अध्यायः 049
श्रीहरेर्जमदग्निगृहे रामनाम्नाऽवतरणम् ॥ 1 ॥ परशुरामेण कार्तवीर्यार्जुनहननम् ॥ 2 ॥ । त्रिस्सप्तकृत्वः क्षत्रियान्निहत्य तद्रक्तजलैः स्वपितॄणां तर्पणम् ॥ 3 ॥ काश्यपायाखण्डभूमण्डलं दत्त्वा साल्वेनायोधने कुमारीणां वाण्या तं विसृज्य शस्त्रन्यासपूर्वकं तपश्चरणम् ॥ 4 ॥
भीष्म उवाच ॥
तथा भृगुकुले जन्म यदर्थं च महात्मनः ।
जामदग्न्य इति ख्यातः प्रादुर्भावश्च वैष्णवः ॥
जमदग्निसुतो राजन्त्रामो नाम स वीर्यवान् ।
हेहयान्तकरो राजन्स रामो बलिनां वरः ॥
कार्तावीर्यो महावीर्यो बलेनाप्रतिमस्तदा ।
रामेण जामदग्न्येन हतो विषममाचरन् ॥
तं कार्तवीर्यं राजानं हेहयानामरिन्दमम् ।
रथस्थं पार्थिवं रामः पातयित्वाऽवधीद्रणे ॥
जम्भस्य यज्ञं हत्वा स ऋत्विजश्चैव संस्तरे ।
जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः ॥
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान् ।
सहस्रबाहुमुद्धर्तुं सहस्रजितमाहवे ॥
क्षत्रियाणां चतुष्पष्टिमयुतानि महायशाः ।
सरस्वत्यां समेतानि एष वै धनुषाऽजयत् ॥
ब्रह्मद्विषां धे तस्मिन्महस्राणि चतुर्दश ।
पुनर्जघान शूराणामतिक्रूरो रथर्षभः ॥
ततो राज्ञां सहस्रं स भङ्क्ता पूर्वमरिन्दमः ।
सहस्रं मुसलेनाहन्सहस्रमुदकृन्तत ॥
चतुर्दशसहस्राणि कृणदूममपाययत् ।
शिष्टान्ब्रह्मद्विषो जित्वा ततोऽस्नायत भार्गवः
रामरामेत्यमिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः ।
निघ्नञ्शतसहस्राणि रामः परशुनाभिभूः ॥
न ह्यमृष्यत तां वाचमार्तैर्भृशमुदीरिताम् ।
भृगो रामाभिधावेति यदाऽक्रन्दन्द्विजातयः ॥
काश्मीरान्दरदान्कुन्तीन्क्षुद्रकान्मालवाञ्छवान् ।
चेदिकाशिकरूशांश्च ऋषिकान्क्रथकैशिकान् ॥
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् ।
रात्रायणान्वीतिहोत्रान्किरातान्कार्तिकावतान् ॥
एतानन्यांश्च राजन्यान्देशेदेशे सहस्रशः ।
निकृत्य निशितैर्बाणैः सम्प्रदाय विवस्वते ॥
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा ।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥
कृत्वा निःक्षत्रियां चैव भार्गवः स महायशाः ।
इन्द्रगोपकवर्णस्य जीवञ्जीवनिभस्य च ॥
पूरयित्वा च सरितः क्षतजस्य सरांसि च ।
चकार तर्पणं वीरः पितॄणां तासु तेषु च ॥
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः ।
सोऽश्वमेधसहस्राणि नरमेधशतानि च ॥
इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ ।
तस्याग्रेणानुपर्येति भूमिं कृत्वा विपांसुलाम् ॥
ततः कालकृतां सत्यां भार्गवाय महात्मने ।
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ॥
वेदिमष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम् ।
रामेण जामदग्न्येन प्रतिजग्राह काश्यपः ॥
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः ।
अन्यद्वर्षशतं रामः सौभे साल्वमयोधयत् ॥
ततः स भृगुशार्दूलस्तं सौभं योधयन्प्रभुः ।
सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ ॥
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत् ।
रामराम महाबाहो भृगूणां कीर्तिवर्धन ॥
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि ।
शङ्खचक्रगदापाणिर्देवानामभयङ्गरः ॥
युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति ।
तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययौ ॥
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः ।
रथं सर्वायुधं चैव शरान्परशुमेव च ॥
धनूंष्यप्सु प्रतिष्ठाप्य रामस्तेपे परं तपः ।
ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः ॥
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह ।
आदिकाले प्रवृत्तं तु व्यभजत्करमीश्वरः ॥
नाघ्नतं श्रद्धया सौभं न ह्यशक्तो महायशाः ।
जामदग्न्य इति ख्यातो यस्त्वयं भगवानुपिः ।
सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥