अध्यायः 141
					
					 द्रुपदसमीपं गत्वा तेन सह स्वस्य सखित्वं कथयतो द्रोणस्य
						द्रुपदकृतं भर्त्सनम् ॥ 1 ॥ तेन कुपितस्य द्रोणस्य हास्तिन पुरगमनम् ॥ 2 ॥
						क्रीडाकाले कूपपतितयोर्विदाकन्दुकयोरुद्धरणे अशक्नुवतां कुमाराणां
						द्रोणकृतोऽधिक्षेपः ॥ 3 ॥ द्रोणेन वीटामुद्रिकयोः कूपादुद्धारः ॥ 4 ॥
						द्रोणवृत्तान्तश्रवणेन भीष्मेण स्वगृहनिवासार्थं द्रोणं प्रति प्रार्थनम् ॥ 5 ॥ 
					
					
						ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।
						अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह ॥
					 
					
						इत्येवमुक्तः सख्या स प्रीतिर्पूर्वं जनेश्वरः ।
						भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत् ॥
					 
					
						स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः ।
						ऐश्वर्यमदसंपन्नो द्रोणं राजाऽब्रवीदिदम् ॥
						द्रुपद उवाच । 
					 
					
						अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा ।
						यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥
					 
					
						न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित् ।
						सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥
					 
					
						सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः ।
						सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥
					 
					
						न सख्यमजरं लोके हृदि तिष्ठति कस्यचित् ।
						कामश्चैतन्नाशयति क्रोधो वैनं रहत्युत ॥
					 
					
						मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत् ।
						आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥
					 
					
						न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा ।
						न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते ॥
					 
					
						ययोरेव समं वित्तं ययोरेव समं श्रुतम् ।
						तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥
					 
					
						नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।
						नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥
						वैशंपायन उवाच । 
					 
					
						द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् ।
						मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः ॥
					 
					
						स विनिश्चित्य मनसा पाञ्चाल्यं प्रतिबुद्धिमान् ।
							`शिष्यैः परिवृतः श्रीमान्पुत्रेण सहितस्तथा ॥'
						
					 
					
						जगाम कुरुमुख्यानां नागरं नागसाह्वयम् ।
						तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता नचिरादिव ॥
					 
					
						स नागपुरमागम्य गौतमस्य निवेशने ।
						भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः ॥
					 
					
						ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः ।
						अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः ॥
					 
					
						एवं स तत्र गूढात्मा कंचित्कालमुवास ह ।
						कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् ॥
					 
					
						क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ।
						`तेषां संक्रीडमानानामुदपानेऽङ्गुलीयकम् ॥
					 
					
						पपात धर्मपुत्रस्य वीटा तत्रैव चापतत् ।
						गर्तान्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे ॥
					 
					
						दृष्ट्वा चैते कुमाराश्च तं यत्नात्पर्यवारयन् ।'
							ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः ।
						
						न च ते प्रत्ययद्यन्त कर्म वीटोपलब्धये ॥
						
					 
					
						ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः ।
						तस्या योगमविदन्तो भृशं चोत्कण्ठिताभवन् ॥
					 
					
						तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम् ।
						कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम् ॥
					 
					
						ते तं दृष्ट्वा महातमानमुपगम्य कुमारकाः ।
						भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन् ॥
					 
					
						अथ द्रोणः कुमारांस्तान्दृष्ट्वा कत्यवशस्तदा ।
						प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥
					 
					
						अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् ।
						भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥
					 
					
						वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम् ।
						उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम् ॥
					 
					
						ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः ।
						कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम् ॥
					 
					
						एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम् ।
						
						द्रोण उवाच ।
						एषा मुष्टिरिषीकाणां मयाऽस्त्रेणाभिमन्त्रिता ॥
						
					 
					
						अस्या वीर्यं निरीक्षध्वं यदन्येषु न विद्यते ।
						वेत्स्यामीषिकया वीटां तामिषीकां तथाऽन्यया ॥
					 
					
						तामन्यया समायोगे वीटाया ग्रहणं मम ।
						
						वैशंपायन उवाच ।
						ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा ॥
						
					 
					
						तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः ।
						आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन् ॥
					 
					
						मुद्रिकामणि विप्रर्षे शीध्रमेतां समुद्धरथ 
						वैशंपायन उवाच ।
						ततः शरं समादाय धनुश्चापि महायशाः ॥
						
					 
					
						शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः ।
						स शरं समुपादाय कूपादङ्गुलिवेष्टनम् ॥
					 
					
						ददौ ततः कुमाराणां विस्मितानामविस्मितः ।
						मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः ॥
					 
					
						अभिवन्दामहे ब्रह्मन्नैतदन्येषु विद्यते ।
						कोऽसि कस्यासि जानीमो वयं किं करवामहे ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान् ।
						आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् ॥
					 
					
						स एव सुमहातेजाः सांप्रतं प्रतिपत्स्यते ।
						
						वैशंपायन उवाच ।
						तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः ॥
						
					 
					
						ब्राह्मणस्य वचः कृत्स्नं तच्च कर्म तथाविधम् ।
						भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत ॥
					 
					
						युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ।
						अथैनमानीय तदा स्वयमेव सुसत्कृतम् ॥
					 
					
						परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ।
						हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत् ॥
						द्रोण उवाच । 
					 
					
						महर्षेरग्निवेश्यस्य सकाशमहमच्युत ।
						अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥
					 
					
						ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः ।
						अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः ॥
					 
					
						पाञ्चाल्यो राजपुत्रश्च यज्ञसेनो महाबलः ।
						इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः ॥
					 
					
						स मे तत्र सखा चासीदुपकारी प्रियश्च मे ।
						तेनाहं सह संगम्य वर्तयन्सुचिरं प्रभो ॥
					 
					
						बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ।
						स मे सखा सदा तत्र प्रियवादी प्रियंकरः ॥
					 
					
						अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ।
						अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः ॥
					 
					
						अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ।
						तद्भोज्यं भवता राज्यमर्धं सत्येन ते शपे ॥
					 
					
						मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ।
						एवमुक्त्वाऽथ वव्राज कृतास्त्रः पूजितो मया ॥
					 
					
						तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा ।
						सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम् ॥
					 
					
						शारद्वतीं महाप्रज्ञामुपयेमे महाव्रताम् ।
						अग्निहोत्रे च सत्रे च दमे च सततं रताम् ॥
					 
					
						लेभे च गौतमी पुत्रमश्वत्थामानमौरसम् ।
						भीमविक्रमकर्माणमादित्यसमतेजसम् ॥
					 
					
						पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा ।
							गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान् ।
						
						अश्वत्थामारुदद्बालस्तन्मे संदेहयद्दिशः ॥
						
					 
					
						न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु ।
						इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन् ॥
					 
					
						विशुद्धणिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम् ।
						अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम् ॥
					 
					
						यवपिष्टोदकेनैनं लोभयेयं कुमारकम् ।
						पीत्वा पिष्टरसं बालः क्षीरं पीतं मयाऽपि च ॥
					 
					
						ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः ।
						तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम् ॥
					 
					
						हास्यतामुपसंप्राप्तं कश्मलं तत्र मेऽभवत् ।
						द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति ॥
					 
					
						पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया ।
						नृत्यतिस्म मुदाविष्टः क्षीरं पीतं मयाऽप्युत ॥
					 
					
						इति संभाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत् ।
						आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम् ॥
					 
					
						अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे ।
						परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया ॥
					 
					
						इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम् ।
						पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः ॥
					 
					
						अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन् ।
						प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम् ॥
					 
					
						संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ।
						ततो द्रुपदमागम्य सखइपूर्वमहं प्रभो ॥
					 
					
						अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ।
						उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः ॥
					 
					
						स मां निराकारमिव प्रहसन्निदमब्रवीत् ।
						अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा ॥
					 
					
						यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ।
						संगतनीह जीर्यन्ति कालेन परिजीर्यतः ॥
					 
					
						सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ।
						नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ॥
					 
					
						साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते ।
						न सख्यमजरं लोके विद्यते जातु कस्यचित् ॥
					 
					
						कामो वैनं विहरति क्रोधो वैनं रहत्युत ।
						मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत् ॥
					 
					
						आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ।
						नह्यनाढ्यः सखाऽऽढ्यस्य नाविद्वान्विदुषः सखा ॥
					 
					
						न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते ।
						न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् ॥
					 
					
						सख्यं भवति मन्दात्मञ्छ्रिया हीनैर्धनच्युतैः ।
						नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ॥
					 
					
						नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ।
						अहं त्वया न जानामि राज्यार्थे संविदं कृताम् ॥
					 
					
						एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम् ।
						एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा ॥
					 
					
						तां प्रतिज्ञां प्रतिज्ञाय यां कर्ताऽस्म्यचिरादिव ।
						द्रुपदेनैवमुक्तोऽहं मन्युनाऽभिपरिप्लुतः ॥
					 
					
						अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ।
						ततोऽहं भवतः कामं संवर्धयितुमागतः ॥
					 
					
						इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते ।
						
						वैशंपायन उवाच ।
						एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत ॥
						
						भीष्म उवाच । 
					 
					
						अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय ।
						भुङ्क्ष भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये ॥
					 
					
						कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम् ।
						त्वमेव परमो राजा सर्वे वाक्यकरास्तव ॥
					 
					
						यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम् ।
						दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः ॥
					 
					 1-141-4 अकृता असंस्कृता ॥ 1-141-7 रहति सख्याच्च्यावयति ॥ 1-141-13 प्रतिबुद्धिमान् प्रतीवपुद्धिमान् ॥ 1-141-18 वीटया कन्दुकेन ॥ 1-141-24 पैशल्यात् कौशल्यात् ॥ 1-141-27 गौतमीं च महातेजा भिक्षामश्नीत
						माचिरम् इति पाठान्तरम् ॥ 1-141-52 दिशः संदेहयत् दिङ्मोहमनयत् । अडभाव आर्षः ॥ 1-141-53 स्नातको यः कश्चिदल्पगोधनः स्वधर्मलोपान्नावसीदेतातो बहुगोधनवतो
						ब्राह्मणस्य प्रतिग्रहमिच्छन् ॥ 1-141-54 अन्तादन्तं देशाद्देशम् ॥ 1-141-60
						वसे उपवसे ॥ 1-141-78 अधिज्यं कुरुवीराणां इति पाठान्तरम् । कुरुक्षये
						कुरुगृहे ॥ एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥