अध्यायः 229
अथ दानधर्मपर्व ॥ 1 ॥
महादेवेन देवींप्रति यमनगरतन्मार्गादिप्रतिपादनपूर्वकं पापिनां यातनानुभवप्रकारादिप्रतिपादनम् ॥ 1 ॥
उमोवाच ।
भगवन्सर्वलोकेश त्रिपुरार्दन शङ्कर ।
कीदृशा यमदण्डास्ते कीदृशाः परिचारकाः ॥
कथं मृतास्ते गच्छन्ति प्राणिनो यमसादनम् ।
कीदृशं भवनं तस्य कथं दण्डयति प्रजाः ।
एतत्सर्वं महादेव श्रोतुमिच्छाम्यहं प्रभो ॥
महेश्वर उवाच ।
शृणु कल्याणि तत्सर्वं यत्ते देवि मनःप्रियम् ।
दक्षिणस्यां दिशि शुभे यमस्य सदनं महत् ॥
विचित्रं रमणीयं च नानाभावसमन्वितम् ।
पितृभिः प्रेतसङ्घैश्च यमदूतैश्च सन्ततम् ॥
प्राणिसङ्घैश्च बहुभिः कर्मवश्यैश्च पूरितम् ।
तत्रास्ते दण्डयन्नित्यं यमो लोकहिते रतः ॥
मायया सततं वेत्ति प्राणिनां यच्छुभाशुभम् ।
मायया संहरंस्तत्र प्राणिसङ्घान्यतस्ततः ॥
तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः ।
को हि मानुषमात्रस्तु देवस्य चरितं महत् ॥
एवं संवसतस्तस्य यमस्य परिचारकाः ।
गृहीत्वा सन्नयन्त्येव प्राणिनः क्षीणकर्मणः ।
यन केनापदेशेन त्वपदेशसमुद्भवाः ॥
कर्मणा प्राणिनो लोके उत्तमाधममध्यमाः ।
यथार्हं तान्समादाय नयन्ति यमसादनम् ॥
धार्मिकानुत्तमान्विद्धि स्वर्गिणस्ते यथाऽमराः ।
त्रिषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः ।
तिर्यङनरकगन्तारो ह्यधमास्ते नराधमाः ॥
पन्थानस्त्रिविधा दृष्टाः सर्वेषां गतजीविनाम् ।
रमणीयं निराबाधं दुर्दर्शमिति नामतः ॥
रमणीयं तु यन्मार्गं पताकाध्वजसङ्कुलम् ।
धूपितं सिक्तसंमृष्टं पुष्पमालाभिसङ्कुलम् ॥
मनोहरं सुखस्पर्शं गच्छतामेव तद्भवेत् ।
निराबाधं यथालोकं सुप्रशस्तं कृतं भवेत् ॥
तृतीयं यत्तु दुर्दर्शं दुर्गन्धि तमसा वृतम् ।
परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम् ।
किमिकीटसमाकीर्णं भजतामतिदुर्गमम् ॥
मार्गैरेवं त्रिभिर्नित्यमुत्तमाधममध्यमान् ।
सन्नयन्ति यथा काले तन्मे शृणु शुचिस्मिते ॥
उत्तमानन्तकाले तु यमदूताः सुसंवृताः ।
नयन्ति सुखमादाय रमणीयपथेन वै ॥
उमोवाच ।
भगवंस्तत्र चात्मानं त्यक्तदेहं निराश्रयम् ।
अदृश्यं कथमादाय सन्नयन्ति यमान्तिकम् ॥
महेश्वर उवाच ।
शृणु भामिनि तत्स्रवं त्रिविधं देहकारणम् ।
कर्मवश्यं भोगवश्यं दुःखवश्यमिति प्रिये ॥
मानुषं कर्मवश्यं स्याद्द्वितीयं भोगसाधनम् ।
तृतीयं यातनावश्यं शरीरं मायया कृतम् ।
यमलोके न चान्यत्र दृश्यते यातनायुतम् ॥
शरीरैर्यातनावश्यैर्जीवानामुच्य भामिनि ।
नयन्ति यामिकास्तत्र प्राणिनो मायया मृतान् ॥
मध्यमान्योधवेषेण मध्यमेन पथा तथा ॥
चण्डालवेषास्त्वधमान्गृहीत्वा भर्त्सतर्जनैः ।
आकर्षन्तस्तथा पाशैर्दुर्दर्शेन नयन्ति तान् ॥
त्रिविधानेवमादाय नयन्ति यमसादनम् ।
धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा ॥
लोकपालं सहाध्यक्षं तथैव परिषद्गतम् ।
दर्शयन्ति महाभागे यामिकास्तं निवेद्य ते ॥
पूजयन्दण्डयन्कांश्चित्तेषां शृण्वञ्शुभाशुभम् ।
व्याहृतो बहुसाहस्रैस्तत्रास्ते सततं यमः ॥
गतानां तु यमस्तेषामुत्तमानभिपूजया ।
अभिसङ्गृह्य विधिवत्पृष्ट्वा स्वागतकौशलम् ।
प्रस्तुत्य तत्कृतं तेषां लोकं संदिशते यमः ॥
यमेनैवमनुज्ञाता यान्ति पश्चात्त्रिविष्टपम् ॥
मध्यमानां यमस्तेषां श्रुत्वा कर्म यथातथम् ।
जायन्तां मानुषेष्वेव इति संदिशते च तान् ॥
अधमान्पाशसंयुक्तान्यमो नावेक्षते गतान् ।
यमस्य पुरुषा घोराश्चण्डालसमदर्शनाः ।
यातनाः प्रापयन्त्येताँल्लोकपालस्य शासनात् ॥
भिन्दन्तश्च तुदन्तश्च प्रकर्षन्तो यतस्ततः ।
क्रोशन्तः पातयन्त्येतान्मिथो गर्तेष्ववाङ्मुखान् ॥
संयामिन्यः शिलास्तेषां पतन्ति शिरसि प्रिये ।
अयोमुखाः कङ्कवला भक्षयन्ति सुदारुणाः ॥
असिपत्रवने घोरे चारयन्ति तथा परान् ।
तीक्ष्णदंष्ट्रास्तथा श्वानः कांश्चित्तत्र ह्यदन्ति वै ॥
तत्र वैतरणी नाम नदी ग्राहसमाकुला ।
दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी ।
तस्यां सम्मज्जयन्त्येते तृषितान्पाययन्ति तान् ॥
आरोपयन्ति वै कांश्चित्तत्र कण्टकशल्मलीम् ।
यन्त्रचक्रेषु तिलवत्पीड्यन्ते तत्र केचन ॥
अङ्गरेषु च दह्यन्ते तथा दुष्कृतकारिणः ।
कुम्भीपाकेषु पच्यन्ते पच्यन्ते सिकतासु वै ॥
पाट्यन्ते तरुवच्छस्त्रैः पापिनः क्रकचादिभिः ।
भिद्यन्ते भागशः शूलैस्तुद्यन्ते सूक्ष्मसूचिभिः ॥
एवं त्वया कृतं दोषं तदर्थं दण्डनं त्विति ।
वाचैव घोषयन्ति स्म दण्डमानाः समन्ततः ॥
एवं ते यातनां प्राप्य शरीरैर्यातनाशयैः ।
प्रसहन्तश्च तद्दुःखं स्मरन्तः स्वापराधजम् ॥
क्रोशन्तश्च रुद्रन्तश्च न मुच्यन्ते कथञ्चन ।
स्मरन्तस्तत्र तप्यन्ते पापमात्मकृतं भृशम् ॥
एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः ।
यातनाभिश्च पच्यन्ते नरकेषु पुनः पुनः ॥
अपरे यातनां भुक्त्वा मुच्यन्ते तत्र किल्बिषात् ।
पापदोषक्षयकरा यातनाः संस्मृता नृणाम् ।
बहुतप्तं यथा लोहममलं तत्तथा भवेत् ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ 229 ॥
श्रीः