अध्यायः 041
अथ दानधर्मपर्व ॥ 1 ॥
ब्रह्मणा देवान्प्रति गरुडस्य बदरीनारायणानुगमनादिप्रतिपादकगरुडमुनिगणसंवादानुवादः ॥ 1 ॥
`सुपर्ण उवाच ।
सोऽहमामन्त्र्य पितरं तद्भावगतमानसः ।
						स्वमेवालयमासाद्य तमेवार्थमचिन्तयम् ॥
					तद्भावगतभावात्मा तद्भूतगतमानसः ।
						गोविन्दं चिन्तयन्नासे शाश्वतं परमव्ययम् ॥
					धृतं बभूव हृदयं नारायणदिदृक्षया ।
							सोहं वेगं समास्थाय मनोमारुतवेगवान् ।
						
						रम्यां विशालां बदरीं गतो नारायणाश्रमम् ॥
						
					ततस्तत्र हरिं जगतः प्रभवं विभुम् ।
							गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम् ।
						
						ऋग्यजुस्सामभिश्चैनं तुष्टाव परया मुदा ॥
						
					अथापश्यं सुविपुलमश्वत्थं देवसंश्रयम् ॥
						
					चतुर्द्विगुणपीनांसः शङ्कचक्रगदाधरः ।
							प्रादुर्बभूव पुरुषः पीतवासाः सनातनः ।
						
						मध्याह्नार्कप्रतीकाशस्तेजसा भासयन्दिशः ॥
						
					संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः ।
							प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः ।
						
						दिशश्च विदिशश्चैव भासयन्स्वेन तेजसा ॥
						
					तमहं पुरुषं दिव्यं व्रजन्तममितौजसम् ।
						अनुवव्राज वेगेन शनैर्गच्छन्तमव्ययम् ॥
					योजनानां सहस्राणि षष्टिमष्टौ तथा शतम् ।
						तथा शतसहस्रं च शतं द्विगुणमेव च ॥
					स गत्वा दीर्गमध्वानमपश्यमहमद्भुतम् ।
						महान्तं पावकं दीप्तमर्चिष्मन्तमनिन्धनम् ॥
					शतयोजनविस्तीर्णं तस्माद्द्विगुणमायतम् ।
						विवेश स महायोगी पावकं पावकद्युतिः ॥
					तत्र शंभुस्तपस्तेपे महादेवः सहोमया ।
						स तेन संविदं कृत्वा पावकं समतिक्रमत् ॥
					श्रमाभिभूतेन मया कथञ्चिदनुगम्यते ॥
						
					गत्वा स दीर्घमध्वानं भास्करेणावभासितम् ।
						अभास्करममर्यादं विवेश सुमहत्तमः ॥
					अथ दृष्टिः प्रतिहता मम तत्र बभूव ह ।
						यथास्वभावं भूतात्मा विवेश स महाद्युतिः ॥
					ततोऽहमभवं मूढो जडान्धबधिरोपमः ।
						दिशश्च विदिशश्चैव न विजज्ञे तमोवृतः ॥
					अविजानन्नहं किञ्चित्तस्मिंस्तमसि संवृते ।
						ससंभ्रान्तेन मनसा व्यथां परमिकां गतः ॥
					सोऽहं प्रपन्नः शरणं देवदेवं सनातनम् ।
						प्राञ्चलिर्मनसा भूत्वा वाक्यमेतत्तदोक्तवान् ॥
					भगवन्भूतभव्येश भवद्भूतकृदव्यय ।
						शरणं सम्प्रपन्नं मां त्रातुमर्हस्यरिंदम ॥
					अहं तु तत्त्वजिज्ञासुः कोसि कस्यासि कुत्र वा ।
						सम्प्राप्तः पदवीं देव स मां संत्रातुमर्हसि ॥
					आविर्भूतः पुराणात्मा मामेहीति सनातनः ।
							ततोपरान्ततो देवो विश्वस्य गतिरात्मवान् ।
						
						मोहयामास मां तत्र दुर्विभाव्यवपुर्विभुः ॥
						
					स्वभावमात्मनस्तत्र दर्शयन्स्वयमात्मना ।
						श्रमं मे जनयामास भयं चाभयदः प्रभुः ॥
					खिन्न इत्येव मां मत्वा भगवानव्ययोऽच्युतः ।
						शब्देनाश्वासयामास जगाहे च तमो महत् ॥
					अहं तमेवानुगतः श्रमालसपदश्चरन् ।
						मनसा देवदेवेशं ध्यातुं समुपचक्रमे ॥
					तथागतं तु मां ज्ञात्वा भगवानमितद्युतिः ।
						तमः प्रणाशयामास ममानुग्रहकाङ्क्षया ॥
					ततः प्रनष्टे तमसि तमहं दीप्ततेजसम् ।
						अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम् ॥
					स्वयंप्रभांश्च पुरुषान्स्त्रियश्च परमाद्भुताः ।
						अपश्यमहमव्यग्रस्तस्मिन्देशे सहस्रशः ॥
					न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च ।
						न तत्र चन्द्रमा भाति न वायुर्वाति पांसुलः ॥
					तत्र तूर्याण्यनेकानि गीतानि मधुराणि च ।
						अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम् ॥
					स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः ।
						मुक्तासिकतवप्राश्च सरितो निर्मलोदकाः ॥
					अगतिस्तत्र देवानामसुराणां तथैव च ।
						गन्धर्वनागयक्षाणां राक्षसानां तथैव च ॥
					स्वयंप्रभास्तत्र नरा दृश्यन्तेऽद्भुतदर्शनाः ।
						येषां न देवतास्तुल्याः प्रभाभिर्भावितात्मनाम् ॥
					स च तानप्यतिक्रम्य दैवतैरपि पूजितः ।
						विवेश ज्वलनं दीप्तमनिन्धनमनौपमम् ॥
					ज्वालाभिर्मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम् ।
						दैत्यदानवरक्षोभिर्दैवतैश्चापि दुस्सहम् ॥
					ज्वालामालिनमासाद्य तमग्निमहमव्ययम् ।
						अविषह्यतमं मत्वा मनसेदमचिन्तयम् ॥
					मया हि समरेष्वग्निरनेकेषु महाद्युतिः ।
						प्रविष्टश्चापविद्धश्च न च मां दग्धवान्क्वचित् ॥
					अयं च दुस्सहः शश्वत्तेजसाऽतिहुताशनः ।
						अत्यादित्यप्रकाशार्चिरनलो दीप्यते महान् ॥
					स तथा दह्यमानोपि तेजसा दीप्तवर्चसा ।
						प्रपन्नः शरणं देवं शङ्कचक्रगदाधरम् ॥
					भक्तश्चानुगतश्चेति त्रातुमर्हसि मां विभो ।
						यथा मां न दहेदग्निः सद्यो देव तथा कुरु ॥
					एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः ।
						मा भैरिति वचः प्राह मेघगम्बीरनिस्वनः ॥
					स मामाश्वास्य वचनं प्राहेदं भगवान्विभुः ।
						मम त्वं विदितः सौम्य यथावत्तत्वदर्शने ॥
					ज्ञापितश्चापि यत्पित्रा तच्चापि विदितं महत् ।
						वैनतेय ममाप्येवमहं वेद्यः कथञ्चन ॥
					महदेतत्स्वरूपं मे न ते वेद्यं कथञ्चन ।
						मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः ॥
						निर्ममा निरहङ्कारा निराशीर्बन्धनायुताः ॥
						
					भवांस्तु सततं भक्तो मन्मनाः पक्षिसत्तम ।
						स्थूलंमां वेत्स्यसे तस्माज्जगतः कारणेस्थितम्' ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥
श्रीः
