अध्यायः 037
					अथ पुत्रदर्शनपर्व ॥ 2 ॥
					 जनमेजयेन परिक्षित्प्रदर्शने प्रार्थिते व्यासेन परिक्षितः
						शमीकमहर्षः शृङ्गीणश्च प्रदर्शनम् ॥ 1 ॥
						जनमेजयेनावभृथस्नानानन्तरमास्तिकपूजनपूर्वकं वैशम्पायनंप्रति
						कथावशेषकथनप्रार्थना ॥ 2 ॥ 
					
						वैशम्पायन उवाच । 
					
						अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् ।
						ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ॥
					 
					
						स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा ।
							अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ।
						
					 
					
						विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् ।
						धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम् ॥
						जनमेजय उवाच । 
					 
					
						ममापि वरदो व्यासो दर्शयेत्पितरं यदि ।
						तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत् ॥
					 
					
						प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः ।
						प्रसादादृषिमुख्यस्य मम कामः समृद्ध्यताम् ॥
						सौतिरुवाच । 
					 
					
						इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् ।
						प्रसादमकरोद्धीमानानयच्च परिक्षितम् ॥
					 
					
						ततस्तद्रूपवयसमागतं नृपतिं दिवः ।
						श्रीमन्तं पितरं राजा ददर्श स परीक्षितम् ॥
					 
					
						शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् ।
						अमात्या ये च निहता राज्ञस्तांश्च ददर्श ह ॥
					 
					
						ततः सोवभृथे राजा मुदितो जनमेजयः ।
						पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः ॥
					 
					
						`परीक्षिदपि तत्रैव बभूव स तिरोहितः ।'
							स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत् ।
						
						यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ॥
						
					 
					
						आस्तीक विविधाश्चर्यो यज्ञेऽयमिति मे मतिः ।
						यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः ॥
						आस्तीक उवाच । 
					 
					
						ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः ।
						यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ॥
					 
					
						श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन ।
						सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ॥
					 
					
						कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव ।
						ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः ॥
					 
					
						प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् ।
						विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् ॥
					 
					
						ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये ।
						यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया ॥
						सौतिरुवाच । 
					 
					
						एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।
						पूजयामास तमृषिमनुमान्य पुनःपुनः ॥
					 
					
						पप्रच्छ तमृषि चापि वैशम्पायनमच्युतम् ।
						कथावशेषं धर्मज्ञो वनवासस्य सत्तम ॥ ॥
					 
					 इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥ 
					 7-37-2 स धृतराष्ट्रो राजा विदुरश्च सिद्धिं ययौ इति द्वयोः
						सम्बन्धः । तत्रापि विदुरस्तपोबलात् । धृतराष्ट्रो व्यासं समासाद्येति सम्बन्धः ॥ 7-37-15 पापविनाशं इतिहासमिति शेषः ॥ 7-37-16 पक्षधराः पक्षस्थापकाः ॥ 
					
					
					
					
					श्रीः