान्मया संशयितं त्वं तच्छेत्तुमिहार्हसि ॥
						
						महेश्वर उवाच । 
					स्थाने संशयितं देवि शृणु तत्वं समाहिता ।
						संशयो हि महानेव पूर्वेषां च मनीषिणाम् ॥
					द्विधा तु क्रियते पापं सद्भिश्चासद्भिरेव च ।
						अभिसन्धाय वा नित्यमन्यथा वा यदृच्छया ॥
					केवलं चाभिसन्धाय संरम्भाच्च करोति यत् ।
						कर्मणस्तस्य नाशस्तु न कथंचन विद्यते ॥
					अभिसन्धिकृतस्यैव नैव नाशोस्ति कर्मणः ।
						अश्वमेधसहस्रैश्च प्रायश्चित्तशतैरपि ॥
					अन्यथा यत्कृतं पापं प्रमादाद्वा यदृच्छया ।
						प्रायश्चित्ताश्वमेधाब्यां श्रेयसा तत्प्रणश्यति ॥
					लोकसंव्यवहारार्थं प्रायश्चित्तादिरिष्यते ।
						विद्ध्येवं पापके कार्ये निर्विशङ्का भव प्रिये ॥
					इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥
						
						उमोवाच । 
					भगवन्देवदेवेश मानुषाश्चेतरा अपि ।
							म्रियन्ते मानुषा लोके कारणाकारणादपि ।
						
						केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥
						
						महेश्वर उवाच । 
					ये पुरा मनुजा देवि कारणाकारणादपि ।
						यथाऽसुभिर्वियुज्यन्ते प्राणिनः प्राणिनिर्दर्यः ॥
					तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम् ।
						विषदास्तु विषेणैव शस्त्रैः शस्त्रेण घातकाः ॥
					एवमेव यथा लोके मानुषान्घ्नन्ति मानुषाः ।
							कारणेनैव तेनाथ तता स्वप्राणनाशनम् ।
						
						प्राप्नुवन्ति पुनर्देवि नास्ति तत्र विचारणा ॥
						
					इति ते कथितं सर्वं कर्मपाकफलं प्रिये ।
						भूयस्तव समासेन कथयिष्यामि तच्छृणु ॥
					सत्यप्रमाणकरणान्नित्यमव्यभिचारि च ।
						यैः पुरा मनुजैर्देवि यस्मिन्काले यथा कृतम् ॥
					येनैव कारणेनापि कर्म यत्तु शुभाशुभम् ।
						तस्मन्काले तथा देवि कारणेनैव तेन तु ॥
					प्राप्नुवन्ति नराः प्रेत्य निःसन्देहं शुभाशुभम् ।
						इति सत्यं प्रजानीहि लोके तत्र विधिं प्रति ॥
					कर्मकर्ता नरो भोक्ता स नास्ति दिवि वा भुवि ।
						न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः ॥
					कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते ।
						एतदुद्देशतः प्रोक्तं कर्मपाकफलं प्रति ॥
					यदन्यच्च मया नोक्तं यस्मिंस्ते कर्मसङ्ग्रहे ।
							बुद्धितर्केण तत्सर्वं तथा वेदितुमर्हसि ।
						
						कथितं श्रोतुकामाया भूयः श्रोतुं किमिच्छसि ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥
श्रीः
