अध्यायः 182
जनवार्तया दुर्योधनेन पाण्डवानां दाहं, स्वपुरोहितवचनेन
नाशराहित्यं च, ज्ञातवता तेषां जीवने सन्दिहानेन द्रुपदेन उद्धोषितस्य
पुत्रीस्वयंवरस्य कुन्तींप्रति ब्राह्मणेन कथनम् ॥ 1 ॥ युष्मासु
तत्रागतेष्वीश्वरेच्छया त्वत्पुत्राणामन्यतमं पाञ्चाली वृणुयादपीत्युक्तवता
ब्राह्मणेन सह पाण्डवानां पाञ्चालनगरं प्रति गमनम् ॥ 2 ॥
श्रुत्वा जतुगृहे वृत्तं ब्राह्मणाः संशितव्रताः ।
पाञ्चालराजं द्रुपदमिदं वचनमब्रुवन् ॥
धार्तराष्ट्राः सहामात्या मन्त्रयित्वा परस्परम् ।
पाण्डवानां विनाशाय मतिं चक्रुः सुदुष्कराम् ॥
दुर्योधनेन प्रहितः पुरोचन इति श्रुतः ।
वारणावतमासाद्य कृत्वा जतुगृहं महत् ॥
तस्मिन्गृहे सुविस्रब्धान्पाण्डवान्पृथया सह ।
अर्धरात्रे महाराज दग्धवानतिदुर्मतिः ॥
तेनाग्निना स्वयं चापि दग्धः क्षुद्रो नृशंसवत् ।
एतच्छ्रुत्वा सुसंहृष्टो धृतराष्ट्रः सबान्धवः ॥
अल्पशोकः प्रहृष्टात्मा शशास विदुरं तदा ।
पाण्डवानां महाप्राज्ञ कुरु पिण्डोदकक्रियाम् ॥
अहो विधिवशादेव गतास्ते यमसादनम् ।
इत्युक्त्वा प्रारदत्तत्र धृतराष्ट्रः सबान्धवः ॥
श्रुत्वा भीष्मेण विदुरः कृतवानौर्ध्वदेहिकम् ।
पाण्डवानां विनाशाय कृतं कर्म दुरात्मना ॥
एतत्कार्यस्य कर्ता तु न दृष्टो न श्रुतः पुरा ।
एतद्वृत्तं महाभाग पाण्डवान्प्रति नः श्रुतम् ॥
ब्राह्मण उवाच ।
श्रुत्वा तु वचनं तेषां यज्ञसेनो महामतिः ।
यथा तज्जनकः शोचेदौरसस्य विनाशे ॥
तथाऽतप्यत वै राजा पाण्डवानां विनाशने ।
समाहूय प्रकृतयः सहिताः सर्वनागरैः ॥
कारुण्यादेव पाञ्चालः प्रोवाचेदं वचस्तदा ।
द्रुपद उवाच ।
अहो रूपमहो धैर्यमहो वीर्यमहो बलम् ॥
चिन्तयामि दिवारात्रमर्जुनं प्रति बान्धवाः ।
भ्रातृभिः सहितो मात्रा सोऽदह्यत हुताशने ॥
किमाश्चर्यमितो लोके कालो हि दुरतिक्रमः ।
मिथ्याप्रतिज्ञो लोकेषु किं करिष्यामि सांप्रतं ॥
अन्तर्गतेन दुःखेन दह्यमानो दिवानिशम् ।
याजोपयाजौ सत्कृत्य याचितौ तौ मयाऽनघौ ॥
भारद्वाजस्य हन्तारं देवीं चाप्यर्जुनस्य वै ।
लोकस्तद्वेद यच्चापि तथा याजेन मे श्रुतम् ॥
याजेन पुत्रकामीयं हुत्वा चोत्पादिताविमौ ।
धृष्टद्युम्नश्च कृष्णा च मम तुष्टिकरावुभौ ॥
किं करिष्यामि ते नष्टाः पाण्डवाः पृथया सह ।
ब्राह्मण उवाच ।
इत्येवमुक्त्वा पाञ्चालः शुशोच परमातुरः ॥
दृष्ट्वा शोचन्तमत्यर्थं पाञ्चालमिदमब्रवीत् ।
पुरोधाः सत्वसंपन्नः सम्यग्विद्याविशेषवित् ॥
वृद्धानुशासने सक्ताः पाण्डवा धर्मचारिणः ।
तादृशा न विनश्यन्ति नैव यान्ति पराभवम् ॥
मया दृष्टमिदं सत्यं शृणु त्वं मनुजाधिप ।
ब्राह्मणैः कथितं सत्यं वेदेषु च मया श्रुतम् ॥
बृहस्पतिमतेनाथ पौलोम्या च पुरा श्रुतम् ।
नष्ट हन्द्रो बिसग्रन्थ्यामुपश्रुत्या हि दर्शितः ॥
उपश्रुतिर्महाराज पाण्डवार्थे मया श्रुता ।
यत्रकुत्रापि जीवन्ति पाण्डवास्ते न संशयः ॥
मया दृष्टानि लिङ्गानि इहैवैष्यन्ति पाण्डवाः ।
यन्निमित्तमिहायान्ति तच्छृणुष्व नराधिप ॥
स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः ।
स्वयंवरस्तु नगरे घुष्यतां राजसत्तम ॥
यत्र वा निवसन्तस्ते पाण्डवाः पृथया सह ।
दूरस्था वा समीपस्था स्वर्गस्था वाऽपि पाण्डवाः ॥
श्रुत्वा स्वयंवरं राजन्समेष्यन्ति न संशयः ।
तस्मात्स्वयंवरो राजन्घुष्यतां मा चिरं कृथाः ॥
ब्राह्मण उवाच ।
श्रुत्वा पुरोहितेनोक्तं पाञ्चालः प्रीतिमांस्तदा ।
घोषयामास नगरे द्रौपद्यास्तु स्वयंवरम् ॥
पुष्यमासे तु रोहिण्यां शुक्लपक्षे शुभे तिथौ ।
दिवसैः पञ्चसप्तत्या भविष्यति न संशयः ॥
देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः ।
स्वयंवरं द्रष्टुकामा गच्छन्त्येव न संशयः ॥
तव पुत्रा महात्मानो दर्शनीयो विशेषतः ।
यदृच्छया सा पाञ्चाली गच्छेद्वान्यतमं पतिम् ॥
को हि जानाति लोकेषु प्रजापतिमतं शुभण् ।
तस्मात्सपुत्रा गच्छेथा यदि ब्राह्मणि रोचते ॥
नित्यकालं सुभिक्षास्ते पाञ्चालास्तु तपोधने ।
यज्ञसेनस्तु राजा स ब्रह्मण्यः सत्यसङ्गरः ॥
ब्रह्मण्या नागराः सर्वे ब्राह्मणाश्चातिथिप्रियाः ।
नित्यकालं प्रदास्यन्ति आमन्त्रणमयाचितम् ॥
अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः ।
एकसार्थाः प्रयाताः स्मो ब्राह्मण्या यदि रोचते ॥
एतावदुक्त्वा वचनं ब्राह्मणो विरराम ह ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥
1-182-9 एतत्कार्यस्य एतादृशकार्यस्य ॥ 1-182-21 दृष्टं
ऊहितम् ॥ द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥