अध्यायः 045
वराहावतारकथनम् ॥ 1 ॥
भीष्म उवाच ॥
प्रादुर्भावसहस्राणि समतीतान्यनेकशः ।
यथाशक्ति तु वक्ष्यामि शृणु तान्कुरुनन्दन ॥
पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे यत्र सम्भूता देवा ऋषिगणैः सह ॥
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः ।
पुराणैः कथ्यते यत्र वेदश्रुतिसमाहितः ॥
वाराहस्तु श्रुतिसुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ॥
उज्जहार महीं तोयात्सशैलवनकाननाम् ।
वेदपादो यूपदंष्ट्रः क्रतुर्दन्तश्चितीमुखः ॥
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ॥
आज्यनासः स्रुवं तुण्डं सामघोषस्वनो महान् ।
धर्मसत्यमयः श्रीमान्कर्मविक्रमसत्कृतः ॥
प्रायश्चित्तमुखो धीरः पशुजानुर्महावृषः ।
औद्गात्रहोमलिङ्गोऽसौ पशुबीजमहौषधिः ॥
बाह्यन्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः ।
वेदिस्कन्धो हविर्गन्धो हव्यकव्याभिवेगवान् ॥
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरूर्जितः ।
दक्षिणाहृदयो योगी महाशास्त्रमयो महान् ॥
उपाकर्मोष्ठरुचकः प्रावर्ग्यावर्तभूषणः ।
शालापत्नीसहायो वै मणिशृङ्गसमुच्छ्रितः ॥
एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः ।
महीं सागरपर्यन्तां सशैलवनकाननाम् ॥
एकार्णवजले भ्रष्टामेकार्णवगतः प्रभुः ।
मज्जन्तीं सलिले तस्मिन्स्वदेवीं पृथिवीं तदा ॥
उज्जहार विषाणेन मार्गण्डेयस्य पश्यतः ।
शृङ्गेण यः समुद्धृत्य लोकानां हितकाम्यया ॥
सहस्रशीर्षो देवेशो निर्ममे जगतीं प्रभुः ।
एवं यज्ञवराहेण भूतभव्यभात्मना ॥
उद्धृता पृथिवी देवी पूज्या वै सागराम्बरा ।
निहता दानवाः सर्वे देवदेवेन विष्णुना ॥
वाराहः कथितो ह्येष नारसिंहमतो शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥