अध्यायः 050

श्रीविष्णोर्दशरथगृहे रामत्वेनावतारः ॥ 1 ॥ विश्वामित्रेण स्वाश्रमं नीतेन सलक्ष्मणेन रामेण सुबाह्वादिहननम् ॥ 2 ॥ सीतामुदूह्य निजनगरमेत्य पितृनिदेशेन सीतालक्ष्मणाभ्यां सह वनं गतेन रामेण स्वरदूषणादिहननम् ॥ 3 ॥ सीतावियोगिनः सुग्रीवेण सख्यमेत्य वालिनं संहृतवतो रामस्य हनुमद्वचनेन लङ्क ागमनम् ॥ 4 ॥ रावणादीन्निहत्य सीताप्रमुखैः सहायोध्यां गतेन रामेण लवणासुरं शत्रुघ्नेन घ ातयित्वा प्रजापालनम् ॥ 5 ॥ सङ्ग्रहेण श्रीकृष्णचरित्रनिरूपणं कल्क्यवतारकथनं च ॥ 6 ॥

भीष्म उवाच ॥

शृणु राजंस्ततो विष्णोः प्रादुर्भावं महात्मनः ।
अष्टाविंशे युगे चापि मार्कण्डेयपुरः सरः ॥
तिथौ नावमिके जज्ञे तथा दशरथादपि ।
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा विष्णुरव्ययः ॥
लोके राम इति ख्यातस्तेजसा भास्करोपमः ।
प्रसादनार्थं लोकस्य विष्णुस्तत्र सनातनः ॥
धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः ।
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ॥
यज्ञविघ्नकरस्तत्र विश्वामित्रस्य भारत ।
सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम् ॥
तस्मै दत्तानि चास्राणि विश्वमित्रेण धीमता ।
वधार्थं सर्वशत्रूणां दुर्वाराणि सुरैरपि ॥
वर्तमाने महायज्ञे जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया भृशम् ॥
ततस्तु सीतां जग्राह भार्यार्थे जानकीं विभुः ।
नगरीं पुनरासाद्य मुमुदे तत्र सीतया ॥
कस्यचित्त्वथ कालस्य पित्रा तत्राभिचोदितः ।
कैकेय्याः प्रियमन्विच्छन्वनमभ्यवपद्यत ॥
यः समाः सर्वधर्मज्ञश्चतुर्दश वने वसन ।
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥
चतुर्दश वने तीर्त्वा तदा वर्षाणि भारत ।
रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः ॥
पूर्वोचितत्वात्सा लक्ष्मीर्भर्तारमनुशोचति ।
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥
मारीचं दूषणं हुत्वा खरं त्रिशिरसं तथा ।
चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम् ॥
जघान रामो धर्मात्मा प्रजानां हितकाम्यय ।
विराधं च कबन्धं च राक्षसौ घोरकर्मिणौ ॥
जघान च तदा रामो गन्धर्वौ शाषविक्षतौ ।
स रावणस्य भगिनीनासाच्छेदमकारयत् ॥
भार्यावियोगं तं प्राप्य मृगयन्व्यचरद्वनम् ।
स तस्मादृश्यमूकं तु गत्वा पम्पामतीत्य च ॥
सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै ।
अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह ॥
निहत्य वालिनं युद्धे वानरेद्रं महाबलम् ।
अभ्यपिञ्चत्तदा रामः सुग्रीवं वानरेश्वरम् ॥
ततः स वीर्यवान्राजंस्त्वरया वै समुत्सुकः ।
विचित्य वायुपुत्रेण लङ्कादेशं निवेदितः ॥
मेतुं वद्ध्वा समुद्रस्य वानरैः स समुत्सुकः ।
सीतायाः पदमन्विच्छन्रामो लङ्कां विवेश वै ॥
देवोरगगणानां हि यक्षराक्षसपक्षिणाम् ।
तत्रावद्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ॥
युक्तं राक्षसकोटीभिर्भिन्नाञ्जनचयोपमम् ।
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ॥
जघान सचिवैः सार्धं सान्वयं रावणं रणे ॥
त्रैलोक्यकण्टकं वीरं महाकायं महाबलम् ।
रावमं सगणं हत्वा रामो भूतपतिः पुरा ॥
लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम् ।
अभिषिच्य ततो राम अमरत्वं ददौ तदा ॥
आरुह्य पुष्पकं रामः सीतामादाय पाण्डव ।
सबलं स्वपुरं गत्वा धर्मराज्यमपालयत् ॥
दानवो लवणो नाम मधोः पुत्रो महाबलः ।
शत्रुघ्नेन हतो राजंस्तदा रामस्य शासनात् ॥
एवं बहूनि कर्माणि कृत्वा लोकहिताय सः ।
राजं चकार विधिवद्रामो धर्मभृतां वरः ॥
शताश्वमेधानाजह्रे ज्योतिरुक्थ्यान्निरर्गलान् । नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा ।
न दस्युजं भयं चासीद्रामे राज्यं प्रशसति ।
ऋषीणां देवतानां च मनुष्याणां तथैव च ॥
पृथिव्यां धार्मिकाः सर्वे रामे राज्यं प्रशासति ।
नाधर्मिष्ठो नरः कश्चिद्बभूव प्राणिनां क्वचित् ॥
प्राणापानौ समौ ह्यास्तां रामे राज्यं प्रशासति ।
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ॥
श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम् ॥
रामो रामो राम इति प्राजानामभवन्कथाः ।
रामभूतं जगदिदं रामे राज्यं प्रशासति ॥
ऋग्यजुः सामहीनाश्च न तदाऽसन्द्विजायः ।
उषित्वा दण्डके कार्यं त्रिदशानां चकार सः ॥
पूर्वापकारिणं तं तु पौलस्त्यं मनुजर्षभम् ।
देवगन्धर्वनागानामरिं स निजघानह ॥
सत्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः ॥
रावणं सगणं हत्वा दिवमाक्रमताभिभूः ।
इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः ॥
ततः कृष्णो महाबाहुर्भीतानामभयङ्करः ।
अष्टाविंशे युगे राजञ्जज्ञे श्रीवत्सलक्षणः ॥
पेशलश्च वदान्यश्चलोके बहुमतो नृषु ।
स्मृतिमान्देशकालज्ञः शङ्खचक्रगदासिभृत् ॥
वासुदेव इति ख्यातो लोकानां हितकृत्सदा ।
वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया ॥
शत्रूणां भयकृद्दाता मधुहेति स विश्रुतः ।
शकटार्जुनरामाणां कीलस्थानान्यसूदयत् ॥
कंसादीन्निजघानाजौ दैत्यान्मानुषविग्रहान् ।
अयं लोकहितार्थाय प्रादुर्भावो महात्मनः ॥
कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः ।
लेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते ॥
पाषण्डिनां गणानां हि वधार्थं भरतर्षभ ।
धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया ॥
एते चान्ये च बहवो विष्णोर्देवगणैर्युताः ।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥