अध्यायः 103
					
					 प्रतीपेन गङ्गायाः स्नुषात्वेन परिग्रहः ॥ 1 ॥ शान्तनूत्पत्तिः ॥ 2 ॥ तस्य राज्येऽभिषेकः ॥ 3 ॥ मृगयार्थं गतस्य शान्त नोर्गङ्गया संवादः ॥ 4 ॥ 
					
					
						ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा ।
						निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन् ॥
					 
					
						तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी ।
						उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥
					 
					
						अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी ।
						दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥
					 
					
						प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम् ।
							`वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित् ।'
						
						करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥
						
						स्त्र्युवाच । 
					 
					
						त्वामहं कामये राजन्भजमानां भजस्व माम् ।
						त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥
						प्रतीप उवाच । 
					 
					
						नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि ।
						न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम् ॥
					 
					
						`यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम् ।
							निरयान्नैव मुच्यते यावदाभूतसंप्लवम् ॥'
						
						स्त्र्युवाच । 
					 
					
						नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् ।
						भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम् ॥
						प्रतीप उवाच । 
					 
					
						त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम् ।
						अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥
					 
					
						प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने ।
						अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥
					 
					
						सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः ।
						तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥
					 
					
						स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम् ।
						स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥
						स्त्र्युवाच । 
					 
					
						एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते ।
						त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम् ॥
					 
					
						पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् ।
						गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥
					 
					
						कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम् ।
						समयेनेह धर्मज्ञ आचरेयं च यद्विभो ॥
					 
					
						तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ।
						एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम् ॥
					 
					
						पुत्रैः पुण्यैः प्रियैश्चैव स्वर्गं प्राप्स्यति ते सुतः ।
						
						वैशंपायन उवाच ।
						तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।
						
						`अदृश्या राजसिंहस्य पश्यतः साऽभवत्तदा ॥' 
					 
					
						पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत् ।
						एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ॥
					 
					
						तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ।
						`प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत ॥
					 
					
						श्रिया परमया युक्तः शरच्छुक्ले यथा शशी ।
						ततस्तु दशमे मासि प्राजायत रविप्रभम् ॥
					 
					
						कुमारं देवगर्भाभं प्रतीपमहिषी तदा ।'
							तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक् ॥
						
					 
					
						शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः ।
						`तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः ॥
					 
					
						जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा ।
						नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम् ॥
					 
					
						शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा ।
						ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः ॥
					 
					
						स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः ।
						धनुर्वेदे च वेदे च गतिं स परमा गतः ॥
					 
					
						यौवनं चापि संप्राप्तः कुमारो वदतां वरः ।'
							संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा ॥
						
					 
					
						पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः ।
						प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् ॥
					 
					
						पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव ।
						त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी ॥
					 
					
						कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया ।
						सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने ॥
					 
					
						यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ ।
						सन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥
					 
					
						एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा ।
						स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥
					 
					
						स राजा शान्तनुर्धीमान्देवराजसमद्युतिः ।
						`बभूव सर्वलोकस्य सत्यवागिति संमतः ॥
					 
					
						पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः ।
						अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥
					 
					
						अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित् ।
						वशे चक्रे महीमेको विजित्य वसुधाधिपान् ॥
					 
					
						वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः ।
						ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः ॥
					 
					
						तर्पयामास विप्रांश्च वेदाध्ययनकोविदान् ।
						रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि ॥
					 
					
						वयोरूपेण संपन्नः पौरुषेण बलेन च ।
						ऐश्वर्येण प्रतापेन विक्रमेण धनेन च ॥
					 
					
						वर्तमानश्च सत्येन सर्वधर्मविशारदः ।
						तं महीपं महीपाला राजराजमकुर्वत ॥
					 
					
						वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः ।
						श्रिया भरतशार्दूल समपद्यन्त भूमिपाः ॥
					 
					
						नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत ।
						ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः ॥
					 
					
						ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः ।
						एवं पशुवराहाणां तथैव मृगपक्षिणाम् ॥
					 
					
						शान्तनावथ राज्यस्थे नावर्तत वृथा वधः ।
						असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ॥
					 
					
						स एव राजा सर्वेषां भूतानामभवत्पिता ।
						स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः ॥
					 
					
						तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले ।
						अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥
					 
					
						बभूव राजा सुमतिः प्रजानां सत्यविक्रमः ।
							स वनेषु च रम्येषु शैलप्रस्रवणेषु च ॥'
						
					 
					
						चचार मृगयाशीलः शान्तनुर्वनगोचरः ।
						स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः ॥
					 
					
						गङ्गामनु चचारैकः सिद्धचारणसेविताम् ।
						स कदाचिन्महाराज ददर्श परमां स्त्रियम् ॥
					 
					
						जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम् ।
						सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् ॥
					 
					
						सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ।
						`स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने ॥
					 
					
						प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान् ।
						रूपेण वयसा कान्त्या शरीरावयवैस्तथा ॥
					 
					
						हावभावविलासैश्च लोचनाञ्चलविक्रियैः ।
						श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा ॥
					 
					
						कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च ।
						कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम् ॥
					 
					
						वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः ।
							सा च शान्तनुमब्यागादलक्ष्मीमपकर्षती ॥'
						
					 
					
						तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा ।
						पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥
					 
					
						सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् ।
						स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥
					 
					
						`गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी ।
						चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा ॥
					 
					
						दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः ।
							रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः ॥'
						
					 
					
						तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा ।
						देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः ॥
					 
					
						यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे ।
						`याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे ॥
					 
					
						त्वां गता हि मम प्रामा वसु यन्मेऽस्ति किंचन ।'
							याचे त्वां सुरगर्भाभे भार्या मे भव शोभने ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥ 
					 1-103-1 तत इति ॥ 1-103-8 दिव्यां दिवि भवाम् ॥ 1-103-9
						निवृत्तं निरस्तम् ॥ 1-103-10 आश्लिष्टा संगता ॥ 1-103-15 समयेन नियमेन ॥ 1-103-16 न मीमांसेत न विचारयेत् ॥ 1-103-22 शान्तस्योपरतस्य वंशस्य संतानो
						विस्तार इति शान्ततनुः । तकारलोपेन शान्तनुरिति नाम ॥ 1-103-26 संस्मरन्निति
						व्यवहितमपि ज्ञानबलेन जानातीत्यर्थः ॥ 1-103-29 नानुयोक्तव्या न प्रष्टव्या ॥
						त्र्यधिकशततमोऽध्यायः ॥ 103 ॥