अध्यायः 208
(अथ वैवाहिकपर्व ॥ 13 ॥)
धृष्टद्युम्नवार्तां श्रुतवता द्रुपदेन तत्वविवित्सया पाण्डवान्प्रति पुरोहितप्रेषणम् ॥ 1 ॥
वैशंपायन उवाच ।
ततस्तथोक्तः परिहृष्टरूपः
पित्रे शशंसाथ स राजपुत्रः ।
धृष्टद्युम्नः सोमकानां प्रबर्हो
वृत्तं यथा येन हृता च कृष्णा ॥
धृष्टद्युम्न उवाच ।
योऽसौ युवा व्यायतलोहिताक्षः
कृष्णाजिनी देवसमानरूपः ।
यः कार्मुकाग्र्यं कृतवानधिज्यं
लक्षं च यः पातितवान्पृथिव्याम् ॥
असज्जमानश्च ततस्तरस्वी
वृतो द्विजाग्र्यैरभिपूज्यमानः ।
चक्राम वज्रीव दितेः सुतेषु
सर्वैश्च देवैर्ऋषिभिश्च जुष्टः ॥
कृष्मा प्रगृह्याजिनमन्वयात्तं
नागं यथा नागवधूः प्रहृष्टा ।
`श्यामो युवा वारणमत्तगामी
कृत्वा महत्कर्म सुदुष्करं तत् ॥
यः सूतपुत्रेण चकार युद्धं
शङ्केऽर्जुनं तं त्रिदशेशवीर्यम् ।'
अमृष्यमाणेषु नराधिपेषु
क्रुद्धेषु वै तत्र समापतत्सु ॥
ततोऽपरः पार्थिवसङ्घमध्ये
प्रवृद्धमारुज्य महीप्ररोहम् ।
प्राकालयत्तेन स पार्थिवौघान्
भीमोऽन्तकः प्राणभृतो यथैव ॥
तौ पार्थिवानां मिषतां नरेन्द्र
कृष्णामुपादाय गतौ नराग्र्यौ ।
`विक्षोभ्य विद्राव्य च पार्तिवांस्ता-
न्स्वतेजसा दुष्प्रतिवीक्ष्यरूपौ ।'
विभ्राजमानाविव चन्द्रसूर्यौ
बाह्यां पुराद्भार्गवकर्मशालाम् ॥
तत्रोपविष्टार्चिरिवानलस्य
तेषां जनित्रीति मम प्रतर्कः ।
तथाविधैरेव नरप्रवीरै-
रुपोपविष्टैस्त्रिबिरग्निकल्पैः ॥
तस्यास्ततस्तावभिवाद्य पादा-
वुक्त्वा च कृष्णामभिवादयेति ।
स्थितौ च तत्रैव निवेद्य कृष्णां
भिक्षाप्रचाराय गता नराग्र्याः ॥
तेषां तु भैक्षं प्रतिगृह्य कृष्णा
दत्वा बलिं ब्राह्मणसाच्च कृत्वा ।
तां चैव वृद्धां परिवेष्य तांश्च
नरप्रवीरान्स्वयमप्यभुङ्क्त ॥
सुप्तास्तु ते पार्थिव सर्व एव
कृष्णा च तेषां चरणोपधाने ।
आसीत्पृथिव्यां शयनं च तेषां
दर्भाजिनाग्रास्तरणोपपन्नम् ॥
ते नर्दमाना इव कालमेघाः
कथा विचित्राः कथयांबभूवुः ।
न वैश्यशूद्रौपयिकीः कथास्ता
न च द्विजानां कथयन्ति वीराः ॥
निःसंशयं क्षत्रियपुंगवास्ते
यथा हि युद्धं कथयन्ति राजन् ।
आशा हि नो व्यक्तमियं समृद्धा
मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥
यथा हि लक्ष्यं निहतं धनुश्च
सज्यं कृतं तेन तथा प्रसह्य ।
यथा हि भाषन्ति परस्परं ते
छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥ 1-208015x वैशंपायन उवाच ।
ततः स राजा द्रुपदः प्रहृष्टः
पुरोहितं प्रेषायामास तेषाम् ।
विद्याम युष्मानिति भाषमाणो
महात्मानः पाण्डुसुताः स्थ कच्चित् ॥
गृहीतवाक्यो नृपतेः पुरोधा
गत्वा प्रशंसामभिधाय तेषाम् ।
वाक्यं समग्रं नृपतेर्यथाव-
दुवाच चानुक्रमविक्रमेण ॥
विज्ञातुमिच्छत्यवनीश्वरो वः
पाञ्चालराजो वरदो वरार्हाः ।
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा
हर्षस्य नान्तं प्रतिपद्यते सः ॥
आख्यात च ज्ञातिकुलानुपूर्वी
पदं शिरःसु द्विषतां कुरुध्वम् ।
प्रह्लादयध्वं हृदयं ममेदं
पाञ्चालराजस्य च सानुगस्य ॥
पाण्डुर्हि राजा द्रुपदस्य राज्ञः
प्रियः सखा चात्मसमो बभूव ।
तस्यैष कामो दुहिता ममेयं
स्नुषा यदि स्यादिह कौरवस्य ॥
अयं हि कामो द्रुपदस्य राज्ञो
हृदि स्थितो नित्यमनिन्दिताङ्गाः ।
यदर्जुनो वै पृथुदीर्घबाहु-
र्धर्मेण विन्देत सुतां ममैताम् ॥
कृतं हि तत्स्यात्सुकृतं ममेदं
यशश्च पुण्यं च हितं तदेतत् ।
अथोक्तवाक्यं हि पुरोहितं स्थितं
ततो विनीतं समुदीक्ष्य राजा ॥
समीपतो भीममिदं शशास
प्रदीयतां पाद्यमर्ध्यं तथाऽस्मै ।
मान्यः पुरोधा द्रुपदस्य राज्ञ-
स्तस्मै प्रयोज्याऽभ्यधिका हि पूजा ॥
वैशंपायन उवाच ।
भीमस्ततस्तत्कृतवान्नरेन्द्र
तां चैव पूजां प्रतिगृह्य हर्षात् ।
सुखोपविष्टं तु पुरोहितं तदा
युधिष्ठिरो ब्राह्मणमित्युवाच ॥
पाञ्चालराजेन सुता निसृष्टा
स्वधर्मदृष्टेन यथा न कामात् ।
प्रदिष्टशुंल्का द्रुपदेन राज्ञा
सा तेन वीरेण तथाऽनुवृत्ता ॥
न तत्र वर्णेषु कृता विवक्षा
न चापि शीले न कुले न गोत्रे ।
कृतेन सज्येन हि कार्मुकेण
विद्धेन लक्ष्येण हि सा विसृष्टा ॥
सेयं तथाऽनेन महात्मनेह
कृष्णा जिता पार्थिवसङ्घमध्ये ।
नैवं गते सौमकिरद्य राजा
सन्तापमर्हत्यसुखाय कर्तुम् ॥
कामश्च योऽसौ द्रुपदस्य राज्ञः
स चापि संपत्स्यति पार्थिवस्य ।
संप्राप्यरूपां हि नरेन्द्रकन्या-
मिमामहं ब्राह्मण साधु मन्ये ॥
न तद्धनुर्मन्दबलेन शक्यं
मौर्व्या समायोजयितुं तथाहि ।
न चाकृतास्त्रेण न हीनजेन
लक्ष्यं तथा पातयितुं हि शक्यम् ॥
तस्मान्न तापं दुहितुर्निमित्तं
पाञ्चालराजोऽर्हति कर्तुमद्य ।
न चापि तत्पातनमन्यथेह
कर्तुं हि शक्यं भुवि मानवेन ॥
एवं ब्रुवत्येव युधिष्ठिरे तु
पाञ्चालराजस्य समीपतोऽन्यः ।
तत्राजगामाशु नरो द्वितीयो
निवेदयिष्यन्निह सिद्धमन्नम् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥
1-208-27 संप्राप्यरूपासस्माकं योग्यरूपम् ॥ अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥