अध्यायः 043

श्रीकृष्णमहिम्नो विस्तरेण कथनाय भीष्मम्प्रति युधिष्ठिरप्रार्थना ॥ 1 ॥ भीष्णेण विष्णोर्जगत्सृष्टिकथाकथनम् ॥ 2 ॥

वैशम्पायन उवाच ।

ततो भीष्मस्य तच्छ्रुत्वा वचः काले युधिष्ठिरः ।
ज्ञापनार्थाय सर्वेषां भीष्मं पुनरथाब्रवीत् ॥
विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः ।
श्रोतुं भगवतस्तानि प्रब्रवीहि पितामह ॥
कर्मणामानुपूर्वा च प्रादुर्भावाश्च ये विभोः ।
यथा च प्रकृतिः कृष्णे तन्मे ब्रूहि पितामह ॥
एवमुक्तस्तदा भीष्मः प्रोवाच भरतर्षभ ।
युधिष्ठिरममित्रघ्नं तस्मिन्त्राजसमागमे ॥
समक्षं वासुदेवस्य देवस्येव शतक्रतोः ।
कर्माण्यसुकराण्यन्यैराचचक्षे जनाधिप ॥
शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके ।
इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशाम्पते ॥
नाम्नैवामन्त्र्य राजेन्द्र चेदिराजमरिन्दमम् ।
भीमकर्मा ततो भीष्णो भूयः स इतमब्रवीत् ॥
करूणामपि राजानं युधिष्ठिरमभाषत ।
भीष्ण उवाच ।
वर्तमानामतीतां च शृणु राजन्युधिष्ठिर ॥
ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम् ।
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः ॥
पुरा नारायणो देवः स्वयम्भूः प्रपितामहः ।
सहस्रशीर्षः पुरुषो ध्रवोऽनन्तः सनातनः ॥
सहस्रास्यः सहस्राश्चः सहस्रचरणो विभुः ।
सहस्रवाहुः सर्वज्ञो देवो नामसहस्रवान् ॥
सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः ।
अनेकवर्णो देवादिरव्यक्ताद्वै परे स्थितः ॥
असृजत्सलिलं पूर्वं स च नारायणः प्रभुः ।
ततस्तु भगवांस्तोये ब्रह्माणमसृजत्स्वयम् ॥
ब्रह्मा चतुर्मुखो लोकान्सर्वांस्तानसृजत्स्वयम् । आदिकाले पुरा ह्येवं सर्वलोकस्य चोद्भवः ।
पुरा यः प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ॥
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे ।
आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान् ॥
एकस्मिष्ठति सर्वात्मा स तु नारायणः प्रभुः ।
नारायणस्य चाङ्गानि सर्वदैवानि भारत ॥
शिरस्तस्य दिवं राजन्नाभिः खं चरणौ मही ।
अश्विनौ कर्णयोर्देवौ चक्षुषी शशिभास्करौ ॥
इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः ।
अन्यानि सर्वदैवानि सर्वाङ्गानि महात्मनः ॥
सर्वं चापि हरौ संस्थं सूत्रे मणिगणा इव ।
आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वं तमोन्वितम् ॥
नारायणो महायोगी सर्वज्ञः परमात्मवान् ।
ब्रह्मभूतस्तदात्मानं ब्रह्मणमसृजत्स्वयम् ॥
सोऽध्यक्षः सर्वभूतानां प्रभूतप्रभवोऽच्युतः ।
सनत्कुमारं रुद्रं च सप्तर्षीश्च तपोधनात् ॥
सर्वमेवासृजद्ब्रह्मा तथा लोकांस्तथा प्रजाः ।
ते च तद्व्यसृजंस्तत्र प्राप्तकाले युधिष्ठिर ॥
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ।
कल्पानां बहुकोट्यश्चसमतीतास्तु भारत ॥
आभूतसम्प्लवाश्चैव बहुधाऽद्धाऽपचक्रमुः ।
मन्वन्तरयुगा राजन्सङ्कल्पो भूतसम्प्लवाः ॥
चक्रवत्परिवर्तन्ते सर्वं विषमुखं जगत् ।
सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः ॥
स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः ।
ब्रह्मा च सर्वलोकानां लोकस्य च पितामहः ॥
ततो नारायणो देवः सर्वस्य प्रपितामहः ॥ ।

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

2-43-25 विषमुखं जलादिकम् ॥